________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
निश्चयव्यवहारनयभेदेन | भाषाभेदविभागः।।
पढमा दो पजत्ता, उवरिल्लाओ अदो अपजत्ता। अवहारेउं सक्का, पजत्तण्णा य विवरीआ ॥१६॥
प्रथमे द्वे सत्यासत्ये भाषे, पर्याप्त, उपरितने द्वे सत्यामृषाऽसत्यामृषे, अपर्याप्ते, तत्रावधारयितुं शक्यते या सा पर्याप्ता, च पुनः विपरीता चावधारयितुमशक्या चान्याऽपर्याप्ता । तदुक्तं वाक्यशुद्धिचूर्णी ।। "पञ्जत्तिगा णाम जा अवहारेतुं सक्कइ जहा सचा मोसा वा, एसा पञ्जत्तिगा। जा पुण सच्चा वि मोसा वि दुपक्खगा वि सा न सकइ विभाविउं जहा एसा सच्चा वा मोसा वा सा अपजत्तिगत्ति" (पर्याप्तिका नाम याऽवधारयितुं शक्यते यथा सत्या वा मृषा वा एषा पर्याप्तिका ।। या पुनः सत्यापि मृषापि द्विपक्षगापि सा न शक्यते विभावयितुं यथा एषा सत्या वा मृषा वा सा अपर्याप्तिका) अवधारणीयत्वं च 'सत्याऽसत्यान्यतरत्वप्रकारकप्रमाविषयत्वम् ', अनवधारणीयत्वं च तदभावस्तेन न तदन्यतरभ्रमविषयत्वेनापर्याप्तायाः पर्याप्तत्त्वं, न वा तत्संशयविषयत्वेन पर्याप्ताया अपर्याप्तत्वमित्यायूह्यम् , अन्यतरव्यवहार एवावधारणमित्यपरे ।। १६ ॥ अथ प्रागुक्तमेव भाषाविभागं निश्चयव्यवहाराभ्यां विवेचयति
भासा चउबिहत्ति य, ववहारणया मुअम्मि पन्नाणं।।
सचा मुसत्ति भासा, दुविहचिय हंदि णिच्छयओ ॥ १७ ॥ भाषा चतुर्विधेति च व्यवहारनयात् श्रुते प्रज्ञानम् ॥ इह खलु विप्रतिपत्तौ वस्तुप्रतितिष्ठासया यथाश्रुतं यदुच्यतेऽस्ति जीवः सदसद्रूप इति तदेव सत्यं परिभाष्यते आराधकत्वात् , यत्तु तदा श्रुतोत्तीर्णमुच्यतेऽ(ना)स्ति
For Private and Personal Use Only