SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीभाषारहस्यं सवृत्तिकम् ॥ लघुत्वादितिचेत्, न, संशयव्यावृत्तानुमितित्वस्यैव व्याप्तिज्ञानादिजन्यतावच्छेदकत्वात् । सम्भावनायास्तजन्यत्वे भावभाषातद्घटितनिश्चयसामग्रीप्रतिबध्यतावच्छेदककोटावनुत्कटकोटिकत्वादिप्रवेशे गौरवादिदमित्थमेवेत्यवधारणस्य न या द्रव्य| सन्देहि किन्तु निश्चिनोमीत्याद्यनुव्यवसायस्य चानुपपत्तेरित्यन्यत्र विस्तरः। तदिदमभिप्रेत्योक्तं भगवता श्या- श्रुतचारित्रमाचार्येण “से नूणं भंते मण्णामीति ओहारिणी भासा, चिंतेमीति ओहारिणी भासा, अह मण्णामीति ओहारिणीभेदेन त्रैवि. भासा, अह चिंतेमीति ओहारिणी भासा, तह मण्णामीति ओहारिणी भासा, तह चिंतेमीति ओहारिणी भासा ? ध्यं । द्रव्यहंता गोयमा! मण्णामीति ओहारिणी भासा, चिंतेमीति ओहारिणी भासा, अह मण्णामीति ओहारिणी भासा, भाषायाअह चिंतेमीति ओहारिणी भासा, तह मण्णामीति ओहारिणी भासा, तह चिंतेमीति ओहारिणी भासत्ति " ( अथ चातुर्विध्यंनूनं भदन्त मन्ये इत्यवधारणीभाषा, चिन्तयामीत्यवधारणीभाषा, यथामन्ये इत्यवधारणीभाषा, यथाचिन्तया च सत्यादि मीत्यवधारपीभाषा, तथामन्ये इत्यवधारणीभाषा, तथाचिन्तयामीत्यवधारणीभाषा ! हन्त गौतम मन्ये०) ॥ १४ ॥ | भेदतः उक्ताया एव भावभाषाया भेदानाह प्ररूपणम् ॥ भावे वि होइ तिविहा, दब्वे असुए तहा चरित्ते य । दव्वेचउहा सच्चाऽ-सच्चा मीसा अणुभया य।१५। भावेऽपि भावनिक्षेपेऽपि, भवति त्रिविधा त्रिप्रकारा भाषा, द्रव्ये च श्रुते तथा चरित्रे च, द्रव्यं प्रतीत्य भावभाषा, श्रुतं प्रतीत्य, चारित्रं प्रतीत्य च सेत्यर्थः। द्रव्ये चतुर्दा सत्याऽसत्या मिश्राऽनुभया च एतासां लक्षणं यथावसरं वक्ष्यामः ॥ १५ ॥ एता एव द्वाभ्यां भेदाभ्यां सङ्ग्रहाति AAP A For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy