Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीभाषारहस्यं सवृत्तिकम् ॥
भावभाषाप्रसङ्गेन बौद्धमतनिरसनम् ।।
REA4%A6%
अत्र भाषानिक्षेपप्रक्रमे, उपयुक्तानामिदमित्थं मया भाषितव्यमित्थमेव भाष्यमाणं श्रोतृपरिज्ञानाय भवि- | व्यतीत्यादि सम्यगुपयोगशालिनां, भाषा भावभाषेति ज्ञातव्या, कुत इत्याह, खल्विति निश्चये, उपयोगो
भावो,अनुपयोगश्च द्रव्यमिति कृत्वा,तदिदमभिप्रेत्योक्तं वाक्यशुद्धिचू! | "भावभासा णाम जेणाहिप्पाएण भासा भवइ सा भावभासा, कहं, ? जो भासिउमिच्छइ सो पुत्वमेव अत्ताणं पत्तियावेइ, जहा इमं मए वत्तवंति, भासमाणो परं पत्तियावेइ, एयं भासाए पओअणं जं परमप्पाणं च अत्थे अवबोधयति त्ति" ( भावभाषा नाम येनाभिप्रायेण भाषा भवति सा भावभाषा, कथं ? यो भाषितुमिच्छति स पूर्वमेव आत्मानं प्रत्याययति, यथेदं मया वक्तव्यमिति । भाषमाणः परं प्रत्याययति । एतद्भापायाःप्रयोजनं यत्परमात्मानं चार्थानवबोधयतीति) अथाग्न्युपयोगस्य भावाग्नित्ववद्भापोपयोगस्य भावभापात्वमुच्यतां न तूपयोगविषये वचन इति चेत् , न, भाव एव भाषेति भङ्गयोक्तार्थानुपपत्तावपि भावेन भाषेति भणया प्रकृतोपपत्तेः परिभाषकेच्छायाश्चातिप्रसङ्गभञ्जकत्वादिति दिग् ॥१३॥ _ (सौगतः) ननु भाषा न निर्णायिका तादात्म्यतदुत्पत्तिविरहेण शब्दार्थयोरसम्बन्धात्प्रतिनियतावबोधानुपपत्तेः, नचैवं शब्दानामेवानुत्पत्तिप्रसङ्गोऽर्थबोधकत्वं प्रतिसन्धायैव तदुच्चारादिति वाच्यम् , विकल्पेभ्य एव तदुत्पत्तेस्तेषामपि च विकल्पजननेनैव चरितार्थत्वात् । उक्तं च ॥ “विकल्पयोनयः शब्दा, विकल्पाः शब्दयोनयः॥ कार्यकारणता तेषां, नार्थ शब्दाः स्पृशन्त्यपि ॥१॥” इति । एवं च न गामानयेत्यतः प्रवृत्त्यनुपपत्तिरपि, न चैवमनुमानोच्छेदः, तत्रानुभवसिद्धप्रमाविशेषकारणस्य व्यायादेरवाधादत्र तु सङ्गतिबाधस्योक्तत्वादित्यत आह--
For Private and Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126