Book Title: Bhasharahasya Prakaranam
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ॐ
4545454545454
ओहारिणी य एसा,सुआउ णायं इमंति ववहारा। संभावणा य निण्णय-हेतुअसज्झत्ति दव्वं ।१४।।
|भावभाषाएषा च भाषा, अवधारिणी निश्चायिका पदपदार्थयोः सङ्केतरूपसम्बन्धव्यवस्थापनेन हेत्वनुपपत्तिनिरासात्, प्रसङ्गेन वैन चानाकासादिपदेष्वप्रत्यायकत्वदर्शनादन्यत्रापि प्रमाणत्वसंशयः, प्रत्यक्षेऽपि तदनुद्धारा , न च शास्त्रोक्तार्थानां शेषिक-चाविसंवाददर्शनात्तदप्रामाण्यम् , तद्विसंवादस्यैवासिद्धेः, क्वचिद्विहितकर्मणः फलाभावस्याङ्गवैकल्यायधीनत्वादिति लाकिमतदिग्॥(वैशेषिकः) अथास्तु शब्दप्रामाण्यं तथापि न स्वतन्त्रतया किन्त्वनुमानविधया, न च शब्दस्यार्थाऽव्याप्यत्वा- निरासः। त्कथं ततस्तदनुमानमिति वाच्यम् , एते पदार्था, मिथः संसर्गवन्तः, आकांक्षादिमत्पदस्मारितत्वादित्यादिदिशाऽनु
| सिद्धान्तमानादितिचेत् , अत्राह-श्रुतात् ज्ञातमेतदिति व्यवहारात्, यथा हि अनुमिनोमीति धिया प्रमाविशेषसिद्धेः
संवादश्च ॥ प्रमाणान्तरसिद्धिस्तथा शब्दात्प्रत्येमीति धिया प्रमाविशेषसिद्धेः, तत्रापि प्रमाणान्तरसिद्धिरप्रत्युहैव, व्याप्त्यादिज्ञानं विनापि शब्दादाहत्यार्थप्रतीतेश्च न तस्यानुमानत्वमिति दिग् । लोकायतिकस्त्वाह अनुमानमपि न प्रमाणं कुतस्तरां
शब्दो धूमादिदर्शनानन्तरमग्न्यादिव्यवहारस्यापि सम्भावनयवोपपत्तेरिति, तत्राह, सम्भावना च निर्णयहेत्वसा | ध्येतिद्रष्टव्यम् । सम्भावना हि संशयरूपैव सा च न परामर्शादिनिश्चयहेतुसाध्या निश्चयसामग्र्यां सत्यां संशयानुत्पादात् , अन्यथा वक्रकोटरादिज्ञाने सत्यपि स्थाणौ पुरुषत्वसंशयोत्पादप्रसङ्गात् । अथ 'भावांशे उत्कटकोटिकसंशय
एव सम्भावना', 'उत्कटत्वं च निष्कम्पप्रवृत्तिप्रयोजको धर्मविशेषः' तत्प्रयोजकतया च धूमदर्शनाद्यादरो, न च धृमा। देरग्न्यादिसम्भावनाहेतुत्वे गौरवम् , तदभावाप्रकारकत्वघटितनिश्चयत्वापेक्षया तदभावप्रकारकत्वघटितसंशयत्वस्य |
For Private and Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126