________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
भावभाषात्वमेवेति ग्रहणमेव द्रव्यभाषा स्यान्न निसर्गादीत्युक्तविवक्षवादरणीया। एवं वचोयोगप्रभवा भाषेत्यपि । निसर्गकाले भावभाषानभ्युपगमे विरुद्धथेत, वचोयोगो हि " निसर्गानुकूलः कायसंरम्भः, काययोगाहृतवागद्रव्यसमूहसध्रीचीनजीवव्यापारो" वेत्यन्यदेतत् , उभयथापि तज्जन्या भावभाषेत्युपेयम् , अन्यथा भाषापरिणत्यनुकूलवाग्योगवैकल्यात् , किंबहुना, एवं हि 'भाष्यमाणा भाषेति' भागवतमपि वचनं विरुद्धयेत । अत्र भावभाषात्वस्यैव विधेयत्वात् , अन्यथा न पूर्व नापि पश्चादित्यवधारणानुपपत्तेः । अथ भाष्यमाणा भाषेति कथम् ?, नहि भाव भाष्यते किन्तु विषय इति चेत् , सत्य, भाषापदसमभिव्याहारे वचनार्थकधातोर्यत्नविशेषपरत्वात् , अत एव वाचमुच्चरतीत्यादिलोंकेपि प्रयोगः । ननु तथापि कथमेतदभिन्नानामेव भाषाद्रव्याणामारम्भतः शब्दपरिणामत्यागात् भिन्नानां तु लोकाभिव्याप्त्यादिना परतोपि तत्परिणामावस्थानान्निसर्गसमय एव भापति प्रतिज्ञाविरोधात् । न च निसर्गोत्तरं वासनयैव भाषापरिणामाद्विशेषोऽभिधेयः, तया द्रव्यान्तराणां भाषापरिणामाधानेपि निसृष्टद्रव्याणां तदपरित्यागात् , न च सूक्ष्मणुसूत्रनयेनोपपत्तिः, तन्नयेऽपि परतस्तत्परिणतिधाराऽविच्छेदात् , नापि स्थूलकालमादाय वर्तमानत्वोपग्रहान्न दोष इति वाच्यं, वर्तमानयत्नोपरमेपि भाषापरिणामानुपरमादिति चेत् , न, अत्र क्रियारूपभावभाषाया एव ग्रहणाच्छब्दार्थोपपत्तेरिति हेत्वभिधानाद्भाषापरिणामस्य तदुत्तरकालमप्यप्रत्यूहात् शब्दार्थवियोगादिति हेतुना तदा क्रियारूपभावभाषाया एव निषेधादित्याकलयामः ॥ १२ ॥ अथ भावभाषामाहउवउत्ताणं भासा,णायव्वा एत्थ भावभासत्ति|उवओगोखलु भावो,णुवओगोदव्वमिति कट्ठ।१३।
CHOREGAONKARRENCE
द्रव्यभाषा| स्वरूपं
समर्थ्य भावभाषायाः स्वरूपादिप्ररूपणम् ।।
For Private and Personal Use Only