Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 15
________________ अलङ्कारसर्वस्वम् । 'रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः। तदित त्रिविधमपि प्रतीयमानमलंकारतया ख्यापितमेव । 'भीमभूकुटिपन्नगीफणमणिः कामस्य चण्डं चिताकुण्डं कुण्डलितेन्दुनालवलयप्रभ्रंशिरक्तोत्पलम् । घ्राणस्याटिकमल्लिकापरिचिते भालाग्रशालाजिरे दीपा दीपशिखा शिवस्य नयनं कार्षाणवं पातु नः ॥" अत्र नयनादीनां मणिप्रभृतीनां चापमा वाच्योपस्कारायावगम्यते । तां विना सादृश्याप्रतिपत्तेः। दीपकं यथा* पाउप्रबन्धं पढिउं बन्धेउं तह श्र कुजकुसुमाई। पोढमहिलं अ रमिउं विरलचित्र के वि जाणेन्ति ॥" अत्र प्राकृतबन्धपाठादेरुपमावाच्योपस्कारायावगम्यते । प्रकृतस्य प्रौढमहिलारमणादेः सादृश्योपादानायैवोभयोरुपनिबन्धात् । अपह्नतिर्यथा-'अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये ___ कलङ्को नैवाय विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥' अत्र कलङ्कस्य रजनिसादृश्यप्रतीतेरुपमा वाच्योपस्कारायाव. गम्यत एव । तुल्ययोगिता यथा'द्विगुणितादुपधानभुजाच्छिरः पुलकितादुरसः स्तनमण्डलम् । अधरमर्धसमर्पितमाननाद्वयघटयन्त कथंचन योषितः ॥' अत्र भुजादीनां सादृश्यावगमादुपमावाच्योपस्कारायावगम्यते । तुल्ययोगितादावित्यादिशब्दान्निदर्शनादेर्ग्रहणम् । उपमादीत्यादिशब्दादुपमेयोपमादीनाम् । - (१) अधुना रसस्यापि वाच्योपस्कारकत्वं दर्शयितुमाह-रसवदित्यादि । प्रभृतिशब्दादूर्जस्व्यादयः। श्रादिशब्दाच तदाभासादयः । तत्र रसवदलंकारो यथा *प्राकृतबन्धं पठितु बद्धं तथा च कुब्जकुसुमानि । प्रौढमहिलाञ्च रन्तुं विरला एव केऽपि जानन्ति ॥ छाया ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134