Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 119
________________ १०८ अलङ्कारसर्वस्वम् । अत्राङ्गुलीभिरिवेत्युपमा, सैव सरोजलोचनमित्यस्या उपमायाः प्रसाधिका । रजनीमुखमिति श्लेषमूलातिशयोक्तिः। प्रारम्भवदनाख्ययोर्मुख्ययोरभेदाध्यवसायात् । अत एव तयोरङ्गाङ्गिभावः। एवं च वाक्योक्तसमासोक्ते उपमे श्लेषानुगृहीता चातिशयोक्तिरुत्प्रेक्षायाः 'चुम्बतीव' इति प्रकाशिताया अनुमाहिका। तबलेन तस्याः समुत्थानात्। सा च समुत्थापिता समुत्थापकानां चमत्कारकारितानिबन्धनमित्यस्त्यङ्गाङ्गिभावः । यथा वा 'त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणी प्रत्यगमद्विवस्वान् । मन्येऽस्तशैलात्पतितोऽत एव विवेश शुद्ध्यै वडवाग्निमध्यम् ॥' अत्र प्रथमाधैं विरोधप्रतिभोत्पत्तिहेतुः श्लेषः । दर्शनान्तरे तु विरोधश्लेषौ द्वावलंकारौ । तदनुगृहीता च द्वितीयेऽधैं मन्येपदप्रका. शितोत्प्रेक्षा । अतश्चात्राङ्गाङ्गिभावः । तथा ह्यत्र यत्कारणमुत्प्रेक्षते तत्र विरोधश्लेषानुप्रवेशः। यश्चात्र कार्यमुत्प्रेक्षानिमित्तं, तत्र पतितत्वाग्निप्रवेशौ वस्तुस्थित्या अन्यथास्थितावपि अन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसितौ शेयौ। तेनात्राकाङ्गिभावः संकरः । न च विरोधप्रतिभोत्पत्तिहेतौ श्लेषे श्लेषस्य वि. रोधेन सहाङ्गाङ्गिभावः संकरः, उत्प्रेक्षाया वा निमित्तगतातिशयोक्त्या सहाङ्गाङ्गिभावः संकरः, ताभ्यां विना तयोरनुत्थानात् । अतश्च निरवकाशत्वाद्धाधकत्वम् । न च मन्तव्यं विरोधमन्तरेणापि श्लेषो दृश्यते इति श्लेषस्य सावकाशत्वमिति । यतो न बमो विरोधमन्तरेणापि श्लेषो न भवतीति । किं तहलंकारान्तरविविक्तो विषयः श्लेषस्य नास्तीति निरवकाशत्वात्तेषां बाधः । तन्मध्ये च विरोधोऽनुप्रविष्ट इति सोऽपि तेन बाध्यत इति न कश्चिद्दोषः । एव मर्थालंकारसंकर उक्तः। शब्दालंकारसंकरस्तु कैश्चिदुदाहृतो यथा 'राजति तटीयमभिहतदानवरासातिपातिसारावनदा। गजता च यूथमविरतदानवरा सातिपाति सारा वनदा ॥' अत्र यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षित्वेनाशाहिसंकर इति। एतत्तु न सम्यगावर्जकम् । शब्दालंकारयोः शब्दवदुपकार्योपकारकत्वाभावेनाङ्गाङ्गिभावाभावात् । शब्दालंकारसंघष्टिस्त्वत्र श्रेयसी । यथोदाहृतं पूर्वम् ।

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134