Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 121
________________ अलङ्कारसर्वस्वम् । 'एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि । संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥ .. .... अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहेण साधकं प्रमाणम्। बाधकं यथा-- 'शरदीव प्रसर्पन्त्यां तस्य कोदण्डटांकृती। -:. विनिद्रजम्भितहरिविन्ध्योदधिरजायत ।' अत्र विन्ध्य उद्धिरिवेत्युपमापरिग्रहे विनिद्रजम्भितहरिरिति सा. धारणं विशेषणं बाधकं प्रमाणम् । 'उपमितं व्याघ्रादिभिः सह सामा. ज्याप्रयोग' इति वचनात् । उपमासमासे प्रतिकूलत्वात् । अतश्च पारिशेष्याद्रपकपरिग्रहः । न तु शरदीवेत्युपमात्रोपमासाधकत्वेन विज्ञेया । न ह्यौपम्येन कदाचिदर्थसिद्धिः न ह्यौपम्येनालंकारेण प्रक्रान्तेन निर्वाहः कर्तव्य इति राजाज्ञैषा । नापि धर्मसूत्रकारवचनम् । नाप्येष न्यायः । उत्तरोत्तरसाम्यप्रकर्षविवक्षणे प्रक्रान्तोपमापरित्यागेन रूपकनिर्वाह स्योचितत्वात्। विपर्ययस्तु दुष्ट एव । यथा-'येनेन्दुर्दहनो विषंमलयजं हारः कुठारायते । तस्मात्प्रकृते सामान्यप्रयोगे उपमापरिग्रहे बाधक इति मयूरव्यंसकादेशकृतिगणत्वाद्रपकसमाश्रयेण रूपकमेव बोद्धव्यम् । एवं 'भाष्याब्धिः क्वातिगम्भीरः' इत्यादी द्रष्टव्यम् । साधकबाधकाभावे तु संदेहसंकरः। यथोदाहृतम् । ... तृतीयस्तु प्रकार एकवाचकानुप्रवेशलक्षणः। यत्रैकस्मिन्वाचके - नेकालंकारानुप्रवेशः, न च संदेहो नाप्यङ्गाङ्गिभावः । यथा-- . 'मुरारिनिर्गता नूनं नरकप्रतिबन्धिनी । तवापि मूर्ध्नि गङ्गेव चक्रधारा पतिष्यति ॥" .. अत्र मुरारिनिर्गतेति साधारणविशेषणहेतुका उपमा, नरकप्रतिबन्धिनीति श्लिष्टविशेषणसमुत्थश्वोपमाप्रतिभोत्पत्तिहेतुः श्लेषश्चैकस्मिन्नेव शब्दे प्रविष्टौ, तस्योभयोपकारित्वात् । अत्र च यथार्थश्लेषण सहोपमायाः संकरस्तथा शब्दश्लेषेणापि सह दृश्यते यथा 'सत्पुष्करद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाये। , उद्यानवापीपयसीव यस्यामेणीगृशो नाट्यगृहे रमन्ते ॥" . अत्र पयसीव नाट्यगृहे रमन्ते इत्येतावतैव समुचितोपमा निष्पन्ना। सत्पुष्करद्योतितरङ्ग इति शब्दश्लेषेण सहकस्मिन्नेव शब्दे

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134