Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 126
________________ ( ३ ) (४) परस्परं क्रिया जननेऽन्योन्यम् । (५०) अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणञ्च विशेष (५१) यथा साधितस्य तथैवान्येनान्यथाकरणं व्याघातः । (५२) सौकर्येण कार्यविरुद्धक्रिया च । (५३) पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला । (५४) यथापूर्व परस्य विशेषणतया स्थापनेऽपोहनेवैकावली । (५५) पूर्वपूर्वस्योत्तरोत्तर गुणावहत्वे मालादीपकम् । (५६) उत्तरोत्तरमुत्कर्षः सारः। (५७) हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गम् । . .. (५८) साध्यसाधननिर्देशोऽनुमानम् । (५४) उद्दिष्टानामर्थानां क्रमेणानुनिर्देशो यथासंङ्ख्यम् । (६०) एकमनेकस्मिन्ननेकमेकस्मिन् वा क्रमेण पर्यायः । (६१) समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः। (६२) एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसङ्ख्या । (६३) दण्डापूपिकयार्थान्तरापतनमर्थापत्तिः। , (६४) तुल्यबलविरोधो विकल्पः । (६५) गुणक्रियायोगपद्यं समुच्चयः । (६६' एकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वञ्च । (६७) कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः । (६८) प्रतिपक्षप्रतीकाराशक्तौ तदीयतिरस्कारः प्रत्यनीकम् । (६४) उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम् । (७०) वस्तुना वस्त्वन्तरनिगृहनं निमीलितम् । (७१) प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् । (७२. स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः । (७३) सति हेतौ तद्रपाननुहारोऽतद्गुणः । (७४) उत्तरात्प्रश्नोनयनमसकृदसम्भाव्यमुत्तरं चोत्तरम् । (७५) संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् । (७६) उद्न्निवस्तुनिगूहनं व्याजोक्तिः । (७७) अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथा योजनं वक्रोक्तिः। (७८) सूक्ष्मवस्तुस्वभावस्य यथाववर्णनं स्वभावोक्तिः ।

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134