Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 125
________________ (२४) प्रस्तुतानामप्रस्तुतानाच दीपकम् । (२५) वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथनिर्देशे प्रति वस्तूपमा (२६) तस्यापि बिम्बप्रतिबिम्बतया निर्देशे दृष्टान्तः। (२७) सम्भवतासम्भवता वा वस्तुसम्बन्धेन गम्यमानं प्रतिबिम्ब करणं निदर्शना। (२८) भेदप्राधान्य उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः । (२६) उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसम्बन्धे सहोक्तिः। (३०) विना किञ्चिदन्यस्य सदसत्त्वाभावो विनोक्तिः । (३१) विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः । (३२) विशेषणसाभिप्रायत्वं परिकरः । (३३) विशेष्यस्यापि साम्ये द्वयोवळपादाने श्लेषः। (१४) अप्रस्तुतात् सामान्यविशेषभावे कार्यकारणभावे सारूप्येच प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा। (३५) सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्था न्तरन्यासः। (३६) गम्यस्यापि भङ्ग्यन्तरेणाभिधानं पर्यायोक्तम् । (३७) स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः । (३८) उक्तवक्ष्यमाणयोः प्राकरणिकयाविशेषप्रतिपत्त्यर्थं निषेधाभास आक्षेपः। (३६) अनिष्टविध्याभासश्च । (४०) विरुद्धाभासत्वं विरोधः । (४२) कारणाभावे कार्यस्योत्पत्तिविभावना । (४२) कारणसामग्र्ये कार्यानुत्पत्तिविशेषोक्तिः। (४३) कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः। (४४) तयोविभिन्न देशत्वेऽसङ्गतिः। (४५) विरूपकार्यानर्थयोरुत्पत्तिविरूपसंघटना च विषमम् । (४६) तद्विपर्ययः समम् । (४७) स्वविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम् । (४८) आश्रयाश्रयिणारनानुरूप्यमधिकम् ।

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134