Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 120
________________ शारदा-ग्रन्थ-माला। १०४ यद्वा, अत्र शब्दालंकारद्वयमेकवाचकानुप्रविष्टमिति तृतीयः संकरो ज्ञेयः । एवमेकः प्रकारो दर्शितो द्वितीयः प्रकारस्तु संदेहसंकराख्यः । यत्रान्यतरपरिग्रहे साधकं प्रमाणं नास्ति बाधकं वा प्रमाणं न विद्यते तत्र न्यायप्राप्तः संशय इति संदेहसंकरस्तत्र विशेयः। यथा'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा. स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ अत्र विभावनाविशेषोक्त्योः संदेहसंकरः। तथा ह्युत्कण्ठाकारणा. भावेऽप्युत्कण्ठाया उत्पत्तौ विभावना । स च कारणाभावो 'यः कौमार. हरः' इत्यादिना कारणविरुद्धमुखेन प्रतिपादितः । तथा च 'यः कौमारहरः इत्यादावनुत्कण्ठाकारणसद्भावेऽपि अनुत्कण्ठाया अनुत्पत्तो विशेषोक्तिः। सा चानुत्पत्तिः समुत्कण्ठते' इति विरोधोत्पत्तिमुखेनोका । अत एव द्वयोरप्यस्फुटत्वमन्यत्रोक्तम् । न चानयोः प्रत्येकं साध कबाधकप्रमाणयोग इति संदेहसंकरोऽयम् । यथा वा 'यद्वक्रचन्द्र नवयौवनेन श्मश्रच्छलादुल्लिखितश्चकास्ति। उद्दामरामागृढमानमुद्राविद्रावण मन्त्र इव स्मरस्य ॥' अत्र वक्त्रं चन्द्र इवेति किमुपमा, उत वक्त्रमेव चन्द्र इति किं रूपकमिति संशयः। उभयथापि समासस्य भावात्। 'उपमितं व्याघ्रादिभिः' इत्युपमासमासः । व्याघ्रादीनामाकृतिगणत्वात् । मयूरख्यसकादित्वात्तु रूपकसमासः। मयूरव्यंसकादीनामाकृतिगणत्वात् । न चात्र क्वचित्साधकबाधकप्रमाणसद्भाव इति संदेहसंकरः । __ यत्र तु कस्यचित्परिग्रहे साधकं बाधकं वाप्रमाणं विद्यते तत्र नियतपरिग्रहः । तत्रानुकूल्यं साधकत्वम्, प्रातिकूल्यं बाधकत्वम् । तत्र साधकत्वं यथा 'प्रसरद्विन्दुनादाय शुद्धामृतमयात्मने । नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥' अत्र शंकर एव क्षीरसिन्धुरिति रूपकस्यामृतमयत्वं साधकम् । तस्य शंकरापेक्षया क्षीरसिन्धावनुकूलत्वात् । उपमायास्तु न बाधकम्। शंकरेऽपि तस्योपचरितस्य संभवात् । यथा वा

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134