Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 122
________________ शारदा-ग्रन्थ-माला। १११ सङ्कीर्णा । शब्दालंकारयोः पुनरेकवाचकानुप्रवेशेन संकरः पूर्वमुदाहतो 'राजति तटीयम्' इत्यादिना। एकवाचकानुप्रवेशेनैव चात्र संकीर्णत्वम् । अत एव व्यवस्थितत्वमन्यानुभाषितमप्रयोजनकम् । तुल्यजातीययोरप्यलंकारयोरेकवाचकानुप्रवेशे संभवात् । शब्दार्थवृत्यलंकारस्तु भट्टोद्भटप्रकाशितः संसृष्टावन्तर्भावित इति त्रिप्रकार एव संकर इह प्रदर्शितः । इदानीमुपसंहारसूत्रम् एवमेते शब्दार्थोभयालंकाराःसंक्षेपतः सूत्रिताः। एवमिति पूर्वोक्तप्रकारपरामर्शः । एते इति प्रक्रान्तस्वरूपनिर्देशः । सूत्रिता। अलंकारसूत्रैः सूचिताः संक्षेपतः प्रकाशिताः । तत्र शब्दालंकारा यमकादयः । अर्थालंकारा उपमादयः । उभयालंकारा लाटानुप्रासादयः। संसृष्टिसंकरप्रकारौ कौचिदलंकारौ। तद् पत्वात् । लोकवदाश्रयाश्रयिभावश्च तदलंकारनिबन्धनम् । अन्वयव्यतिरेकी तु तत्कार्यत्वे प्रयोजकौ । न तदलङ्कारत्वे । तदलंकारप्र. योजकत्वे तु श्रौतापमादेरपि शब्दालंकारत्वप्रसङ्गात् । तस्मादाश्रयाश्रयिभावेनैव चिरंतनमतानुस्मृतिः ॥ संपूर्णमिदमलंकारसर्वस्वम् । Printed by Rameshwar Pathak at the Tara Printing Works, Benares.

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134