Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 118
________________ शारदा-ग्रन्थ-माला । कुसुम सौरभलाभपरिभ्रम भ्रमर संभ्रमसंभृतशोभया । वनितया विदधे कलमेखला कलकलोऽलकले लदृशान्यया ॥१ श्रत्रानुप्रासयमकयोर्विजातीययेोः संसृष्टिः । अत्रैव 'अलकलालकलोल' इति, तथा 'कलोलकलाल' इति सजातीययाः संसृष्टिः । अर्थालंकारसंसृष्टिर्यथा 'देवि ? क्षपा गलति चक्षुरमन्दतारमुन्मीलयाशु नलिनीव सभृङ्गमब्जम् । एष त्वदाननरुचेव विलुण्ठ्यमानः पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्कः ॥ श्रत्र सजातीयथारुपमेोत्प्रेक्षयोः संसृष्टिः . 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । श्रसत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥ श्रत्रोत्प्रेक्षयाः सजातीययोरुत्प्रेक्षोपमयेोर्विजातीययोश्च संसृष्टिः । उभयसंसृष्टिर्यथा 'श्रानन्दमन्थरपुरंदर मुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मे विजयाय मञ्जुमञ्जीरशिञ्जितमनोहर मम्बिकायाः ॥ श्रत्रोपमानुप्रासयेोः संसृष्टिः । पादाम्बुजमित्यत्र ह्युपमायां मीरशिञ्जितयोगो व्यवस्थापकं प्रमाणम् । स हि रूपके प्रतिकूलः । पारिशेष्यादुपमां प्रसाधयति । तदेवं संसृष्टिस्त्रिधा निर्णीता । अधुना क्षीरनीरन्यायेन संकर उच्यते क्षीरनीरन्यायेन तु संकरः । । मिश्रत्व इत्येव । तत्र - अनुत्कटभेदत्वमुत्कटभेदत्वं च संकरः । तत्रो। त्कटभेदा संसृष्टिरुक्ता । श्रनुत्कंटभेदः संकरः । तच्च मिश्रत्वमङ्गाङ्गिभावेन संशयेन एकवाचकानुप्रवेशेन च त्रिधाभवत्संकरं त्रिभेदमुत्थापयति । क्रमेण यथा 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुङ्खलीकृत सरोज लोचनं चुम्बतीव रजनीमुखं शशी ॥"

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134