Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 44
________________ 'यदेतच्चन्द्रान्तर्जलद लवलीलां प्रकुरुते तदाचष्टे लेोकः शशक इति नो मां प्रति तथा । अहं त्विन्दं मन्ये त्वदरिविरहाक्रान्ततरुणी शारदा-ग्रन्थ-माला । द्वितीया यथा कटाक्षाल्कापातव्रणकिणकलङ्काङ्किततनुम् ॥ streets शशस्यापह्नवे उपक्षिप्ते शशकप्रतिवस्तुकिण्वत - इन्दारारोपो नान्वयघटनां पुष्यतीति न निरवद्यम् । तत्तु यथा'पूर्णेन्दोः परिपोषकान्तवपुषः स्फार प्रभाभास्वरं नेदं मण्डलमभ्युदेति गगनाभोगे जिगीषेोर्जगत् । मारस्याच्छ्रितमातपत्रमधुना पाण्डु प्रदोषश्रिया मानान्नद्धजनाभिमानदलनेोद्योगे कहेवाकिनः ॥ ▪ विलसदमरनारीनेत्रनीलाब्जखण्डा न्यधिवसति सदा यः संयमाधः कृतानि । न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥ ' तृतीया यथा "उद्भ्रान्तोज्झितगेहगुर्जरवधू कम्पाकुलोच्चैः कुचप्रेङ्खोलामलहारवल्लिविगलन्मुक्ताफलच्छद्मना । सार्धं त्वद्विपुभिस्त्वदीययशसां शून्ये मरौ धावतां भ्रष्टं राजमृगाङ्क कुन्दमुकुलस्थूलैः श्रमाम्भः कणैः ॥” ३३ I अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापह्नवेोत्प्रेक्षा इत्यपि स्थापयिष्यते । 'अहं त्विन्तुं मन्ये' इति तु वाक्यभेदे मन्येशब्दप्रयोगे नोत्प्रेक्षेति च वक्ष्यते । एतस्मिन्नपि भेदेऽपह्नवारोपयेाः पौर्वापर्यप्रयोगविपर्यये भेदद्वये सदपि न पूर्ववचित्र तावहमिति न भेदत्वेन गणितम् । तत्रापह्नवपूर्वके आरोपे निरन्तरमुदाहृतम् । श्रारोपपूर्वके त्वपड़वे यथा- 'ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी - न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपा द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134