Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
अलङ्कारसर्वस्वम् ।
कत्वम् । एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात्रिविधः। तत्रोदा. तादिस्वरभेदात्प्रयत्नमेदाच शब्दान्यत्वे शब्दश्लेषः। यत्र प्रायेण पदमङ्गो भवति । अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वम् । संकलनया तूभयश्लेषः । यथा
'रक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः । निरस्तपुष्पेषु रुचि समयां पद्मा विरेजुः श्रमणा यथैव ॥'
अन रक्तच्छदत्वमित्यादावर्थश्लेषः । नालमित्यादौ शब्दश्लेषः । (उभयघटनायामुभयश्लेषः ।) ग्रन्थगौरवभयातु पृथङनोदाहृतम् ।
एष च नाप्राप्तेष्वलंकारान्तरेष्वारभ्यमाणस्तद्वाधकत्वेन तत्प्रतिभोत्पत्तिहेतुरिति केचित् । 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतः' इत्यादी विविक्तोऽस्य विषय इति निरवकाशत्वाभावान्नान्यमाधकत्वमित्यन्यैः सह संकरः । दुर्बलत्वाभावान्नान्यबाधकत्व (ध्यत्व) मित्यन्ये । तत्र पूर्वेषामयमभिप्रायः । इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोचरत्वेन तावत्प्रतिष्ठितोऽयमलंकारः। तत्राद्यं प्रकारद्वयं तुल्ययोगिताया विषयः। तृतीये तु प्रकारे दीपकं भवतीति तावद. लंकारद्वयमिदं श्लेषविषये व्याप्त्या व्यवतिष्ठते । तत्पृष्ठे चालंकारान्तराणामुत्थापनमिति नास्ति विविक्तोऽस्य विषयः। अत एवालंकारा. न्तराणां बाधितत्वात्प्रतिभानमात्रेणावस्थानम् । 'येन ध्वस्तमनोभवेन' इत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययोगितायाः प्रतिभानम् । अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तेः। 'रक्तच्छदत्वं' इत्यादावर्थद्वयाश्रितत्वादयमर्थालंकारः। 'नालं' इत्यादी तु शब्दद्वयाश्रितत्वाच्छब्दालंकारोऽयम् । यद्यप्यर्थभेदाच्छब्दभेद इति दर्शने 'रक्तच्छदत्वं' इत्यादावपि शब्दाश्रितोऽयं तथाप्यौपपत्ति. कत्वादत्र शब्दभेदस्य प्रतीतरेकतावसायान्नास्ति शब्दभेदः । 'नालं' इत्यादौ तु प्रयत्नादिभेदात्प्रातीतिक एव शब्दभेदः । 'श्रतश्च पूर्ववैकवृन्तगतफलद्वयन्यायेनार्थद्वयस्य शब्दश्लिष्टत्वम् । अपरत्र जतुकाष्ठन्यायेन स्वयमेव श्लिष्टत्वम् । पूर्वत्रान्वयन्यतिरेकोभ्यां शब्दहेतुकत्वा
१. अयं सिद्धान्तः-सभङ्गपदे जतुकाष्ठन्यायेन शब्दद्वयमिलनाच्छन्दश्लेषः । अभङ्गपदे त्वेकवृन्तगतफलद्वयन्यायेनार्थद्वयस्यैकशब्दगतत्वादर्थश्लेषः।

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134