Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला।
कार्यकारणक्रम एवात्र चारुत्वहेतुः । यथापूर्व परस्य विशेषणनया स्थापनापोहने एकावली।
यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणत्वमनुभवति स एकावल्यलंकारः । विशेषणत्वं च स्थापनेन निवर्तनेन वा। स्थापनेन यथा'पुराणि यम्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासः कुसुमायुधस्य ॥' अत्र वराङ्गनाः पुराणां विशेषणं स्थानीयत्वेन स्थितम् । एवं वराङ्गनानां रूपमित्यादि ज्ञेयम् । निवर्तनेन यथा. 'न तजलं यन्न सुचारुपङ्कजं न पङ्कजं यन्न निलीनषट् गदम् ।
न षट्पदोऽसौ न जुगुज यः कलं न गुञ्जितं तन्न जहार यन्मनः ॥' अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निवेध्यत्वेन स्थितम् । एवं पङ्कजानां निलीनषट्पद वं ज्ञेयम् ।
पूर्वस्य पूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम् । . उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावली । पूर्वस्य पूर्वस्योत्तरोत्तरोत्कर्षनिबन्धनत्वे तु मालादीपकम् । मालात्वेन चारुत्वविशेषमाश्रित्य दीपकप्रस्तावोल्लङ्घनेनेह लक्षणं कृतम् । गुणावहत्वमुत्कपहेतुत्वम् । यथा
'संग्रामाङ्गणमागतेन भवता चापे समारोपिते . देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥' अत्र कोदण्डादिभिः क्रमेण शरीरादीनामुत्कर्षोऽभिहितः। समा. सादनलक्षणक्रियानिबन्धनं च दीपकं दीपनक्रियाणामुत्तरोत्तराभिमतत्वेन कृतम् ।
उत्तरोत्तरमुत्कर्षणमुदारः।

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134