Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 95
________________ अलङ्कारसर्वस्वम् । - . तत्राप्रतातप्रत्यायने प्रत्याय्यप्रत्यायकभावः । प्रतीतसमर्थने तु समर्थ्यसमर्थकभावः। तत्र प्रत्याय्यप्रत्यायकभावेऽनुमानम् । समर्थ्यसमर्थकभावे तु यत्र पदार्थो हेतुस्तत्र हेतुत्वेनोपादाने 'नागेन्द्रहस्तास्त्वांच कर्कशत्वादकान्तरोत्यात्कदलाविषाः' इत्यादाविव न कश्चिदलंकारः। यत्र तूपात्तस्य हेतुत्वं यथोदाहने विषये 'मृग्यश्वदर्भाकुरनियंपेक्षाः' इत्यादा, तत्रैव काव्यलिङ्गम् । यत्र तु वाक्यार्थो हेतुस्तत्र हेतुप्रतिपादकमन्तरेण हेतुत्वायोपन्याले काव्यलिङ्गमेव । तटस्थत्वे. नोपन्यस्तस्य हेतुत्वेऽर्थान्तरन्यासः । एवं चास्यां प्रक्रियायां कार्यकारणयार्वाक्यार्थयार्हेतुत्वे काव्यलिङ्गमेव पर्यवस्यति। समर्थ्यवाक्यस्य सापेक्षत्वात् । ताटस्थ्याभावात् । ततश्च सामान्यविशेषभावोऽर्थान्तरन्यासस्य विषयः । यत्पुनरर्थान्तरन्यासस्य कार्यकारणगतत्वेन समर्थकत्वमुकम्, तदुक्तलक्षणकाव्यलिङ्गमनाश्रित्य, तद्विषयत्वेन लक्षणान्तरस्यौद्भटेराश्रितत्वात् । ___ उक्तलक्षणाश्रयणे तु यत्वन्नेत्रेत्यादिविविक्तो विषयः काव्यलिङ्गस्यार्थान्तरन्यासाद् दर्शित इति कार्यकारणयोः समथ्यं समर्थकत्वमर्थान्तरन्यासे पूर्व दर्शितमितीयतो गमनिकाश्रयितव्या । एवं तकन्यायमूलमलंकारद्वयमुक्त्वा वाक्यन्यायमूला अलंकारा उच्यन्ते उद्दिशनामर्थानां क्रमेणानुनि गो यथासंख्यम् । ऊचं निर्दिष्टा उद्दिष्टाः। पश्चानिर्देशोऽनूद्देशः । स चार्थादर्थान्तरगतः । संबन्धश्चात्र सामर्थ्यात्प्रतीयते । ऊर्ध्व निर्दिष्टानामर्थानां पश्चानिर्दिष्टरथैः क्रमेण सम्बन्धी यथासंख्यमिति वाक्यार्थः । अन्ये त्विममलंकारं क्रमसंज्ञयाभिदधिरे। तच्च यथासंख्यं शाब्दमार्थ च द्विधा । शाब्दं यत्रासमस्तानां पदानामसमस्तैः पदैरर्थद्वारकः संबन्धः, तत्र क्रमसंबन्धस्यातिरोहितस्य प्रत्येयत्वात् । श्रार्थ तु यत्र समासः क्रियते तत्र समुदायस्य समुदायेन सह संबन्धस्य शाब्दत्वादानुगुण्यपर्यालोचनया त्ववयवगतः क्रमसंबन्धः प्रतीयते । ततोऽत्र यथासंख्यस्यार्थत्वम् । श्राद्यस्योदाहरणम् 'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव ? त्वय्यवनोभरक्षमभुजे निष्पादिते वेधसा ।

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134