Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 110
________________ शारदा-प्रन्ध-मालो। अलिकुलकोकिलललिते नैष्यति सखि ? सुरभिसमयेऽसौ ॥ अत्रैतद्वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम् । तत्सख्या काकुप्रयोगेण विधिपरतां प्रापितम् । काकुवशाद्विधिनिषेधयोर्विपरीतार्थसंक्रान्तिः। तत्र श्लेषोऽभङ्गसभङ्गत्वेनाभयमयत्वेन त्रिविधः। तत्रामङ्गश्लेषमुखेन यथा(१) 'अहो केनेदशी बुद्धिरुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥' अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषभन्या तृतीयान्ततया संपादितम् । सभङ्गश्लेषमुखेन यथा(२) । त्वं हालाहलभृत्करोषि मनसो मूर्छा समालिङ्गितो . हालां नैव विभर्मि नैव च हलं मुग्धे कथं हालिकः । सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद्वः शिवः।" (३) उभयमुखेन यथा 'विजये ? कुशलस्यतो न क्रीडितुमहमनेन सह शक्ता। . विजये कुशलोऽस्मि न तु ब्यक्षोऽक्षद्वयमि पाणौ ॥ किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः । क इह द्वेष्टि विनायकमहिलोकं कि न जानासि ॥ (१) अत्र दारुणेति करेत्यर्थकत्वेन वक्तुरभिप्रेतं, काष्ठेनेत्यथनान्यो ऽन्यथा योजितवानित्यभङ्गश्लेषः । (२) अत्र कालकूटार्थे देव्या प्रयुक्तोऽखण्डः हालाहलशदः देवेन विभागपूर्वकं हालाहलयोर्द्वन्द्वपरत्वेन योजित इति सभङ्गश्लेषः । (३) सभङ्गाभङ्गश्लेषमुखेनेत्यर्थः । (8) विजय इतिः- .. देवीवाक्ये "विजये” इति सखी सम्बोधनं, त्र्यक्ष इति च त्रिनेत्रत्वादीश्वरवाचकः । देववाक्ये तु “ विजये " इति सप्तम्यन्तम् । व्यक्ष इति कीडाथं अक्षत्रयविशिष्टश्च । ___ मेदुरोदरेण मम दुरोदरेण लम्बोदरेण च । विनायकं विघ्नेश्वर, वीनां पक्षिणां नायकं गरुडश्च ।

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134