Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 108
________________ शारदा - प्रन्थ-माला । 'एकाकिनी यदबला तरुणी तथाहमस्मद्गृहे गृहपतिश्च गतो विदेशम् । कं याचसे तदिह वासमियं वराकी श्वभूमान्धबधिरा ननु मूढ पान्थ ॥' ( १ ) ' का विसमा देवगई किं लद्धं जं जो गुणग्गाही । किं सोक्खं सुकलतं किं दुक्खं जं खलो लोश्रो ॥" पूर्वत्र मम वासा दीयतामिति प्रश्न उत्तरादुन्नीयते । उत्तरत्र देवगत्यादि निगूढत्वादसंभाव्यमसकृत्प्रश्नपूर्वकमुत्तरं निबद्धम् । ( २ ) इतः प्रभृति गूढार्थप्रतीतिपरालंकारलक्षणम् - संतचितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् । ६७ इह सूक्ष्मः स्थूलमतिभिरसंलक्ष्या योऽर्थः स यदा कुशाग्रमतिभिरिङ्गिताकाराभ्यां संलक्ष्यते तदा तस्य संलक्षितस्य विदग्धं प्रति प्रकाशनं सूक्ष्ममलंकारः । तत्रेङ्गिताद्यथा ( ३ ) 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकूतं लीलापद्म निमीलितम् ॥' अत्र विटसम्बन्धी संकेतकालाभिप्रायेो भ्रूक्षेपादिना इङ्गितेन लक्षितः, रजनीकालभाविना लीलापद्मनिमीलनेन प्रकाशितः । श्राका राद्यथा 'वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे । पुंस्त्वं तव्या व्यञ्जयन्ति वयस्या स्मित्वा पाणौ खङ्गलेखां लिलेख ॥" (१) " का विषमा दैवगतिः किं लब्धं यजना गुणग्राही । किं सौख्यं सुकलत्रं किं दुःखं यत्खलो लोकः " (२) उत्तरालङ्कारादारभ्येत्यर्थः । (३) अत्र प्रथमे पद्ये नेत्रेङ्गितेन लक्षितः सूक्ष्मोऽभिप्रायः कामिन्या निशासूचकेन पद्मनिमीलनेन प्रकाशितः । द्वितीये च श्राकारेण लक्षितं सद्बुद्धिवेद्यतया सूक्ष्मं पुरुषायितं पाणौ खड्गलेखनेन प्रकाशितम् । १३

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134