Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 106
________________ शारदा-प्रन्थ-माला। - (१) यत्र प्रस्तुतस्य वस्तुनोऽप्रस्तुतेन साधारणगुणयोगादेकात्म्यं, अभेदेनाध्यवसायादेकरूपत्वं निबध्यते तत्समानगुणयोगात्सामान्यम् । न चेदमपहनुतिः । किंचिन्निषिध्य कस्यचिदप्रतिष्ठापनात् । यथा(२) मलयजरजसा विलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपन्नकृतवक्त्ररुचा रुचिरामलांशुकाः । शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥' अत्र मलयजरजसा विलेपनादीनां चन्द्रप्रभया सह 'अविभाव्यतां गताः' इत्यभेदप्रतीतिर्दर्शिता। स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः। . यत्र परिमितगुणस्य वस्तुनः समीपवर्तिप्रकृष्टगुणवस्तुगुणस्थ स्वीकरणं स तदुगणः । तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा । न चेदं मीलितम् । तत्र हि प्रकृतं वस्तु वस्त्वन्तरेणाच्छादितत्वेन प्रती. यते, इह त्वनपन्हुतस्वरूपमेव प्रकृतवस्त्वन्तरगुणापरक्ततया प्रतीयत इत्यस्त्यनयो दः । यथा. 'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या। रत्नैः पुनर्यत्र रुचं रुचा स्वामानिन्यिरे वंशकरीरनीलैः ।" अत्र रविरथाश्वानामरुणवर्णस्वीकारः । तस्यापि गारुत्मतमणिप्रभास्वीकार इति तद्गुणत्वम् । सति हेतौ तद्रूपाननुहारोऽतद्गुणः। तद्गुणप्रस्तावात्तद्विपर्ययरूपोऽतद्गुण उच्यते । इह न्यूनगुणस्य विशिष्टगुणपदार्थधर्मस्वीकारः प्रत्यासत्या न्याय्यः। यदा पुनरुत्कृष्ट(१) यत्र प्रस्तुतस्य प्राधान्येन वर्णनीयस्यान्येनाप्रस्तुतपदार्थेन यो गात् सम्पर्काद्यदैकात्म्यमपृथक् प्रतीयमानत्वं निबध्यते तत्र सा मान्यालङ्कारो भवतीतिभावः। (२) पत्र प्रस्तुताप्रस्तुतयोरभिसारिकाचन्द्रिकयो(वक्षिकगुणसाम्ये नैकात्मतावर्णनात्सामान्यालङ्कारः।।

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134