Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 105
________________ अलकारसर्वस्वम् । 'गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे । सन्तीदृशानि दिशि दिशि सरःसु ननु नोलमलिनानि ।' अवोत्कर्षभाज उपमानस्य प्रादुर्भाव एव न्यक्कारकारणम् । अनेन न्यायेनोत्कृष्टगुणत्वाद्यदुपमानभावमपि न सहते तस्योपमानत्वकल्पनेऽपि प्रतीपमेव । यथा- . 'अहमेव गुरुः सुदारुणानामिति हालाहल ? तात ? मा स्म गुप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥" अत्र हालाहलत्वं प्रकृष्टदोषत्वादसंभाव्योपमानभावमप्युपमानत्वेन निबद्धम्। वस्तुना वस्त्वन्तरनिगूहनं मीलितम् । . सहजेनागन्तुकेन वा लक्ष्मणा यद्वस्त्वन्तरेण वस्त्वन्तरं निगृह्यते तदन्वर्थाभिधानं मीलितम् । न चायं सामान्यालंकारः, तस्य हि साधारणगुणयोगाद्भेदानुपलक्षणं रूपम् । अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानमिति महाननयोर्विशेषः । सहजेन यथा 'अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गकैर्मृगदृशां स्वतो लीलया यदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥' अत्र द्वक्तारल्यादिना स्वाभाविकेन लक्ष्मणा मदोदयकृतं दूक्ता. रल्यादि तिरोधीयते । आगन्तुकेन यथा- 'ये कन्दरासु निवसन्ति सदा हिमाद्रे स्त्वत्पातशङ्कितधियो विवशा द्विषस्ते । अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो वत भियां न बुधोऽप्यभिक्षः॥" . अत्र हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन समुद्भावितावागन्तुको कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ । तिरोधायकत्यादेव च मीलितव्यपदेशः। प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् ।

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134