Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 112
________________ शारदा-ग्रन्थ-माला। १०१ अतीतानागतयोर्भतभाविनोरथयारलौकिकत्वेनात्यद्भुतत्वाद्वयस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वाश्च प्रत्यक्षायमाणत्वं भाविकम् । कविगतो भाव प्राशयः श्रोतरि प्रतिबिम्बत्वेनास्तीति, भावो भावना वा पुनः पुनश्चेतसि विनिवेशनं सोऽत्रास्तीति। न चेदं भ्रान्तिः, भूतभाविनोभूतभावितयैव प्रकाशनात् । नापि रामोऽभूदितिवस्तुवृत्तमात्रम् । भूतभाविगतस्य प्रत्यक्षत्वाख्यस्य धर्मस्य स्फुटस्याधिकस्य प्रतिलम्भात् । नापीदमतिशयोक्तिः । अन्यस्यान्यतयाध्यवसायाभावात् । नहि भूतभाविनावभूतभावित्वेनाध्यवसीयेते, अभूतभाविनी वा भूतभावित्वेन । नापि, प्रत्यक्षमप्रत्यक्षत्वेन, अप्रत्यक्ष वा प्रत्यतत्वेन। न हि प्रत्यक्षत्वं केवलं वस्तुधर्मः । प्रतिपत्त्रपेक्षयैव वस्तुनि तथाभावात्। यदाहुः-'तत्र यो ज्ञानप्रतिभासमात्मनोऽन्वयव्यतिरेकावनुकारयति स प्रत्यक्षः' इति । केवलं वस्तुप्रत्यक्षत्वे प्रतिपत्तुः सामग्री उपयुज्यते। सा च लोकयात्रायां चक्षुरादीन्द्रियस्वभावा योगिनामती. न्द्रियार्थदर्शने भावनारूपा। काव्यार्थविदां च भावनाखभावैव । सा च भावना वस्तुगत्यात्यद्भुतत्वप्रयुक्ता । अत्यद्भुतानां च वस्तूनामा. दरप्रत्ययेन हृदि संधार्यमाणत्वात् । नापि भूतभाविनामप्रत्यक्षाणां प्रत्यक्षतयैव प्रतीरिवार्थगर्भीकारेणेयं प्रतीयमानोत्प्रेक्षा । तस्या अभिमानरूपाध्यवसायखभावत्वात् । न ह्यप्रत्यक्षं प्रत्यक्षत्वेनाध्य. वसीयते। किं तर्हि काव्यार्थविद्भिः प्रत्यक्षत्वेन दृश्यते इति । नापि वस्तुगत इवार्थ उत्प्रेक्षाप्रयोजकः। तस्या अभिमानरूपायाः प्रतिपत्तधर्मत्वात् । यदाहुः–'अभिमाने च सा योज्याज्ञानधर्मेसुखादिवत्! इति । काव्यविषये च प्रयोक्तापि प्रतिपत्तैव । नाप्यद्भुतपदार्थदर्शनादतीतानागतत्वप्रत्यक्षत्वप्रतीतेः काव्यलिङ्गमिदम् । लिङ्गलिङ्गिभावेन प्रतीत्यभावात् । योगिवत्प्रत्यक्षतया प्रतीतेः। नाप्ययं परिस्फुरदूपतया सचमत्कारप्रतिपत्ते रसवदलंकारः । रित्यादिचित्तवृत्तीनांतदनुषक्ततया विभावादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानवत्प्रतीतौ तस्य भावात् । इह तु ताटस्थ्येन भूतभाविनां स्फुटत्वेन भिन्नसर्वशवत्प्रतीतेः। स्फुटप्रतीत्युत्तरकालं तु साधारण्यप्रतीतो स्फुटप्रतिपत्तेनिमित्तक औत्तरकालिको रसबद

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134