Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
अलङ्कारसर्वस्वम् ।
लंकारः स्यात् । नापीयं सुन्दरवस्तुस्वभाववर्णनात्स्वभावोक्तिः। तस्यां लौकिकवस्तुगतसूक्ष्मधर्मवर्णने साधारण्येन हृदयसंवादसंभवात् ।
इह च लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतेः । क्वचित्तु लौकिकानामपि वस्तूनां स्फुटत्वेन प्रतीतो भाविकस्वभावोक्त्योः समावेशः स्यात् । न च हृदयसंवादमात्रेण स्वभावोक्तिरसवदलंकार योरभेदः ।वस्तुस्वभावसंवादरूपत्वात्स्वभावोक्तः। चित्तवृत्तिसमाधिरूपत्वाच रसवदलंकारस्य, उभयसंवादसंभवेतु समावेशोऽपि घटते । यत्र वस्तुगतसूक्ष्मधर्मवर्णनं स्यात्तत्र स्वभावाक्तिः, अन्यत्र तु रसवद. लंकार एव ।
नाप्ययं शब्दानाकुलत्वहेतुको झटित्यर्थसमर्पणारूपः प्रसादाख्यो गुणः। तस्य हि स्फुटास्फुटोभयरूपवाक्यार्थगतत्वेन झटिति समर्पणं रूपम् । अस्य तु झटिति समर्पितस्य सतः स्फुटत्वेन प्रतीतो स्वरूपप्रतिलम्भः । तस्मादयं सर्वोत्तीर्ण एवालंकारः । लक्ष्ये चायं प्रचुरप्रयोगो
दृश्यते।
. 'मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः ।
येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥' . - यथा वा-हर्षचरितप्रारम्भे ब्रह्मसदसि वेदखरूपवर्णने । तत्र हि प्रत्यक्षमिव स्फुटत्वेन तदीयं रूपं दृश्यते । एवं तत्रैव मुनिक्रोधवर्णने, पुलिन्दवर्णनादौ च शेयम् । अयं तु तत्र विचारलेशः संभवति-इह क्वचिद्वर्णनीयस्य वर्णनावशादेव प्रत्यक्षायमाणत्वम् । क्वचित्प्रत्यक्षायमाणस्यैव वर्णनम् । आद्यं यथोदाहृतं प्राक् । - द्वितीयं यथा..'अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपरिव सर्वतो वृतः । - अचामरोऽप्येष सदैव वीज्यते विलासवालव्यजनेन कोऽप्ययम् ॥'
इति । अत्र प्रथमप्रकारविषयोऽयमलंकारो न प्रकारान्तरगोचरः। . कविसमर्पितानां धर्माणां ह्यलंकारत्वात् । न हिमांशुलावण्यादीनामिव वस्तुसन्निवेशिनाम् । अपि च 'शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते' इति भामहीये, 'वाचामनाकुलत्वेनापि भाविकम्' इति चोटलक्षणे व्यस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वं प्रत्यक्षायमाणत्वप्रतिपादकं कथं प्रयोजकीभवेत् यदि वस्तुसन्निवेशधर्मिगतत्वेनापि भाविक स्यात् । तस्माद्वास्तवमेव महत्त्वमुत्तरत्र प्रकारविषये वर्णितमिति,

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134