Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला। नायमत्रालंकारः। यदि तु वास्तवमेवात्र सौन्दर्य कविनिबद्धं कविनिबद्धवक्तृनिबद्धं वा सकलवक्त्रगोचरीभूतं स्वभावोक्तिवदलंकारतया वण्येत तदायमपि प्रकारो नातीव दुःश्लिष्टः। अत एव 'प्रत्यक्षा इव यत्रार्थाः क्रियन्ते भूतभाविनः। तद्भाविकम्' इति, एवमन्यैर्भाविकलक्षणमकारि । स्वभावोक्त्या किंचित्सादृश्यात्तदनन्तरमस्य लक्षणं कृतम्।
समृद्धिमवस्तुवर्णनमुदात्तम् । ___ स्वभावोक्तौ भाविके च यथावद्वस्तुवर्णनम् । तद्विपक्षत्वेनारोपितवस्तुवर्णनात्मन उदात्तस्यावसरः। तत्रासंभाव्यमानविभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तम् । यथा-- (१) 'मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिः कृताः
प्रातः प्राङ्गणसीन्नि मन्थरचलद्वालाङ्ग्रिलाक्षारुणाः।। दूरादाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका
यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥' अङ्गभूतमहापुरुषचरितवर्णनं च । उदात्तशब्दसाम्यादिहाभिधानम् । महापुरुषाणामुदात्तचरितानामङ्गीभूतवस्त्वन्तराङ्गभावेनोपनिबध्यमानं चरितं चोदात्तम् । महापुरुषचरितस्योदाररूपत्वात् । यथा(२) 'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी।
निवसन्बाहुसहायश्चकार रक्षःक्षयं रामः॥" अत्रारण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम् ।
रसभावतदाभासतत्पशमानांनिबन्धनेन रसवत्प्रे. यऊर्जस्विसमाहितानि ।
उदात्ते महापुरुषचरितस्य चित्तवृत्तिरूपत्वाञ्चित्तवृत्तिविशेषस्व. भावत्वाच्च रसादीनामिह तद्वदलंकाराणां प्रस्तावः । अत एव चत्वारोऽ
(१) अत्रोत्करसमृद्धिवर्णनादुदात्तालङ्कारः। (२) यस्मिन्नरण्ये निवसन्रामो बाहुमात्रसहायो रक्षसां यं चकार
तदिदमरण्यमिति महतः श्रीरामस्यारण्योत्कर्षकतया तदङ्गभावादपर उदात्तभेदः।

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134