Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 93
________________ अलङ्कारसर्वस्वम् । - - पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षनिबन्धनत्वमुदाराख्योऽलंकारः । यथा'जये धरियाः पुरमेव सारं पुरे गृहं सद्मनि चैकदेशः। तत्रापि शय्या शयने वरस्त्री रत्नोज्ज्वला राज्यसुखस्य सारम् ॥' अत्र धरित्र्यपेक्षया पुरस्य सारत्वमेवं पुरापेक्षया तदेकदेशस्य गृहस्येत्यादि योजनीयम् । यथा 'राज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम्। सोधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥' - अत्र राज्यापेक्षया वसुन्धरायाः सारत्वमेवं वसुधापेक्षया तदेकदेशस्य पुरस्येत्यादि योजनीयम् । एवं शृङ्खलाविच्छित्त्यालंकाराः प्रतिपादिताः। अधुना तकन्यायायेणालंकारद्वयमुच्यते । तत्र हेतोर्वाक्यपदार्थता काव्यलिङ्गम् ।। यत्र हेतुः कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थगत्या लिङ्गत्वेन निबद्ध्यते, तत्काव्यलिङ्गम् । तर्कवैलक्षण्याथं काव्यग्रहणम् । न ह्यत्र व्याप्तिपक्षधर्मतेोपसंहारादयः क्रियन्ते । वाक्यार्थगत्या च निबध्यमानो हेतुत्वेनैवोपनिबन्धव्यः। अन्यथार्थान्तरन्यासान्नास्य भेदः स्यात् । क्रमेण यथा 'यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता स्त्वत्सादृश्यविनोदमात्रमपि मे देवेन न क्षम्यते ॥ 'मृग्यश्च दर्भाङ्करनियंपेक्षास्तवागतिशं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पत्मराजीनि विलोचनानि ।' पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपः । चतुर्थपादार्थो हेतुत्वेनोपन्यस्तः। उत्तरत्र संबोधने 'व्यापारयन्त्यः' इति मृगीविशेषणत्वेनानेक. पदार्थों हेतुत्वेनोक्तः। एवमेकवाक्यार्थगतत्वेन काव्यलिङ्गमुदाहियते । यथा--...

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134