Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 94
________________ शारदा-प्रन्थ-माला। 'मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः । ..पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतन्त्रिणः ॥' 'यद्विस्मयस्तिमितमस्तमितान्यभाव मानन्दमन्दममृतप्लवनादिवाभूत् । तत्संनिधौ तदधुना हृदयं मदीय मङ्गारचुम्बितमिव व्यथमानमास्ते ॥' पूर्वत्र वरप्राप्तिहेतुभूततपोनिषेधस्य 'मनीषिता' इति वाक्यार्थरूपो हेतुर्निदिष्टः। उत्तरत्र पुनः 'अस्तमितान्यभावम्' इत्यत्र विस्मयस्तिमितमिति विशेषणद्वारेण पदार्थः । साध्यसाधननिर्देशोऽनुमानम् । यत्र शब्दवृत्तेन पक्षधर्मान्वयव्यतिरेकवत्साधनं साध्यप्रतीतये निर्दिश्यते सोऽनुमानालंकारः । विच्छित्तिविशेषश्चात्रार्थाश्रयणीयः। अन्यथा तर्कानुमानार्तिक वैलक्षण्यम् । उदाहरणम्'यथा रन्ध्र व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालो ज्वलनपरिपिङ्गाश्च ककुभ. स्तथा मन्ये लग्नः पथिकतरुषएडे स्मरदवः॥ अत्र धूमस्फुलिङ्गकपिलदिक्त्वानि वह्निलिङ्गानि त्रिरूपत्वाइव. शब्दप्रतिपादितं वह्नि गमयन्तीत्यनुमानम् । रूपकमूलत्वेनालंकारान्तरगर्भीकारेण विच्छित्त्याश्रयणात्तर्वानुमानवैलक्षण्यम् । .. क्वचित्तु शुद्धमपि भवति । यथा ... 'यत्रता लहरी चलाचलदृशो व्यापारयन्ति भ्रुवं ... यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः। तञ्चक्रीकृतचापसञ्चितशरप्रेत्करः क्रोधनो ... धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ।।" अत्र योषितां भ्रव्यापारेण मार्गणपतनं स्मरपुरोगामित्वे साध्येऽनलंकृतमेव साधनमिति शुद्धमनुमानम् । प्रौढाक्तिमात्रनिष्पनार्थनिष्ठत्वेन च विच्छित्तिविशेषाश्रयणाच्चारुत्वम् । अयमत्र पिएडार्थः । इहास्ति प्रत्याय्यप्रत्यायकभावः । अस्ति च समर्थ्यसमर्थकभावः।

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134