Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 97
________________ अलङ्कारसर्वस्वम् । 'निशासु भावत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणाम् । नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥' 'यत्रैव मुग्धेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभूत् । तत्रैव देवाद्वदने मदीये पत्नीति भार्येति गिरश्चरन्ति ।' अत्र कालकूटमेकमनेकस्मिन्नसंहते श्राश्रये क्रमेण स्थितिमनिबद्धम् । करश्चैकोऽनेकस्मिन्संहते क्रमवान् । अधरकन्दुकयोर्निवृत्त्युपादानतया संहतत्वेन स्थितत्वात् । अभिसारिकाः शिवाश्चानेकखभावा असंहतरूपा एकस्मिन्नाश्रये राजपथे क्रमवर्तिन्यः । वचने चैकस्मिन्नाश्रये मुग्धत्वादिवर्गः पत्नीत्यादिवर्गश्च वर्गत्वादेव संहतरूपो. ऽनेकः क्रमवानुपनिबद्धः। समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः। विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम् । समेन तुल्यगुणेन त्यज्यमानेन तादृशस्यैवादानम् । तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य गुणहीनस्य परिग्रहणम् । एवं न्यूनेन हीनगुणेन त्याज्यमानेनाधिकगुणस्योत्कृष्टस्य स्वीकारः। तदेषा त्रिप्रकारा परिवृत्तिः । क्रमप्रतिभाससंभवात्पर्यायानन्तरमस्या लक्षणम् । समपरिवृत्तिर्यथा 'उरो दत्त्वामरारीणां येन युद्धेष्वगृह्यत। हिरण्याक्षवधायेषु यशः साकं जयश्रिया ॥' अनोरोयशसोस्तुल्यगुणत्वम् । अधिकपरिवृत्तिर्यथा'किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥' अत्रोत्कृष्टगुणैराभरणैन्यूनगुणस्य वल्कलस्य परिवृत्तिः । न्यूनपरिवृत्तिर्यथा'अस्य हि प्रवयसो जटायुषः स्वर्गिणः किमिष शोच्यते बुधैः । येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणज्ज्वलं यशः ॥' अत्र हीनगुणेन कलेवरेणोत्कृष्टगुणस्य यशसो विनिमयः । : 'दत्वा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः। कि त्वपहरसि मनो यद्ददासि रणरणकमेतदसत्"

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134