Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
• '
शारदा-ग्रन्थ-माला।
अवस्थेयं स्थाणारपि भवति सर्वामरगुरो
विधौ वक्र मूनि प्रभवति वयं के पुनरमी ।'' अत्र विधौ वक्र इति श्लिष्टम् । अप्राकरणिकस्थाणुवृत्तान्तात्माकरणिकार्थापतनम् ।
तुल्यबल विरोधो विकल्पः । विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात्तुल्यवलयोरेकत्र युगपत्प्राप्तौ विरुद्धत्वादेव योगपद्यासंभवे विकल्पः । औपम्यगर्भत्वाश्चात्र चारुत्वम्। यथा-'नमयन्तु शिरांसि धनूंषि वा कर्णपूरी क्रियन्तामाक्षा मौव्यों वा' इत्यादि । अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणविशिष्टत्वम् । संधिविग्रही चात्र क्रमेण तुल्ये प्रमाणे। प्रतिराजविषयत्वेन स्पर्धया द्वयोरपि संभाव्यमानत्वात् । द्वौ चेमौ विरुद्धाविति नास्ति तयायुगपत्प्रवृत्तिः । प्राप्नुवतश्चात्र युगपत्प्रवृत्ति प्रकारान्तरस्यात्रानाशयत्वात् । ततश्च न्यायप्राप्तो विकल्पः । ___ नमनकृतं च तयाः सादृश्यमित्यलंकारता । एवं कर्णपूरीकियन्तामित्यादौ योजनीयम् । औपम्यगर्भत्वाच्च क्वचिच्छ्लेषावलम्बनाप्ययं दृश्यते । यथा
'भक्तिप्रहविलोकनप्रणयिनी मीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये । - लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशस्तन्वती
- युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥" अत्र नेत्रे तनुर्वेति विकल्पः। उत्तमत्वाञ्च तुल्यप्रमाणं विशिष्टत्वम् । न चात्र समुच्चये वाशब्दः। संभवन्त्यामपि गतौ महाकविव्यवहारे तथा प्रयोगाभावात् । ननु विरोधनिमित्तो विकल्पः । कथं चात्र विरोधः । नैतत् । तनुमध्ये नेत्रयोः प्रविष्टत्वात्तयोः पृथगभिधानमेव न कार्यम् । कृतं च सत्स्पर्धिभावं गमयति । स्पर्धिभावाश्च विरुद्धत्वम् । नेत्रे अथवा समस्तमेव शरीरमित्यर्थावगमे विरोधस्य सुप्रत्ययत्वात् । स चात्र श्लेषाश्लिष्टः । लिङ्गश्लेषस्य वचनश्लेषस्य चात्र दृष्टेः । तस्मात्समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलंकारः । पूर्वैरकृतविवेकाऽत्र दर्शित इत्यवगन्तव्यम् ।

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134