Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
अलङ्कारसर्वस्वम् ।
'दृशा दग्धं मनसिजं जीवयन्ति दशैव याः। __. विरूपाक्षस्य जयिनीस्ताः स्तुवे चारुलोचनाः ॥' ' अत्र दृष्टिलक्षणेनोपायेन स्मरस्य हरेण दाहविषयत्वं निष्पादितम् । मृगनयनाभिः पुनस्तेनैवोपायेन तस्य जीवनीविषयत्वं क्रियते । तश्च दाहविषयत्वस्य प्रतिपक्षभूतम् । तेन व्याघाताख्योऽयमलंकारः । सोऽपि व्यतिरेकनिमित्तत्वेनात्रोक्तः । विरूपाक्षस्य चारुलोचना इति व्यतिरेकगर्भावेव वाचकौ । जयिनीरिति व्यतिरेकोक्तिः। पूर्ववदिह प्रकरणलक्षणम् ।
प्रकारान्तरेणाप्ययं भवतीत्याहसौकण कार्यविरुहक्रिया च व्याघात इत्येव ।
किंचित्कार्य निष्पादयितुं संभाव्यमानः कारणविशेषस्तत्कार्यविरुद्धनिष्पादकत्वेन यत्समर्थ्यते सोऽपि संभाव्यमानकायव्याहति. निबन्धनत्वाव्याघातः । कार्यविरुद्धनिष्पत्तिश्च कार्यापेक्षया सुकरा । तस्य कारणस्यात्यन्तं तदानुगुण्यात् । नत्वत्र कार्याभिमतस्य कार्यत्वाभावः । तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात् । अत एव द्वितीयाद्विषमाझेदः। तत्र हि कार्यस्यानुत्पत्तिरनर्थस्य चोद्गमनम् । इह तु कार्यमकार्यमेव न भवति । तद्विरुद्धस्यानर्थस्य व्यतिरेकिणोऽप्यत्र सुष्टकार्यत्वात् । यथा हर्षचरिते राज्यवर्धनं प्रति श्रीहर्षोक्तिषु
'यदि बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणोय इति भवद्भुजपअरमेव रक्षास्थानम्' इत्यादि ।
अत्र राज्यवर्धनस्य श्रीहर्षप्रस्थापने कार्ये बाल्यरक्षणीयत्वादि कारणत्वेन यत्संभावितं तत्प्रत्युताप्रस्थापनकारणत्वेन सुकरतया श्रीहर्षेण राज्यवर्धनस्य समर्थितमिति व्याघाताख्योऽलंकारः ।
एवं विरोधमूलानलंकारान्निीय शृङ्खलाबन्धोपचिता अलंकारा लक्ष्यन्ते । तत्रपूर्वस्य पूर्वस्पोत्तरोत्तरहेतुत्वे कारणमाला।
यदा पूर्व पूर्व क्रमेणेत्तरमुत्तरं प्रति हेतुत्वं भजते तदा कारणमालाख्योऽयमलंकारः । यथा
'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकों विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥ ..

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134