Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 89
________________ अलङ्कारसर्वस्वम् । # 'घेत्तुं मुञ्चर अहरो अण्णत्तो वलइ पेक्खिउं दिट्ठी । घडिदु विहडन्ति भुना रान सुरअम्मि वीसामो ॥" अत्र मोचनवलनविघटनविश्रमाणां यथाक्रमं ग्रहणप्रेक्षणघटनरमः . णानि विपरीतफलानि प्रयत्नविषयत्वेन निबद्धानि । यथा वा 'उन्नत्यै नमति प्रभुप्रभुगृहान्द्रष्टुं बहिस्तिष्ठति स्वद्रव्यव्ययमातनोति जडधीरागामिपित्ताशया। प्राणान्प्राणितुमेव मुञ्चति रणे क्लिश्नाति भोगेच्छया सर्वं तद्विपरीतमेव कुरुते तृष्णान्धदक्सेवकः ॥' . अत्र विपरीतफलनिष्पादनप्रयत्नः सुज्ञानः । आश्रयायिणोरमानुरूप्पमधिकम् । विरोधप्रस्तावादिह निर्देशः। अनानुरूष्यस्य विरोधोत्थापकत्वात् । तच्चानानुरूप्यमाश्रयस्य वैपुल्येऽप्याश्रितस्य परिमितत्वाद्वा भवति यद्वाश्रितस्य वैपुल्येऽप्याश्रयस्य परिमितत्वाद्वा स्यात् । क्रमेण यथा'द्यौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र क्वचि क्वाप्यत्रैव धरा धराधरजलाधारावलिवर्तते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधै दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥' 'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत ष्टकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । द्राक्पर्याप्तकपालसंपुटमितब्रह्माण्डमाण्डोदर भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥' पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां घुप्रभृतीनां पारिमित्यं चारुत्वहेतुः। उत्तरत्र तु टांकारध्वनेराश्रितस्य महत्त्वेऽपि ब्रह्माण्डस्याश्रयस्य स्तोकत्वम् । ... परस्परं क्रियाजननेऽन्योन्यम् । . * ग्रहीतुं मुच्यतेऽधरोन्यतो वलति प्रेक्षितुं दृष्टिः । घटितुं विघदेते भुजौ इत्यद्याः सुरतेषु विश्रमः ॥ .

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134