Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 87
________________ • श्रलङ्कारसर्वस्वम् । अत्र पथ्यपराङ्कखत्वमुपालम्भज्वरविषयत्वस्य भिन्नदेशो हेतुरि त्यसंगतिः । एवम् — १७६ 'सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयेोधरभरं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यसमाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥' इत्यत्र ज्ञेयम् । अत्र बाल्यनिमित्तमप्रगल्भवचनत्वमन्यद्न्यश्च स्मरनिमित्तकमित्यनयेोरभेदाध्यवसायः । एवमन्यत्र ज्ञेयम् । विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम् । . विरोधप्रस्तावेनेह लक्षणम् । तत्र कारणगुणप्रक्रमेण कार्यमुत्पद्यत इति प्रसिद्धौ यद्विरूपं कार्यमुत्पद्यमानं दृश्यते तदेकं विषमम् । तथा कंचिदर्थं साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भः, यावदनर्थप्राप्तिरपीति द्वितीयं विषमम् । अत्यन्ताननुरूप संघटनयोर्विरूपयोध संघटनं तत्तृतीयं विषमम् । श्रननुरूपसंसर्गे हि विषमम् । क्रमेण पथा 'सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ॥ 'तीर्थान्तरेषु मलपङ्कवतीर्विहाय दिव्यास्तनुस्तनुभृतः सहसा लभन्ते । वाराणसि त्वयि तु मुक्तकलेवराणां लाभोऽस्तु मूलमपि यात्यपुनर्भवाय ॥' 'अरण्यानी क्वेयं धृतकनकसूत्रः क्व स मृगः क्व मुक्ताहारोऽयं क्व च स पतगः क्वेयमबला । क्व तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं स्वमाकूतं धाता निभृतनिभृतं कन्दलयति ॥ श्रत्र कृष्णवर्णाच्छुक्लवर्णोत्पत्तिः कलेवरात्यन्तापहारलक्षणानर्थान्तरोत्पत्तिरिति अत्यन्ताननुरूपाणां चारण्यादीनां परस्परं संघटनं क्रमेण मन्तव्यम् । केवलमनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायिनीति शुद्धोदाहरणमभ्यूह्यम् । यथा

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134