Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 85
________________ - अलङ्कारसर्वस्वम् । प्रयुज्यमाना विशेषाक्तिः । सा च द्विविधा-उक्तनिमित्तानुक्तनिमित्ता च। अचिन्त्यनिमित्ता त्वनुक्तनिमित्तैव । अनुक्तस्य च चिन्त्याचि. न्स्यत्वेन वैविध्यात् । क्रमेण यथा_ 'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने ॥' 'आहूतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि । गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति ॥' 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तर्नु यस्य शंभुना न हृतं बलम् ॥ अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कार्यस्यानु. त्पत्तिः शक्तिमत्त्वस्वरूपेणविरुद्धेन धर्मेणेपनिबद्धा । अवार्यवीयंत्वं चात्रोक्तनिमित्तम् । तथाह्वानादयः संकोचशिथिलीकारहेतव इति तेषु सत्स्वपि तस्यानुत्पत्तौ प्रियतमास्वप्नसमागमाद्यनुक्तं सश्चिन्त्य. निमित्तम् । तथा तनुहरणकारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनुक्तमप्यचिन्त्यमेव । प्रतीत्यगोचरत्वात् । कार्यानुत्पत्तिश्चात्र क्वचित्कार्यविरोधोत्पत्त्या निबध्यते । एवं विभावनायामपि कारणाभावः कारणविरुद्धमुखेन क्वचित्प्रतिपाद्यते तथा च सति, 'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा__ स्ते चान्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि चौर्यसुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥" इत्यत्र विभावनाविशोषोक्त्योः संदेहसंकरः । तथाहि उत्कण्ठाकारणं विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना। तथा यः कौमारहर इत्यादेः कारणस्य कार्य विरुद्धं चेतः समुत्कण्ठत इत्युत्कएठाख्यं निबद्धमिति विशेषोक्तिः। विरुद्धमुखेनोपनिबन्धात्केवलमस्पटत्वम् । साधकबाधकप्रमाणाभावाचात्र संदेहसंकरः । या तु "एकगुणहानिकल्पनायां साम्यदाढयं विशेषोक्तिः” इति विशेषोक्तिलक्षिता सास्मदर्शने रूपकभेद एवेति पृथङ् न वाच्या। अतिशयोक्तौ लक्षितायामपि कश्चित्प्रभेदः कार्यकारणभावप्रस्ताबेनेहोच्यते

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134