Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
अलङ्कारसर्वस्वम् ।
'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥' 'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनखिनः ।
अनाक्रम्य जगत्सवं नो संध्यां भजते रविः ॥' अत्रोपगृढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदो यकव्यवहारप्रतीतो समासोक्त्यालिङ्गित एवार्थो विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते । सामान्यस्य चात्र श्लेषवशादुत्थानम् । शान्ततडित्कटाक्षेत्यौपम्यगर्भ विशेषणं समासान्तराश्रयेणात्र समानम् । असमाप्तेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्योपनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते।
प्राकृष्टिवेगविगलद्भुजगेन्द्रभोगनिर्मोकपट्टपरिवेषतयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य
मन्दाकिनी चिरमवेष्टत पादमूले ॥' अत्र निर्माकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तश्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसी. यते। तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्तिं गर्भीकरोति । एवं चोत्प्रेक्षासमासोक्त्यारेकः कालः। एवं 'नखक्षतानीव वनस्थलीनाम्' इत्यत्रापि वनस्थलीनां नायिकाव्यव. हार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव । एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा खयमुत्प्रेक्ष्या ।
विशेषणसाभिप्रायत्वं परिकरः। विशेषणवैचित्र्यप्रस्तावादस्यह निर्देशः । विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः। अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः । एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थक नाम।

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134