Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 73
________________ अलङ्कारसर्वस्वम् । 'पश्यामः किमियं प्रपद्यत इति स्थैर्यं मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तथा ॥" धाराधिरूढा मानः कथं निवृत्त इति कार्ये प्रस्तुते निवृत्तिकारणमभिहितम् । कार्यात्कारणप्रतीता यथा ६१ 'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मा गीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा । कार्कश्यं कलयापि को किलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥' ser संभाव्यमानैरिन्द्वादिगतैरञ्जन लिप्तत्वादिभिः कार्यरूपैरप्रस्तु तैलेकातरो वदनादिगतः सौन्दर्यातिशयः कारणरूपः प्रस्तुतः प्रतीयते । तेनेयमप्रस्तुतप्रशंसा । 'ननु कार्यात्कारणे गम्यमानेऽप्रस्तुतप्रशं सांषामिष्यमाणायाम् 'येन लम्बालकः सास्त्रः कराघातारुणस्तनः । कारि भग्नवलये। गजासुरवधूजनः ॥” इति । तथा 'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । श्रालिङ्गनेाद्दामविलासशून्यं रतोत्सवं चुम्बनमात्रशेषम् ॥' इत्यादी सुप्रसिद्ध पर्यायोक्तविषयेऽप्रस्तुतप्रशंसाप्रसङ्गः । श्रत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो गजासुरवधः प्रतीयते । तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपी गम्यते । एवमन्यत्रापि पर्यायोक्तविषये ज्ञेयम् । तस्मादप्रस्तुतप्रशंसाविषयत्वात्पर्यायोक्तस्य निर्विषयत्वप्रसङ्गः । नैष दोषः । इह यत्र कार्यात्कारणं प्रतीयते तत्र कार्य प्रस्तुतमप्रस्तुतं चेति द्वयो मतिः । यत्र प्रस्तुतत्वं कार्यस्य कारणवत्तस्यापि वर्णनीयत्वात्तत्र (१) कार्यात् कारणस्य प्रतीती यद्यप्रस्तुतप्रशंसा स्यात्तदा वक्ष्यमाणस्य पर्यायोक्तालङ्कारस्य को विषय इत्याशङ्क्याह नन्दिस्यादि ।

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134