Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला।
- अनिष्टविध्याभ्यासश्च
यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्नः, एवमनिष्टस्यानिष्टत्वादेव विधानं नोपपद्यते । तत् क्रियमाणं प्रस्खलद्रपत्वाद् विध्याभासे पर्यवस्यति । ततश्च विधेरुपकरणीभूतो निषेध इति विधिनायं निषेधोऽ निष्टविशेष पर्यवसायी निषेधागरणात्माक्षेपः । यथाः--
“गच्छ गच्छसि चेत् कान्त ? पन्थानः सन्तु ते शिवाः । ..ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥
अत्र कयाचित् कान्तप्रस्थानमनिष्टमप्यनिराकरणमुखेन विधीयते । न चास्य विधिर्युक्तः । अनिष्टत्वात् । सेोऽयं प्रस्खलदूपत्वेन निषेधमागूरयति । फलं चात्रानिष्टस्य कान्तप्रस्थानस्यासंर्विज्ञातपदनिबन्धनमत्यन्तपरिहार्यत्वप्रतिपादनम् । एतच्च ममापि तत्रैवेत्याशीःप्रतिपादनेनानिष्टपर्यवसायिना व्यजितम् । यथा वा
'नो किंचित्कथनीयमस्ति सुभग ? प्रौढाः परं त्वादृशाः
___ पन्थानः कुशला भवन्तु भवतः को मादशामाग्रहः । किं त्वेतत्कथयामि संततरतक्लान्तिच्छिदस्तास्त्वया
स्मर्तव्याः शिशिराः सहंसगतयो गोदावरीवीचयः ॥' अत्रानभिप्रेतमपि कान्तप्रस्थानं यदा प्रमुख एवाभ्युपगम्यमानं प्रतीयते, तदायमनिष्टविधिराभासमानमाक्षेपाङ्गम् । स्मर्तव्या इत्यनेन च गमननिवृत्तिरेवोपोदलिता । तस्मादयमपि प्रकार आक्षेपस्य समानन्यायतयाभिनवत्वेनोक्तः।
आक्षेपे इष्टनिषेधेऽनिष्टविधी चानुपपद्यमानत्वाद्विरुद्धत्वमनुप्रवि ष्टम् । एतत्प्रस्तावेन विरोधगर्भोऽलंकारवर्गः प्रक्रियते। तत्रापि विरोधालंकारस्तावलक्ष्यते_ विरुद्धाभासत्वं विरोधः।
इह जात्यादीनां चतुर्णा पदार्थानां प्रत्येकं तन्मध्य एव सजातीयविजातीयाभ्यां विरोधिभ्यां संबन्धे विरोधः । स च समाधानं विना प्ररूढो दोषः। सति तु समाधाने प्रमुख एवाभासमामत्वाद्विरोधाभासः। तत्र जातिविरोधस्य जात्यादिभिः सह चत्वारो भेदाः । गुणस्य गुणादिभिः सह त्रयः । क्रियायाः क्रियाद्रव्याभ्यां सह द्वौ भेदौ ।

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134