Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 72
________________ शारदा-ग्रन्थ-माला । - इति संक्षेपः। श्राद्या खप्रस्ताव एवोदाहृता, द्वितीया तु संप्रति दर्शिता । तेनालंकारान्तरविविको नास्य विषयोऽस्तीति सर्वालङ्कारापवादोऽयमिति स्थितम् । प्रस्तुतादप्रस्तुतप्रतीतो समासोक्तिरुक्ता अधुना तद्वैपरीत्येनाप्रस्तुतात्प्रस्तुतप्रतीतावप्रस्तुतप्रशंसोच्यतेअप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारू प्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा। इह प्रस्तुतस्य वर्णनमेवायुक्तं, अप्रस्तुतत्वात् । प्रस्तुतपरत्वे तु कदाचित्तद्युक्तं स्यात् । न चाप्रस्तुतादसंबन्धे प्रस्तुतप्रतीतिः, अतिप्र. सङ्गात्। संबन्धे तु भवन्ती न त्रिविधं संबन्धमतिवर्तते। तस्यैवार्थान्तरप्रतीतिहेतुत्वोपपत्तेः । त्रिविधश्च संबन्धः-सामान्यविशेषभावः, कार्यकारणभावः, सारूप्यं चेति । सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामान्यस्य प्रतीतो द्वैविध्यम् । कार्यकारणभावेऽ. प्यनयैव भङ्गया द्विधात्वम् । सारूप्ये त्वेको भेद इत्यस्याः पञ्च प्रकाराः। तत्रापि सारूप्यहेतुके भेदे साधयंवैधाभ्यां द्वैविध्यम् । वाच्यस्य संभवासंभवोभयरूपताभिस्त्रयः प्रकाराः। श्लिष्टशब्दप्रयोगे त्वर्थान्तरस्यावाच्यत्वाच्छलेषाद्विशेषः । श्लेषे ह्यनेकस्यार्थस्य वाच्यत्वमित्युक्तं तत्र सामान्याद्विशेषस्य प्रतीतो यथा * "तएणत्थि किम्पि पदणे पकप्पिअं जंण णिश्रइघरणीए । प्रणवरअगमणसीलस्स कालपहिस्स पाहिजम् ॥" अत्र प्रहस्तवधे विशेष प्रस्तुते सामान्यमभिहितम् । विशेषात्सा. मान्यप्रतीतो यथा- एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं धारिणी ... यन्मुक्तामणिरित्यमस्त स जडः शृण्वन्यदस्मादपि । .., अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः ... कुत्रोडीय गतो ममेत्यनुदिनं निद्राति नान्तः शुचा । .: अत्र जडानामस्थान एवोद्यम इति सामान्य प्रस्तुते विशेषोऽभिहितः। कारणात्कार्यप्रतीतो यथा* तन्नास्ति किमाप पत्युः प्रकल्पितं यन्न नियतिगृहिण्यां। अनवरतगमनशालस्य कालपथिकस्य पाथेयम् ॥ १॥

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134