Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 68
________________ शारदा-प्रन्य-माला। - यथा. 'राको मानधनस्य कार्मुकभृता दुर्योधनस्याप्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य । पीतं यस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः. . कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसग्वक्षसः ॥' अत्र राज्ञ इत्यादी सोत्प्राशपरत्वं प्रसन्नगम्भीरपदत्वम् । एवं 'अङ्गराज सेनापते राजवल्लभ द्रोणोपहासिन्कर्ण, सांप्रतं रक्षेनं भीमा. दुःशासनम्' इत्यादी ज्ञेयम् । . विशेष्यस्यापि साम्ये योर्वोपादाने श्लेषः केवलविशेषणसाम्यं समासोक्तावुक्तम् । विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते। तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकरणिकाप्राकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः। तत्राचं प्रकारद्वयं विशेषणविशेष्यसाम्य एव भवति । तृतीयस्तु प्रकारो विशेषणसाम्य. एव भवति । विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्त. रगतध्वनेविषयः स्यात् । श्राद्य तु प्रकारद्वये योरप्यर्थयोर्वाच्यत्वम् । अत एवाह-'द्वयोर्वोपादाने' इति तृतीयप्रकारविषयत्वेनोक्तम् । 'विशेष्यस्यापि साम्ये' इति तु शिष्टप्रकारद्वयविषयम् । क्रमेण यथा.. 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरात्रीकृतो . .: यश्चोवृत्तभुजंगहारवलया गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स खयमन्धकक्षयकरस्त्वां सर्वदामाधवः ॥' 'नीतानामाकुलीभावं लुब्धैभूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां तदीक्षणे ॥' 'स्वेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखम् । माहात्समाक्षिपति जीवनमप्यकाण्डे कष्टं मनोभव इवेश्वरदुर्विदग्धः ॥' अत्र हरिहरयाईयोरपि प्राकरणिकत्वम् । पनानां मृगाणां चोपमानस्वादप्राकरणिकत्वम् । ईश्वरमनोभवयोः प्राकरणिकामाकरणि.

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134