Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 43
________________ श्रलङ्कार सर्वस्वम् । इत्येवंरूपातिशयेोक्तिरत्रास्तु । नैष दोषः । ग्रहीतृभेदाख्येन विषयविभागेनानेकधात्वोङ्कनात्तस्य च विच्छित्त्यन्तररूपत्वात्सर्वथा नास्यान्तर्भावः शक्यक्रिय इतिनिश्चयः । यथा वा ३२ "गाराअणोति परिणश्रवहूहिं सिरिवल्लहो ति तरुणीहिं । बालाहिं उग कोऊह लेख ए श्रमे श्र सच्चविश्रो ।" 1 6 एवं गुरुर्वचसि पृथुरुरसि विशाला मनस्यर्जुना यशसि इत्यादाववसेयम् । इयांस्तु विशेषः- पूर्वत्र ग्रहीतृभेदेनानेकधात्वाल्लेखः, इह तु विषयभेदेन । नन्वनेकधात्वाल्लेखने गुर्वादिरूपतया श्लेष इति कथमलंकारान्तरमत्र स्थाप्यते । सत्यम् । श्रनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते । इति तत्प्रतिभोत्पत्तिहेतुः श्लेषेोऽप्यत्र स्यात् । न तु सर्वथा तदभावः । श्रतश्चालंकारान्तरम् । यदेवंविधे विषये श्लेषाभावेऽपि विच्छित्तिसद्भावः । तस्मादेवमादावुल्लेख एव श्रेयान् । एवंकारकान्तरविच्छित्त्याश्रयणेनाप्ययमलंकारो निदर्शनीयः । " विषयस्थापन्हवेऽपह्नुतिः' । वस्त्वन्तरप्रतीतिरित्येव । प्रक्रान्तापह्नववैधर्म्येणेदमुच्यते । श्रारोपप्रस्तावादारोपविषयापहृतावारोप्यमाणप्रतीतावपत्याख्येोऽलंकारः । तस्य च त्रयी बन्धच्छाया - श्रपन्हवपूर्वक श्रारोपः । श्रारोपपूर्वकोsपहवः । छलादिशब्दैरसत्यत्वप्रतिपाद कैर्वापह्नव निर्देशः । पूर्वोक्तभेदद्वये वाक्यभेदः । तृतीयभेदे त्वेकवाक्यम् । श्राद्यो यथा १ नारायण इति परिणतवधूभिः श्रीवल्लभ इति तरुणीभिः । बालाभिः पुनः कौतूहलेनैवमेव दृष्टः । ( २ ) अपन्हुतिः = गोपनमित्यर्थः । तथा च गोपनं चमत्कारकारिचेदपन्हुत्यलङ्कारः । चमत्कारमन्तरा कुत्राप्यलङ्कारो न भवतीत्यर्थः । काव्यप्रकाशगतकारिकाकारस्य त्विदं लक्षणम्ः “प्रकृतं यन्निषिध्यान्यत्साध्यते सात्वपन्हुतिः ।" वामन वाग्भटरुद्रप्रभृतयोऽपीत्थमेव लक्षणान्याहुः ।

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134