Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 45
________________ ३७ अलकारसर्वस्वम् । क्वचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायि घपुःशब्दाविनिवन्धनं यथा'अमुष्मिल्लावण्यामृतसरसि नूनं मृगद्दशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः। यवनाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥” इति। एवमभेदप्राधान्ये आरोपगर्भानलंकारांलक्षयित्वा अध्यवसायगर्भीलक्षयति तत्र। अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा। विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणोऽध्यवसायः' । स च द्विविधः-साध्यः सिद्धश्च । साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः। असत्यत्वं च विषयिगतस्यधर्मस्य विषय उपनिबन्धे विषयिसंभवित्वेन विषयासंभवित्वेन च प्रतीतेः। धर्मो गुणक्रियारूपः, तस्य संभवासंभवप्रतीतो संभवाश्रयस्य तत्र परमार्थतया असत्यत्वं प्रतीयते इतरस्य तु परमार्थतया सत्यत्वम् । यस्यासत्यत्वं तस्य सत्यत्वप्रतीतावध्यवसायः साध्यः। अतश्वव्यापारप्राधान्यम् । सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यताप्रतीतिः । सत्यत्वं च (........) पूर्वकस्यासत्यत्वनिमित्तस्याभावात् । अतश्चाध्यवसितप्राधान्यम् । तत्र साध्यत्वप्रतीतो व्यापा रप्राधान्येऽध्यवसायः। संभावनमभिमानस्तर्क ऊह उत्प्रेक्षेत्यादिशब्दैरु (१) अत्रेताशब्देन दर्शनं, स्थापनं, स्वीकरणं, आशङ्कनमित्यादीनां संग्रहो विवक्षितः। (२) विषयस्य निगरणं कृत्वा विषयिणो यदभेदशानं तवण्यवसाथ इत्युच्यते । निगरणं तु निगलनम् । व्याकरणरीत्या रकारस्य लकारो जातः । निगलनन्तु ग्रसनम् । अत्र विषयस्य निगलनं विषयिणि विषयस्यान्तर्भावः। अत्र च निगलनन्तु स्फटिककलश. गतासवन्यायेन विवक्षितम् । स्फटिककलशोदरगत आसवो यथा प्रतीयते तथोपमानोदरगतमुपमेयमत्र प्रतीयते । उक्ताभेदनिधयोऽलङ्कारशास्त्रेऽध्यवसाय इत्युच्यते ।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134