Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 63
________________ अलङ्कारसर्वस्वम् । 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररास ॥' अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्ट्रपुरुषनिरूपणमाततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते । श्लिष्टं यथा-- 'मदनगणानास्थाने लेख्यप्रपञ्चमुदश्चय निव किल बृहत्पत्रन्यस्तद्विरेफमषोलवैः । कुटिललिपिभिः कं कायस्थं न नाम विसूत्रय व्यधित विरहिप्राणेष्वायवयावधिकं मधुः॥' अत्र हि पन्न-लिपि-कायस्थ-शब्देषु श्लेषगर्भ रूपकं द्विरेफमषीलवै. रित्येतद्पकनिमित्तम् । अस्य च प्रचुरः प्रयोगविषय इति न समासो. क्तिबुद्धिःकार्या। तदेवं श्लिष्टविशेषणसमुत्थापितका साधारणविशेषणसमुत्थापिता धर्मकार्यसमारोपाभ्यां द्विभेदा । औपम्यगर्भविशेषण समुत्थापितोपमा संकरसमासाभ्यां द्विभेदा । रूपकसमाश्रयेण तु भेदद्वयमस्या न विषयः । तदेवं पञ्चप्रकारा समासोक्तिः । इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्नेन प्रथमं त्रिधा समासोक्तिः । विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम् । सर्वत्र चात्र व्यवहारसमारोप एव जीवितम् । स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः । लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोप. । शास्त्रीये वा लौकिकवस्तुव्यवहारसमारोप इति चतुर्धा भवति । तदेवं बहुप्रकारा समासोक्तिः। तत्र शुद्धकार्य समारोपेण यथा 'विलिसति कुचावुच्चैर्गाढं करोति कचग्रह लिखति ललिते वक्त्रे पत्रावलीमसमजसाम् । ... (१) अत्र मेघे पुरुषस्य, विद्युति नयनस्य, गर्जने आर्तरवस्य रूपकम् । “विद्युन्नयनैः” इत्यत्र विद्युन्नयने उभे उक्ते । पयोदः आर्ततरं ररास” इति चैकैकस्य कथनात् पुरुषगर्जनस्यानुक्तत्वादत्रकदेशविवर्तिरूपकम् ।

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134