Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 33
________________ %3 अलङ्कारसर्वस्वम् । 'वाच्याभिप्रायेण पूर्वरूपावगमः । एकस्य तु विरुद्धधर्मसंसर्गों द्वितीयसब्रह्मचारिनिवृत्त्यर्थः । अत एवानन्वय इति योगोऽप्यत्र संभवति । यथा- . 'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो भीमोऽपि भीम इव वैरिषु भीमकर्मा । न्यग्रोधवर्तिनमथाधिपति कुरूणा मुत्प्रासनाथेमिव जग्मतुरादरेण ॥' द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा । तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्षः । पर्यायो योगपद्याभावः । अत एवात्र वाक्यभेदः । इयं च धर्मस्य साधारणये वस्तुप्रतिवस्तु. निर्देशे च द्विधा। आद्या यथा'खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' द्वितीया यथा'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजा । वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः॥' सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् ॥ हे करिकरोरु, त्वमिव त्वं सरसि गच्छसीत्याद्यन्वयः। अत्र लोकोत्तरत्वं प्रतिपादयितं श्रात्मनैवोपमानोपमेयभावो निबद्धः। (१) ननु सादृश्यस्योभयनिष्ठत्वेनैव सम्भवादेकस्य च तदभावाकथमिह तदाश्रयस्याप्यस्य वचनमित्याहः-वाच्याभिप्रायेणेत्यादि । २. “ प्रथमवाक्यगतसाधारणधर्ममेव साधारणधर्मीकृत्य प्रथमवाक्यगतेनोपमेयेन प्रथमवाक्यगतस्योपमानस्योपमा उपमेयोपमा । उपमातुं योग्यः उपमेयः, उमेयेन उपमा यत्रेतिभावः । __ रसनोपमायान्तु एकस्यैव क्रमश उपमानोपमेयभावः, अतस्तद्वारणाय द्वयोरिति । द्वयोरित्युपमानोपमेययोरित्यर्थः । मुखमिव कमलम् “इत्यादौ समकालमेव द्वयोरुपमानोपमेयत्वमिति तद्वारणाय पर्यायेण" इति।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134