Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 39
________________ अलकारसर्वस्वम् । इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो' विषशब्दे श्लेष एव । जलदभुजगजमिति रूपकसाधक इति पूर्व सिद्धत्वाभावान्न तनि बन्धनम् । विषशद्धे श्लिष्टशद्वं परम्परितमिति श्लेष एवात्रेत्याहुः । आरोप्पमाणस्य प्रकृतोपयोगित्वे परिणामः । 'आरोग्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते । परिणामे तु प्रकृतात्मतया आरोपायमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति । आगमानुगमविइव इतस्ततो भ्रमणां, अरति = सर्वत्र मनःप्रसादाभावं, अलसहृदयतां=अनुत्साहहतमानसतां, प्रलयं = नष्टचेष्टतां, मृच्छा = इन्द्रियव्यापारनिरोध, तमः = मोहं, शरीरसादः = शरीरपीड़ां मरणञ्च कुरुत इत्यर्थः । १. प्रथममेव प्रतीतिविषयीभूत इत्यर्थः । २. श्लेषप्रतीतिमन्तरेण सन्दिग्धत्वान्न रूपकनिबन्धनमित्यर्थः । ३. निजस्थितेरन्यथाभावः परिणामः, यथा मृत्तिका खाकारं प्राप्नोति अथ च खोयां मृत्तिकात्वजातिं विहाय घटत्वादि जाति लभत इति भावः। ४. आरोप्यमाखं प्रकृतात्मतां प्राप्याचरणं करोतीत्यर्थः । विमर्शनीकारः स्पष्टीकरोतिः-एकं वस्तु उचितं भवति एकं वस्तु उपयोगि भवति । तत्र उचितं तु सिद्धस्य पोषकम् । उपयोगि तु प्रकृतार्थस्य सिद्धौ साधकम् । यथा-अनन्वयालङ्कारे "इन्दुरिन्दुरिव” इत्यत्र " इन्दुश्चन्द्र इव " इति कथनेऽपि अनन्वयः सिद्धयति । अतोऽनन्य. यसिद्धौ शब्देक्यस्य नोपयोगित्वं तथाप्यनन्वयेऽप्यर्थैक्यवत् “इन्दु. रिन्दुरिव" इतोदृशशब्दैक्येऽर्थस्य सुगमता अत्रेदमेव पोषकत्वम् । अतोऽत्र शब्दैक्यमुचितरूपम् । किञ्च लाटानुप्रासे शब्दैक्यस्योपयोगित्वम् । यतः शब्दैक्यमन्तरा लाटानुप्रासो न सिद्धयति । तथा परम्परितरूपकेऽन्यरूपकाकरणेऽपि प्रथमरूपकस्यासिद्धिर्नास्ति । परन्त्वन्यरूपकं प्रथमरूपकस्य पोषकत्वादुचितरूपम् । - एवञ्च क्रियाकरणे आरोप्यमाणस्यौचित्ये रूपकम् । उपयोगित्वे तु परिणामः।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134