Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan

View full book text
Previous | Next

Page 28
________________ शारदा-ग्रन्थ-माला। 'किं नाम दर्दुर दुरध्यवसाय ? सायं कायं निपीडय निनदं कुरुषे रुषेव। एतानि केलिरसितानि सितच्छदाना माकर्ण्य कर्णमधुराणि न लजिताऽसि ॥' अत्र सायंशब्देनास्यालंकारस्य यकारमात्रसादृश्यापेक्षया कृस्य- . नुप्रासेन सहकाभिधानलक्षणः संकरः। छेका विदग्धाः । अन्यथा तु वृत्त्यनुप्रासः॥ केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं ज्यादीनां च परस्परसादृश्यमन्यथाभावः । वृत्तिस्तु रसविषयो व्यापारः । तद्वती पुनर्वर्णरचनेह वृत्तिः । सा च परुषकोमलमध्यमवर्णारब्धत्वात्त्रिधा। तदुपलक्षितोऽयमनुप्रासः । यथारुद्रटस्तु:-" एकद्वित्रान्तरितं व्यञ्जनमविवक्षितस्वरं बहुशः । श्रावय॑ते निरन्तरमथवा यदसावनुप्रासः ॥" इत्युदाजहार। अयञ्च छेकैर्विदग्धैरेव प्रायशोऽनुप्रयुज्यमानत्वाच्छेकानुप्रास इति कथ्यते । एषः-सजातीयाव्यवहितद्वित्रादिवर्णानामप्यावर्तने सम्भवति । यदुक्तम्:. “सजातीयाव्यवहित-वर्णा द्वित्रादयो यदि । आवर्तन्ते तदा केचिच्छेकानुप्रासमूचिरे ॥" (१) उक्तञ्च-श्रीमता विद्याभूषणेन "माधुर्यव्यञ्जकैर्वर्णरुपनागरिकोच्यते । भोजप्रकाशकैस्तैश्च परुषा कोमलापरैः ॥" एतासां क्रमेणादाहरणानिः "अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताझ्याः । कुर्वन्ति यूनां सह सा यथैताः स्वान्तानि शान्तापरचिन्तितानि ॥"

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134