Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरु:
३९
वि०सं० २०७४ सङ्कलनम् : दक्षिणायनम् | कीर्तित्रयी
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुर्नन्दनवन - सत्कोऽयं नन्दतात् सुचिरम् ॥
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरु: ३९
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥
वि.सं. २०७४ दक्षिणायनम्
सङ्कलनम् कीर्तित्रयी
Page #4
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ३९ (षाण्मासिकम् अयनपत्रम्) सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ।। वि.सं. २०७४, ई.सं. २०१७ मूल्यम् : ₹ १००/अस्मिन् जालपुटेऽपि उपलभ्यते - इ-सङ्केतः : s.samrat2005@gmail.com प्राप्तिस्थानम् : (१) श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 079-26622465, 09408637714 (२) श्रीविजयनेमिसूरिज्ञानशाला शासनसम्राट् भवन, त्रीजो माळ, शेठ हठीसिंह केसरीसिंहनी वाडी दिल्ली दरवाजा बहार, शाहीबाग रोड,
अमदाबाद-३८०००४, फोन- ०९९-२२१६८५५४. सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
Clo. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 079-26574981, (M) 9979852135
आर्थिकं सौजन्यम् शासनसम्राट्-समुदायवर्तिन्याः सा.श्रीराजेन्द्रप्रभाश्रियः सत्प्रेरणया श्रीविश्वनन्दिकरजैनसङ्घ पालडी, __ अमदावाद - श्राविकोपाश्रयस्य आराधकश्राविकावर्गेण नन्दनवनकल्पतरोरेकोनचत्वारिंश्याः
शाखायाः प्रकाशने आर्थिकः सहयोगः कृतोऽस्ति । एतदर्थं बहुशो धन्यवादाः ॥
मुद्रणम्
: किरीट ग्राफिक्स
३, मंगलम एपा. भगवाननगरनो टेकरो, विश्वकुंज, पालडी, अमदावाद-380007 दूरभाष : 09898490091
Page #5
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
अष्टात्रिंशी शाखा पठिता । प्रास्ताविके भाषा प्रतिवाक्यं हंससञ्चारं चरति । तत्र च राष्ट्रीयं चारित्र्यम् अधिकृत्य यदुक्तं तत्तु चिन्तोद्दीपकम् एव । मुनिरम्याङ्गरत्नविजयानां "जीवनमौक्तिकात्" धर्मलाभः अभवत् । किन्तु "आर्यसत्यानां पर्यालोचनम्" पण्डितोचितत्वात् कठिनमिव अनुभूतम् । मुनिधर्मकीर्तिविजयानां पत्रं पाठं पाठम् अन्तिमभागस्य "सम्मीलने नयनयोर्न हि किञ्चिदस्ति" इति पङ्क्तिर्यदा प्राप्ता तदाऽहमपि चकितः अभवं राजसमानम् । संस्कृतवाणीसेवारतेन डा० विश्वासेन "अर्धजरती" इति कथासङ्ग्रहः रचितः, संस्कृतभारत्या प्रकाशितश्चेत्येषः विषयः मया सर्वप्रथम नन्दनवनकल्पतरुपत्रिकातः एव ज्ञातः । शाखायाम् अन्याः कथाः कविताः च अत्यन्तं रुचिराः । मर्म गभीरं, हास्यरचनाः च उत्तमाः । संस्कृतानुवादयुक्तम् आचार्याणां प्राकृतकाव्यम् आस्वादनीयं चासीत् । इति भवदीयः विनीतविधेयः
एम्. ए. रवीन्द्रन् M. A. Ravindran Palghat-678012
(Kerala)
Page #6
--------------------------------------------------------------------------
________________
प्रास्ताविकम् जपानदेशीयः प्रधानमन्त्री शिन्झो-अबे कतिचिद्दिनपूर्वमेव भारतदेशं तत्राऽपि चाऽहमदाबादनगरं समागत आसीत् । यद्यपि तस्याऽऽगमनेनोभयोरपि देशयोर्बहूनि राजकीय-सामाजिकार्थिक-संरक्षणादिसम्बन्धीनि प्रयोजनानि सिद्धान्येव, तथाऽप्यत्र तान्यधिकृत्य न किमपि चिन्तनं कृतम् । अत्र त्वन्यानेव कांश्चन बिन्दूनधिकृत्य किञ्चन चिन्तयामः ।
___प्रथमं तावत्, तेनोक्तं स्वीये प्रवचने यत् - "यदा जपानदेशोपरि द्वितीये विश्वयुद्धे अण्वस्त्रं प्रक्षिप्तं तदा समग्रोऽपि देशः सर्वथा हताशश्चिन्तामग्नः क्षुब्धश्चाऽऽसीत् । तस्यां स्थितौ च भारतदेशात् पण्डितजवाहरलाल-नेहरुः समागतो जपानदेशे, अस्मांश्चाऽऽश्वासनमददाद् यत् – 'सर्वथा निराशा मा भूत !! भारतदेशो भवतः सहकारार्थं सदाऽपि सज्जोऽस्ति' । नेहरुवर्यस्येमानि वचनान्यस्मद्धृदयेषु श्रद्धासङ्कल्पोत्साहानां बलमपूरयन् वयं च तद्बलेनाऽचिरादेव सर्वेष्वपि क्षेत्रेषु समुन्नता जाताः । एतदर्थं च वयं भारतदेशस्य कार्तश्यं वहामः, भारतदेशाय च यत् किमपि साहाय्यं प्रदातुं सिद्धाः स्मः" ।
___द्वितीयं च, भारतदेशे अहमदाबादनगरादारभ्य मुम्बईमहानगरं यावत् "बुलेट-रेल-यान"निर्माणकृते समग्रमपि समायोजनं जपानदेशीयास्तज्ज्ञाः करिष्यन्तीति तदर्थं च लक्षकोटिरूप्यकाणामृणमपि दास्यति जपानदेशः।
एतादृशोऽन्येऽपि बहवो विषयाः सन्ति येषु जपानदेशो भारतदेशस्य साहाय्यमपि करोति भारतदेशादतिशयितोऽप्यस्ति । अत्रैतत् तु सर्वथा न विस्मर्तव्यं यद् - जपानदेशस्य क्षेत्रफलं तद्गतजनानां सङ्ख्या च भारतदेशस्यैकं किञ्चन मध्यमपरिमाणकं राज्यमपि सर्वथा नाऽतिशेते । एवंस्थितेऽपि विश्वस्याऽपि प्रथमेषु पञ्चसु समृद्धतमदेशेषु तन्नामाङ्कनमस्ति । एतत् सर्वं कुतोऽभवदिति चिन्तनीयमस्माभिः । सम्यग्विचारणेन त्वेकमेव तथ्यं प्रकटीभवति - राष्ट्रीयं चारित्र्यम् । जपानदेशीयजनानां नैतिकता, शालीनता, मूल्यप्रतिबद्धता, अप्रमत्तता, राष्ट्रभक्तिरित्यादयः सद्गुणास्तान् सर्वांश्चाऽतिरिच्य स्थिता नम्रता - इत्येतत् सर्वमेव तद्राष्ट्रस्योन्नतिकारकं परिबलमस्ति । यद्यपि वयं बहुषु विषयेषु देशानामेतेषामविचारितमनुकरणं कुर्म एव, तथाऽपि यदि वयं भारतदेशमुन्नतं समृद्धं च द्रष्टुं कर्तुं चेच्छेम तदा खल्वस्माभिरेतेषां गुणानामाहत्य च राष्ट्रीय-चारित्र्यस्याऽनुकरणं कर्तव्यम् ।
किं वयमेतदर्थं सज्जाः स्मो वा ?
कीर्तित्रयी
कार्तिकशुक्ला प्रतिपत्, वि.सं. २०७४ श्रीस्तम्भतीर्थनगरम्
Page #7
--------------------------------------------------------------------------
________________
कृति: जगत्कर्तृत्वनिरसनविंशिका
पर्यूषणपर्वमहिमा
सुखम्
काव्यानुवादः
गूर्जरमूलम्
संस्कृतानुवादः
हाइकु-अष्टकम्
आस्वादः
भट्टाकलङ्करचितं कर्णाटकशब्दानुशासनम्
व्रतग्रहणम्
पत्रम्
बृहद्विद्वद्गोष्ठी
रङ्गमञ्चः
क्रीतानन्दम्
अनुक्रमः
5
कर्ता
स्व.आ.श्रीविजयधर्मधुरन्धरसूरयः अज्ञातो लेखकः
स्व.आ. श्रीविजयधर्मधुरन्धरसूरयः
प्रवीण देसाई आ.श्रीविजयहेमचन्द्रसूरिः डॉ. वासुदेव: वि. पाठकः
डा. एच्. वि. नागराजरावः
अज्ञातो लेखकः
मुनिधर्मकीर्तिविजयः
सङ्कलनम् - उपाध्याय श्रीयतीन्द्रविजयः
प्रा. अभिराजराजेन्द्रमिश्रः
पृष्ठम्
१
५
७
10 10 10
१०
११
१२
१३
१७
१९
२२
३७
Page #8
--------------------------------------------------------------------------
________________
संवादः
मुनिश्रुताङ्गचन्द्रविजयः
गुरु-शिष्यसंवादः भीष्म-द्रौपदीसंवादः
झेनकथा
आ.श्रीविजयसूर्योदयसूरीश्वराः
मुनिधर्मकीर्तिविजयः
कथा
अहङ्कारस्याऽन्धत्वम् अ-क्षरः अतिथिसत्कारः अ-मृतं स्वामिगौरवम् संस्कार-प्रपा
मुनिकल्याणकीर्तिविजयः मुनिरम्याङ्गरत्नविजयः मुनिअक्षयरत्नविजयः सा.तत्त्वनन्दिताश्रीः
तन्मयता
प्रसन्नताया रहस्यम्
मर्म नर्म
कीर्तित्रयी
प्राकृतविभागः
प्राकृतद्व्याश्रयमहाकाव्यस्य संस्कृतानुसर्जनम् पाइयविन्नाणकहा
पं. नरेन्द्रचन्द्रझा आ.विजयकस्तूरसूरीश्वराः
Page #9
--------------------------------------------------------------------------
________________
जगत्कर्तृत्वनिरसनविंशिका
जिनं नमस्कृत्य जगद्विभुं परं दुरन्तदोषै रहितं हिते हितम् । जगद्विधातुः प्रकटं प्रपञ्चनं
निराकरिष्ये नयशुद्धवर्त्मना ॥१॥
महेश्वरो रूपित उत्पथं स्थितैः
परैर्यथा कर्तृतया जगत्कृते: । विचारणायां न च तीर्यते तथा
निरूप्यते यत् कथितं मुनीश्वरैः ॥२॥
असौ सदा कालविशुद्ध एकक: सचेतनः सर्वगुणैरलङ्कृतः । समर्थनामर्थति विश्वसर्जने
वृथा परैरित्थमुदीर्यते हहा ||३|| न चेतनः कोऽपि सनातनः स्वतः
समस्तदोषैरनलङ्कृतः स्वयम् । उदाहृतिर्नैव विलोक्यते त्विति
प्रतिष्ठिते नैव गुणज्ञसंसदि ||४||
विना निदानं न कृतिः करिष्यते,
प्रयोजनं विश्वविधानजं च किम् । मनस्विताऽऽकर्षति नो मनः सता
मिदं निमील्याऽक्षि विचार्यतां क्षणम् ॥५॥
१
- स्व.आ. श्रीविजयधर्मधुरन्धसूरयः
Page #10
--------------------------------------------------------------------------
________________
प्रमाणमध्यक्षमहो ! महेश्वरे
. न चाऽस्ति किञ्चिद् यदसावगोचरः । न लिङ्गमस्याऽव्यभिचारि दृश्यते- ऽनुमानवातेति गता विदूरतः ॥६॥ न चाऽस्ति सादृश्यमनन्यतुल्यके - न वेद वेदोऽपि विभोविवेचनाम् । इति प्रमाणैर्न च सिद्ध्यतीश्वरः
कथं तथा श्रद्दधते सचेतनः ॥७॥ यदि श्रुतिस्तं प्रतिपादयेत् परं,
श्रुतेः प्रमाणं न हि सुज्ञसम्मतम् । वचः प्रमाणं किल वक्तृनिर्भरं,
श्रुतेर्विधाता न हि कोऽपि लक्ष्यते ॥८॥ अनादिसिद्धा यदि सा निरूप्यते
तदाऽपि तन्नैव सुयुक्तिसंगतम् । अनादिसिद्ध वचसामुदीरणं
श्रुतं न दृष्टं तदिदं विभाव्यताम् ॥९॥ विना मुखं नैव वचः प्रवर्तते
मुखं कुतो भावि शरीरमन्तरा । ऋते ह्यदृष्टं न च दृष्टमङ्गकं
हतं तथाऽदः परकीयशासनम् ॥१०॥ यदि स्वतन्त्रो भगवास्त्वयोच्यते
स्वतन्त्रताया इह नाऽऽप्यते कला । अनेकदोषैः परिपूर्णमेतकं
जगत् स्वतन्त्रो न कदाऽपि संसृजेत् ॥११॥ जिजीविषा कञ्चन बाधते भृशं
मृतिं च कश्चित् त्वरितं समीहते । क्वचित् सुतानां विततिः सुदुर्भरा
क्वचित् सुतार्थं विविधं प्रतप्यते ॥१२॥
Page #11
--------------------------------------------------------------------------
________________
दरिद्रता मूर्तिमती क्वचित् क्वचित्
धनाढ्यता श्रीदकृपाकटाक्षिता । वपुः क्वचित् सुन्दरमिन्द्रवन्दितं
क्वचिज्जराजर्जरितं मदार्दितम् ॥१३॥ धनं नवं यौवनमाश्रितं श्रिता
विलासिनी लास्यमुपास्यति क्वचित् । क्वचिद् विवाहेन समं गतासुकं
धवं गलेकृत्य विरौति दुर्भगा ॥१४॥ विचार्यमाणं भुवनं समन्ततो
विरूपमेवं बहुधा विलोक्यते । तदीदृशं विश्वमवारितार्तिकं
विरच्य वैशिष्ट्यमिनः किमाश्रयेत् ॥१५॥ अतयंता चेत् प्रतिपाद्यते प्रभोः
तदा कुतः स कदर्थ्यते कथम् । कपीलमात्रोक्तमनक्षरालये
भवेत् प्रमाणं न च सुज्ञसंसदि ॥१६॥ ललेन लीलां किल यन्मलाविला
मथो कृपां चेत् कलयेदिलाविधौ । भवत्कृपा यद्विधवाऽभवत् सुता
कथामितीशोऽनुहरेत् तदा वृथा ॥१७।। यथा सुधीर्नीत्यनुसारतो जनान्
प्रशास्ति राज्ये जगदीश्वरस्तथा । न रम्यमेतन्ननु कर्मवश्यता
जने तदेशस्य भवेच्छिखण्डिता ॥१८॥ विधातृता ज्ञातृतया सहैकतां .....--विज्ञाय सर्वज्ञविलोकितं जगत् । न चांऽशमानं व्यतिरिच्यते क्षणं
न दोषलेशः प्रभवेत् तथा मते ॥१९॥
Page #12
--------------------------------------------------------------------------
________________
अबाध्यसिद्धान्तमनन्तपर्यवं
विशुद्धविश्वार्थविदा विवेचितम् । सतां मनस्तोषकरं तमोहरं
जयत्यधृष्यं परमात्मशासनम् ॥२०॥ वचस्विने मित्रहिताय सर्वतः
प्रबोधशुद्धामृतदायिनेऽनिशम् । सुधर्मपुण्याय धुरन्धराय सन्नमोऽस्तु नित्यं विमलात्मनेऽर्हते ॥२१॥
इति जगत्कर्तृत्वनिरासर्विशिका ॥
Page #13
--------------------------------------------------------------------------
________________
पर्दूषणपर्वमहिमा
पर्दूषणे पर्वणि किंविधेयं
पर्दूषणस्याऽस्ति प्रयोजनं किम् । पर्दूषणात् किं फलमस्ति लोके
तदुच्यतां देव ! मनुष्यहेतोः ॥१॥ स्याद्वादसिद्धान्तजिनेशधर्मे
पर्दूषणं पर्व समाघनाशि । कायेन वाचा मनसेन्द्रियैश्च
- बुद्ध्याऽऽत्मना सञ्चितपापहन्तृ ॥२॥ वर्षान्तरे पापसमुच्चयः कृतः
पर्दूषणे तद्धि विनाशमाप्नुयात् । अतस्तु पर्युषणपर्व चोत्तम
प्रोक्तं जिनेन्द्रैजिनधर्मशासने ॥३॥ पर्दूषणात् पापसमूहनाश
स्तथा समत्वं सचराचरेषु । स्वधर्मवृत्त्या सकलेन्द्रियाणि
महापवित्राणि भवन्ति तूर्णम् ॥४॥ प्रतिक्रमो दर्शनचैत्यवन्दनं
जिनेश्वरे स्वात्मसमर्पणं च । मनोवचोध्यानमयं विभाव्य
जिनेन्द्ररूपे स्थिरचित्समन्तात् ।।५।।
Page #14
--------------------------------------------------------------------------
________________
तस्मादवश्यं परिहाय कार्य
स्त्री-पुत्रसेवापरिपोषणादि । वित्तं गृहं सर्वमिदं निरस्य
. पुण्यप्रदं पर्व उपास्यमेतत् ॥६॥ दिनाष्टकेऽस्मिन् बहुभावपूर्व
व्रतं तपोदानदयादियुक्तम् । भूतापराधावलिसन्निरासः
प्रतिक्रमः पञ्चविधः क्रियेत ॥७॥ यतीश्वराचार्यगुरोश्च पूजनं
तद्वन्दनं दर्शनभावसम्भृतम् । जिनेन्द्रशास्त्रश्रवणं निरन्तर
मेकाग्रचित्तेन विधीयतामिह ॥८॥ जिनेन्द्रचारितभृतं मनोजें
मुक्तिप्रदं पुण्यविवर्धनं च। श्रीकल्पसूत्रामृतसारपानं
कुर्याच्छ्वोभ्यां दुरितावलिघ्नम् ॥९॥ अतस्तु सच्छावकवर्यवृन्दै
जिनेन्द्रवाक्यं परिपालनीयम् । शक्त्या च वित्तार्णणमेव कुर्याज्ज्ञानोद्भवे जीवगणावने च ॥१०॥
इति पयूषणपर्व-महिमा ॥
६
Page #15
--------------------------------------------------------------------------
________________
सुखम्
-स्व.आ. श्रीविजयधर्मधुरन्धरसूरयः
अहूं ध्यात्वा प्रणम्याऽहूँ अहूँ स्मृत्वा पुनः पुनः । अर्हन्तं प्रार्थये काम अर्हन्नेवाऽर्हतेऽर्हते ॥१॥ प्रार्थना कस्य कर्तव्या कर्तव्या केन प्रार्थना । प्रार्थनायां निवेद्यं किं तदर्थमपि प्रार्थये ॥२॥ शर्मणः प्रार्थना कार्या शर्मार्थिना हि प्रार्थ्यते । प्रार्थनायां निवेद्यं तत् प्रार्थना येन संभवेत् ॥३॥ शर्म किं तदपि ज्ञेयं द्विविधं तद् विभाव्यताम् । बाह्यं तथाऽऽन्तरं शुद्धं बाह्यं पौद्गलिकं मुधा ॥४॥ सुखं बाह्यं परायत्तं दुःखमिश्रं य भङ्गुरम् । काल्पनिकं तथा तन्न वास्तवमिति गीयते ॥५॥ अनादिकालसंस्कारात् तत्रैव रज्यते जनैः । तदेव चिन्त्यते बाद तदर्थमेव यत्यते ॥६॥ आन्तरं शर्म वक्तव्यमग्रतस्तदपेक्षया । बाह्यमिदं भवेद् बाह्यं वोढव्यं भारवन्मुधा ॥७॥ नाऽवाप्यते तदा यस्मिन् काले हि यदपेक्ष्यते । नाऽपेक्ष्यते तदायाति परायत्तं ततश्च तत् ॥८॥ बिन्दुमात्रसुखार्थं यद् दुःखं समनुभूयते । अमितं तत् ततो ज्ञेयं दुःखमिश्रमिदं सदा ॥९॥
Page #16
--------------------------------------------------------------------------
________________
यत्यते शर्मणे यावत् तावत्कालमपीश्वरम् । दं स्थातुं क्षणस्थायि भङ्गुरं क्षणभङ्गुरम् ॥१०॥ दृश्यते दुःखरूपं यद् दृष्ट्या वास्तवरूपया । मोहमूढैस्तदेवेदं सुखरूपेण कल्प्यते ॥११॥ आत्मना मोहसंस्कारत् सुखात्मना प्रवेद्यते । अत एव सुखं बाह्यं कथ्यते नैव वास्तवम् ॥१२॥ स्वाधीनं शाश्वतं शुद्धं वास्तवं केवलं परम् । कल्पनातीतमत्यन्तं सुखं विज्ञेयमान्तरम् ॥१३॥
यत्र कुत्राऽपि शुद्धात्मा - ऽनुभवति सुखं सुखम् । न च तत्र परापेक्षा स्वाधीनं तत् ततो मतम् ||१४|| कालातीतं सदा कालं तिष्ठति नैव नश्यति । सुखमाभ्यन्तरं तेन शाश्वतमिति गीयते || १५ || सुखं दुःखेन सम्मिश्रं विश्वे सर्वत्र दृश्यते । परं यदात्मनः शर्म शुद्धं दुःखलवायुतम् ॥१६॥ सांसारिकं सुखं प्रायः दुःखं तेन न वास्तवम् । आत्मसुखं सुखं सत्यं वास्तवं वास्तवं मतम् ॥१७॥ विश्वे सुखमपूर्णं हि पूर्णं दृष्टं न च क्वचित् । संपूर्णं यत् सुखं तद्धि केवलं केवलात्मनः ॥१८॥ देहादिशर्म सुज्ञानां कल्पनाविषयं मतम् । शुद्धात्मनः सुखं नैव कल्प्यते कल्पनापरम् ॥१९॥ अमितं भूभृता तुल्यं बाह्यं सुखं विनश्यति । अभ्यन्तरस्य नाऽस्त्यन्तः तेनाऽत्यन्तं तदुच्यते ॥२०॥ इत्थमभ्यर्थनीयं सत् सुखं सुखार्थिना मुहुः । सुखार्थिता समुत्पाद्या यत्नतः सुखमिच्छता ||२१|| सर्वे सुखार्थिनो लोके लोक्यन्ते चेतना जनाः । परं सुखार्थिनो नैव सुखाज्ञानविमोहिताः ॥२२॥
८
Page #17
--------------------------------------------------------------------------
________________
दुःखात्मकं सुखं यत् तत् त्याज्यं सुखार्थिना स्वयम् । अथवा त्यजनीयं तन्मननीयं दृढं हृदि ॥ २३ ॥
सुखार्थित्वस्य चेद् वाञ्छा धार्यं लक्षणपञ्चकम् । वाञ्छा न चेत् सुखार्थित्वे आस्तां लक्षणपञ्चकम् ॥२४॥ शम - संवेग - निर्वेदानुकम्पा -ऽऽस्तिक्यलक्षणम् । सुखार्थिनो विशुद्धस्य ज्ञेयं लक्षणपञ्चकम् ॥२५॥ शमः शान्ति कषायाणां मन्दभावश्च कथ्यते । तेनाऽपकारिणोऽप्यात्मा हितं चिन्तयति हृदि ||२६|| सुखं निःश्रेयसे शुद्धं नाऽन्यत्र क्वचिदीक्ष्यते । तदेवाऽऽकाङ्क्ष्यते येन संवेगः स उदीरितः ॥२७॥ संसारो नरकागार-कारागारसमो मतः । हेयस्ततो यतो ज्ञातः स निर्वेदः सतां मतः ॥ २८ ॥ जीवाः सर्वेऽपि दुःखार्ता दुःखमिच्छन्ति नांऽशतः । तद्दुःखवारणोत्कण्ठा - ऽनुकम्पा देश- सर्वतः ॥ २९ ॥ वीतरागेण सर्वज्ञ - भगवताऽर्हता हितम् । उक्तमेव भवेत् सत्त्वमास्तिक्यं सद्भिरादृतम् ॥३०॥
Page #18
--------------------------------------------------------------------------
________________
काव्यानुवादः
आतम झंखे छूटकारो (गूर्जरमूलम्)
-प्रवीण देसाई
(चन्दन सा बदन.....सरस्वतीचन्द्र) बंधन बंधन झंखे मारुं मन,
पण आतम झंखे छूटकारो, मने दहेशत छे आ झघडामां, ___थइ जाय पूरो ना जन्मारो,
बंधन बंधन... मधुरां, मीठां ने मनगमतां,
पण बंधन अंते बंधन छे, लई जाय जनमना चकरावे,
एबुं दुःखदायी आलंबन छे, हुँ लाख मनायूँ मनडाने पण एक ज एनो 'उंहकारो'
बंधन बंधन... अकळायेलो आतम के छे, ___ मने मुक्तिभूमिमां भमवा दो, ना राग रहे ना द्वेष रहे,
एवी कक्षामां मने रमवा दो, मित्राचारी आ तनडानी, बेचार घडीनो चमकारो,
बंधन बंधन...
वरसो वीत्यां, वीते दिवसो,
आ बे शक्तिना घर्षणमां, मने शुं मलशे विष के अमृत, ___आ भवसागरना मंथनमा ? क्यारे पंखी आ पिंजर, करशे मुक्तिनो टहुकारो ?
___ बंधन बंधन...
Page #19
--------------------------------------------------------------------------
________________
काव्यानुवादः .
बन्धनं बन्धनम्.... .. (संस्कृतानुवादः)
-आ. श्रीविजयहेमचन्द्रसूरिः
(धनाश्रीरागेण गीयते) बन्धनं बन्धनं चित्तमभिवाञ्छति
चेतनो मे पुनर्मुक्तभावम् । अस्ति भयमेतयोराहवे मे व्रजेत् . मोघमेतज्जनु हा समस्तम् ॥...बन्धनम् ॥१॥ सन्ति मनसो भृशं प्रीतिकारीण्यपि __ बन्धनानि क्षितौ बन्धनानि । यानि जीवं पराधीनपशुवत् सदा
भ्रामयन्त्येव भवयोनिलक्षम् ॥ तस्य बोधाय किं किं कृतं नो मया
तदपि तन्निजवशं नैव याति । स्थानकालादिसीमां व्यतिक्रम्य तत्
एवमेवं गताः शक्तियुगघर्षणे चरति सर्वत्र प्रतिबन्धमुक्तम् ॥...बन्धनम् ॥२॥ नैव वर्षा भवाः किन्तु केऽपि । चेतनो वक्ति भवभोगविरतो रतः
लप्स्यते किं विषं वाऽमृतं मन्थनाद् सहजशुद्ध चिदानन्दरूपे ।
अस्य संसारसिन्धोर्न जाने ॥ मा ग्रहीाग्रहीरूर्ध्वगतिगामुकं
निशितवैराग्यशस्त्रेण छित्त्वा प्रियं क्षिपसि किं मां भवागाधगर्ते ॥.. --- विप्रियं वाऽपि सम्बन्धजालम् । देहमैत्री कतिचिद्दिनस्थायिनी
एष विहगो वपुःपञ्जरस्थः कदा चञ्चलायाश्चमत्कृतिरिवाऽभ्रे ।
गास्यते मुक्तिगानं स्वतन्त्रः ।।...बन्धनम् ॥४॥ तां विहाय द्रुतं जिगमिषुः शिवपदं
कोऽपि मे भवतु भोः ! सार्थवाहः ॥...बन्धनम् ॥३॥
११
Page #20
--------------------------------------------------------------------------
________________
हाईकु-अष्टकम्
डो. वासुदेवः वि. पाठकः 'वागर्थ'
(१) स्नेहस्य बिन्दुः
नाशयेत् कटकटम्: .: यथा दोलायाम् ॥
(२) दण्डयोजना
का सन्तानविरुद्धा? मूर्खाः किं वयम् ?
(३) प्रकाशस्येच्छा
आलोकलेख्यस्याऽर्थम्: अन्धकारस्य ॥
(४) सर्वे तृषार्ताः
वर्षस्यमृतं; किन्तु बिन्दुश एव ॥
(५) छायामप्यहम्
आर्द्रामार्दा पश्यामि; अश्रूणि नेत्रे ॥
(६) अकल्प्या नूनं
वर्षति महासारा कविता-वर्षा ॥
(७) काष्ठं विचार्य
तर्तुं यत्र स्थितवान्, स किं मकरः?
(८) पूर्णचन्द्रेऽपि
अपश्यमपूपं हि; बुभुक्षितोऽहम् ॥
३५४, सरस्वतीनगर, अहमदाबाद-१५
Page #21
--------------------------------------------------------------------------
________________
आस्वादः
भट्टाकलङ्करचितं कर्णाटकशब्दानुशासनम्
__ -डा. एच्. वि. नागराजराव शिक्षा व्याकरणं छन्दो निरुक्तं ज्यौतिषं तथा । कल्पश्चेति षडङ्गानि वेदस्याऽऽहुर्मनीषिणः ॥
इत्युक्तरीत्या वेदाङ्गत्वेन प्रथितं व्याकरणम् । पाणिन्यादयः व्याकरणं तया दृष्ट्या प्रणिन्युः । संस्कृतभाषाया एवं बहूनि व्याकरणानि मुनिभिर्विपश्चिद्भिश्च रचितानि विद्योतन्ते । ततो देशभाषाणाम् अपि व्याकरणानि विद्वद्भिर्व्यरच्यन्त । तत्र कर्णाटदेशे भाष्यमाणायाः कन्नडभाषाया व्याकरणं कर्णाटकशब्दानुशासनाख्यं भट्टाकलङ्केन रचितं समुपलक्ष्यते । तद्विषये किञ्चिदत्रोच्यते ।
भट्टाकलङ्कः
श्रेष्ठो वैयाकरणो भट्टाकलङ्को जैनमतावलम्बी विदितनानाशास्त्ररहस्यः संस्कृतादिषड्भाषानिपुण आसीदिति कर्णाटकशब्दानुशासनस्याऽन्ते दृश्यमानैः पद्यैरन्यग्रन्थेभ्यश्च विज्ञायते । आदौ तानि पद्यानि अत्रोल्लिखामः ।
मङ्गलं भगवानर्हन्मङ्गलं भगवान् जिनः । मङ्गलं प्रथमाचार्यो मङ्गलं वृषभेश्वरः ॥ .. निरुपमसुखदायं निश्चलामेरुपायं, निजगुणसमवायं निर्जितैनोन्यवायम् । निरवधिमतिकायं निर्वृतिश्रीसहायं, निखिलजिननिकायं नित्यमानौम्यमायम् ॥ यो नानामततर्ककर्कशमतिर्व्याख्यानमुद्रापटुर्यः प्राभावयदार्हतं निजमतं भूभृत्सभेऽनेकधा । यः कर्णाटकसंस्कृतोभयविधं शब्दाब्धिमुत्तीर्णवान् सोऽयं साधुजनप्रियो विजयते भट्टाकलङ्को भुवि । यः कर्णाटकशब्दशासनमिदं निर्माय शर्मावहं वृत्तिं चाऽरचयच्च तस्य विदुषां प्रौढां प्ररूढश्रियम् ।
Page #22
--------------------------------------------------------------------------
________________
तेनेदं व्यरचि प्रगलभवचसा भट्टाकलङ्केन तद्वृत्तेः साधुनिबन्धनं च मकरन्दाख्यं समाख्यास्पदम् ॥ अकलङ्कोत्तमसूक्तिसारसुमनोवृन्दावलम्बं समर्पकसवृत्तिसुयुक्तिसौरभभरं सर्वज्ञपादार्पितम् । सुकवीन्द्रभ्रमरप्रमोदजनकं तन्त्रं शुभं मञ्जरीमकरन्दाख्यमिदं तरां विजयतामाचन्द्रतारार्णवम् ॥ शकवर्षे रसनेत्रबाणशशिसंख्येऽब्दे तपोमासि शोभकृति श्रीसितपञ्चमीगुरुदिने लग्ने घटे पौषभे । अकलङ्काह्वययोगिशिष्यतिलको ग्रन्थं सतां मञ्जरीमकरन्दाख्यमिदं मतं व्यरचयं भट्टाकलङ्को मुनिः ।।
इति भट्टाकलङ्कदेवविरचितायां स्वोपज्ञशब्दानुशासनवृत्तेः भाषामञ्जर्याष्टीकायां मञ्जरीमकरन्दसमाख्यायां चतुर्थः पादः । परिसमाप्तश्चैष ग्रन्थ इति । ____एतेभ्यो ज्ञायते यद् भट्टाकलङ्क एव कर्णाटकशब्दानुशासनस्य सूत्राणि, भाषामञ्जर्याख्यां तदृत्तिं, मञ्जरीमकरन्दाख्यां तट्टीकां च व्यरचयदिति । अपि च ग्रन्थसमाप्तिकालश्च ग्रन्थका सूचितः । रसाः षट्, नेत्रे द्वे, बाणाः पञ्च, शशी एकः । अङ्कानां वामतो गतिरिति न्यायेन अत्र सूचितं शकवर्षं १५२६ इति ज्ञायते । तच्च क्रैस्तवशकानुसारेण १६०४ इति (1604 A.D.) ज्ञायते ।
भट्टाकलङ्कः कर्णाटदेशे जात इत्येतदनुच्यमानमपि स्पष्टमेव । कथमन्यथा तस्य तस्यां भाषायां निष्कृष्टं ज्ञानं प्रेम च स्याताम् । वदति स एव विस्तरेण पीठिकाभागे यथा - ___ "शब्दानुशासनं हि प्रस्तुतम् । तत्र चाऽनुशासनविषयभूताः शब्दाः कार्णाटिका एव । ते च संस्कृतशब्दवत् सकलदेशप्रसिद्धाः सकलशास्त्रोपयोगितया सकलमहाजनपरिग्राह्याश्च न भवन्ति, भाषाविषयत्वात् । भाषायां च पामराणाम् एवाऽधिकारो न पण्डितानाम् इति नैते अनुशास्याः प्रयोगानर्हत्वादिति केषाञ्चित् संस्कृताग्रहग्रहग्रस्तानां पण्डितम्मन्यानां मनसि प्रख्याताम् अन्यथाख्याति प्रत्याख्यातुम् एतदेव विशेषणम् उपवर्णितवान् ग्रन्थकारः" ।
भट्टाकलङ्को नानाव्याकरणान्यधीत्य कर्णाटकशब्दानुशासनं प्रणीतवान् इत्यत्र तदीयसूत्रवार्तिकादीनां तेन पुनः पुनरुदाह्रियमाणत्वम् एव प्रमाणम् । पाणिनि-शाकटायन-कातन्त्र-जैनेन्द्र-सारस्वतसूत्राणि भट्टाकलङ्कस्तत्र तत्र समुदाहरति । महाभाष्यस्य, पाणिनीयशिक्षायाः, अमोघवृत्तेः न्यासस्य च वाक्यानि च स उदाहृतवान् । एवमस्य ज्ञानं विशालम् इत्यत्र नैव संशयः । एवं सूत्रोदाहरणत्वेन दत्तानि पद्यानि भट्टाकलङ्केन नानाग्रन्थेभ्य उद्धृतानि । तेषां कन्नडग्रन्थानां नामानीमानि -
१४
Page #23
--------------------------------------------------------------------------
________________
३.
का
ॐ
3
पुष्पदन्तपुराणम्
पञ्चतन्त्रम् नेमिनाथपुराणम्
१२. कब्बिगर काव कविराजमार्गः
लीलावती कान्यावलोकनम्
काव्यसारम् पम्परामायणम्
चन्द्रप्रभपुराणम् धर्मामृतम्
साहसभीमविजयम् ७. शब्दमणिदर्पणः
१७. धर्मनाथपुराणम् आदिपुराणम्
१८. गुम्मटस्तुतिः ९. कर्णाटभाषाभूषणम्
१९. धर्मपरीक्षा १०. जिनाक्षरमाला
२०. जगन्नाथविजयम् अन्यानि बहूनि पद्यानि विद्यन्ते भट्टाकलङ्केन उदाहृतानि येषाम् आकरान् वयं न विद्यः । प्राचीनानां ग्रन्थकाराणां ज्ञानस्य वैशाल्यं गाम्भीर्यं च नूनं विस्मयकारि । तर्कशास्त्रे तस्य वैचक्षण्यम् अधोनिर्दिष्टैर्वाक्यैरवगम्येत । _ "अनेनोक्तलक्षणस्य परमात्मनः सत्त्वेऽनुमानं प्रमाणमुन्नीतं भवति । तथा हि प्रवचनवाक्यानि कर्तृजन्यानि, वाक्यत्वात् प्रसिद्धवाक्यवदिति । दृष्टं हि प्रसिद्धवाक्येषु कर्तृजन्यत्वम् । तथा प्रवचनवाक्येष्वपि । कर्तृजन्यत्वे सिद्धे यस्तेषां कर्ता स एव केवलज्ञानीति" ।
"ननु वाक्यत्वं कर्तृजन्यत्वव्याप्तं सत् कर्तारमेव आक्षिपति, न तु तस्य केवलज्ञानमपि । तदभावेऽनुपपत्त्यभावादिति चेन्न, वाक्यत्वेन हेतुना सिध्यन् कर्ता पक्षधर्मताबलात् केवलज्ञानी सिध्यति । इतरेषां प्रवचनकर्तृत्वायोगात् । यथा क्षित्यादिपक्षकसकर्तृकत्वानुमाने कार्यत्वेन हेतुना सिद्धे कर्तरि सार्वज्ञ्यादीति" |
"अथवा प्रवचनवाक्यानि स्वप्रतिपाद्यगोचरयथार्थज्ञानवत्पुरुषप्रणीतानि, अबाधितार्थबोधकवाक्यत्वात् सम्प्रतिपन्नवाक्यवत् इत्यनेन यः प्रवचनप्रणेता स्वप्रतिपाद्यगोचरयथार्थज्ञानवान् पुरुषः सिध्यति स एव केवलज्ञानी । तत्प्रतिपाद्यानां देशकालस्वभावविप्रकृष्टानां स्वर्गनरकादिभूत-भाविकालवर्तिधर्माधर्मपरमाण्वादीनां किञ्चिज्ज्ञबोधागोचरत्वात् । अत्र च वाक्यत्वमात्रस्य सुप्तोन्मत्तादिप्रलपिताबोधकवाक्ये, अर्थबोधकवाक्यत्वस्य च भ्रान्तप्रतारकादिप्रयुक्तबाधितार्थबोधकवाक्ये, अर्थबोधकत्वस्य च तादृगर्थबोधकाप्ताभासे, अबाधितार्थबोधकत्वमात्रस्य च यथोक्तार्थबोधके प्रणेतर्येव व्यभिचारसम्भवात् एवं विशिष्ट एव हेतुरुक्तः । तत्र सर्वत्र हेतुसत्त्वेऽपि विवक्षितसाध्याभावात्" ।
१५
Page #24
--------------------------------------------------------------------------
________________
इत्थं भट्टाकलङ्कविरचितग्रन्थस्याऽध्ययनात् छात्राणां न केवलं कनडशब्दानाम् एव ज्ञानम्, अपि तु नानाशास्त्रज्ञानम् अप्युत्पद्यते । अस्मिन् व्याकरणे सन्ति अष्टोनषट्शतसंख्यानि(५९२) सूत्राणि । तेषु कन्नडभाषायाः समस्तं वैशिष्ट्यं प्रतिपादितम् । चतुर्षु पादेषु विषयविभाग इत्थमस्ति -
प्रथमपादे समाम्नायः, संज्ञाः, अव्ययानि, सन्धिश्च । द्वितीयपादे लिङ्गं, संस्कृतभाषाया गृहीताः 'तद्भव'शब्दाः । तृतीयपादे समासाः, सर्वनामानि, संख्यावाचकानि, तद्धितान्ताः शब्दाः । चतुर्थे पादे धातवः, तिङन्ताः, तत्प्रत्ययाः इत्यादि ।
देवचन्द्रविरचितायां राजावलीकथायां कथ्यते यद् भट्टाकलङ्कः सुधापुरनाम्नि ग्रामे शास्त्राण्यध्यैष्ट, स षट्सु भाषासु काव्यं रचयितुं शक्त आसीदित्यादि । विजयनगरसाम्राज्यस्य सम्राट् वेङ्कटपतिः (क्रिस्तशके १५२६-१६१५) भट्टाकलङ्कस्य पोषक आसीदिति शिलाशासनेषु क्वाचिदुल्लिखितमिति तज्ज्ञाः कथयन्ति । भट्टाकलङ्कस्य व्याकरणं सर्वेषाम् अध्ययनम् अर्हतीति शम् ।
___90, 9th Cross, Navilu Road, Kuvempunagar,
Mysuru,570023
Page #25
--------------------------------------------------------------------------
________________
आस्वादः
व्रतग्रहणम्
मानुष्यमिहजीवानां दुर्लभं मोक्षप्राप्तये ।
तन्मूलं हि व्रतं प्रोक्तं चित्तेन्द्रियविशुद्धये ॥ मनुष्याणां पूजितपापानां विनाशाय चेन्द्रियाणां विशुद्धये च मनसोऽपि निर्मलीकरणार्थञ्च जिनेन्द्राणां पूजनाद्यधिकारार्थमुपवासादितपश्चर्यां कुर्यात् ।
देहादीनां विशुद्ध्यर्थं व्रतं प्रोक्तं महात्मना ।
विधियुक्तं नरः कृत्वा सर्वं पापं प्रणाशयेत् ॥ प्रथमं स्वेष्टदेवं जिनेन्द्रं ध्यात्वा गुरुं च नमस्कृत्य तदनुज्ञां लब्ध्वा व्रतादीनि चरेत् । तत् किं व्रतम् उपवासादि ? तत्कथं केन प्रकारेण किमर्थं वा कुर्यात् ?
(उत्तरम् ) उपवासाज्जनानां मलादिदोषा नश्यन्ति वातपित्तकफादिदोषा अपि नश्यन्ति । व्रतादिना शरीरस्य दुर्बलत्वाच्च शारीरिकविकारा अपि नश्यन्ति । इन्द्रियाणि दुर्बलानि भवन्ति । तस्मादिन्द्रियविकारा अपि नश्यन्ति । मनसश्च सङ्कल्पादिविकारा दुर्बलत्वान्नश्यन्ति । व्रतपुण्यैः पूर्वजन्मकृतानि पापानि नश्यन्ति । शरीरस्य दुर्बलत्वादिहजन्मनि पापानि न भवन्ति । शरीरस्था: काम-क्रोधेादिदोषा अपि नश्यन्ति । पराश्च दयासत्यविनयविवेकवैराग्यादिसद्गुणाः प्रादुर्भवन्ति ।
(व्रतविवरणम्) तद् व्रतं केन प्रकारेण कर्तव्यम् ?
शरीरं निर्मलं कुर्यात्तपश्चर्याव्रतादिभिः ।
शास्त्रोक्तविधिना चैव गुर्वाज्ञाग्रहणोद्यतः ॥ व्रतम्-उपवासः, तपस्तु-इन्द्रियदमनम् । व्रतेषु निराहारत्वं - न केषाञ्चित्पदार्थानां फलादीनां वाऽऽहारः ।
१७
Page #26
--------------------------------------------------------------------------
________________
उक्तं च
असकृज्जलपानाच्च सकृत्ताम्बूलभक्षणात् । उपवास: प्रणष्टः स्याद् दिवास्वापाच्च मैथुनात् ॥
अतो जलमपि एकवारमेव ग्राह्यं न तु पुनः पुनः । तर्हीतरेषां फलादिपदार्थानामाहारात् तद् व्रतं नश्यति इति सिद्धम् । तस्मात् सकलाहारं त्यक्त्वा व्रतं परिपूर्णं भवति । एतादृशमपि न, किन्तु सकलेन्द्रियाणामाहारस्त्याज्यः । तद्यथा -
नेत्राभ्यां व्यवहारविषयं न पश्येत्, श्रोत्राभ्यां व्यवहारवचनानि न श्रोतव्यानि, जिह्वया न व्यवहारवचनं(रसं) वदेत् (रसयेत्), हस्ताभ्यां तत्क्रियां न कुर्यात्, पद्भ्यां तद्देशं न गच्छेत्, मनसाऽपि तद्विचारं न कुर्यात् । कामक्रोधेर्ष्यापारुष्यासत्यपरहिंसापरद्रोहपरनिन्दात्मस्तुतिपरापवादपरस्त्रीनिरीक्षणपरद्रव्यस्तेयादिदोषान् मनसाऽपि न कुर्यात् ( चिन्तयेत् ) । परञ्च तत्तदिन्द्रियाणि जिनेश्वरे गुरौ शास्त्रे वा नियोजयेत् । विशेषतो मौनमेव धार्यम् । धर्मविधावेव वक्तव्यं न त्वन्यत्र, मनोऽपि जिनेष्वेव नियोजयेत् न त्वन्यत्र । एवंविधव्रताचरणात् शरीरेन्द्रियादीनि शुद्धयन्ति । मनो निर्मलतां याति । तन्मनः परमात्मनि दृढीभवति । तदा तत्कर्तुः सर्वाणि पापानि नश्यन्ति । पुनः सत्कर्माणि सद्विचाराँश्च कृत्वा शास्त्रोक्तमार्गेण मोक्षं प्राप्नोति इति शम् ॥
१८
Page #27
--------------------------------------------------------------------------
________________
पत्रम्
पत्रम्
-मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु ! अत्र सर्वेऽपि कुशलाः सन्ति । तव कुशलं कामये ।
कर्णावतीनगरतो विहृत्य चातुर्मास्यार्थं 'नवसारीनगरं' वयमागताः स्मः । अस्य प्रदेशस्य प्राकृतिकसौन्दर्यमतीव सुन्दरमस्ति । सर्वतो वनराजिर्दरीदृश्यते । ततो ग्रीष्मकालेऽपि सुखमनुभूयते ।
बन्धो ! मनस्येकः प्रश्नोऽहनिशं भवति - प्रसन्नतायाः क आधारः ? इति ।
सर्वेऽपि जनाः प्रसन्ना आनन्दिताश्च स्युर्न वा ? इति प्रश्नोऽस्त्येव तथाऽपि सुखिनः सन्ति, इति मनसिकृत्य चिन्तनं करणीयमस्ति-आनन्दस्य प्रसन्नतायाश्चाऽऽधारः कः? __भौतिकसुखं पौगलिकसुखं वा ? उत धर्मबुद्धिः ? ।
अस्माकं प्रसन्नताया आधारोऽस्ति - भौतिकसुखं पुद्गलजन्यसुखं च । यत्सुखं पुद्गलजन्यं तत्तु क्षणिकं नश्वरं चैवाऽस्ति । यतः पुद्गलश्चयापचयस्वभावोऽस्ति । तर्हि कथं प्रसन्नता प्राप्यते ? ... त्वया घटिका दृष्टा । मनसि तां ग्रहीतुमिच्छा सञ्जाता । तव समीपे धनं नाऽऽसीत् । भाग्यबलेन धनं प्राप्तं त्वया । तत्क्षणं मनोऽभीप्सिता घटिका क्रीता । घटिकां गृहमानीतवान् । मनसि प्रसन्नता संतोषश्चाऽजनि । गृहसदस्या अपि प्रसन्ना जाताः । एकदा केनाऽपि सा घटिका विनष्टाऽपहृता वा, तदा किं स्यात् • मनसि सन्ताप उद्वेगो ग्लानिश्च भवति । तस्मै जनाय क्रुध्यसेऽपि त्वम् । एवं प्रसन्नताया आलम्बनमासीत् सा घटिका । यदा त्वया घटिका संप्राप्ता तदा प्रसन्नताऽवाप्ता, किन्तु यदा घटिका विनष्टा तदाऽचाप्ता प्रसन्नताऽपि विनष्टा । एतेन ज्ञायते प्रसन्नताया मूलमस्ति भौतिकसुखं पुद्गलजन्यसुखं चाऽस्मदृष्ट्या । धर्मदृष्ट्या तु प्रसन्नताया आधारोऽस्ति - धर्मबुद्धिः । एतादृशो जनो न कदाऽपि ग्लानः सन्तप्तश्च भवति ।
१९
Page #28
--------------------------------------------------------------------------
________________
जीवने या काऽपि प्रतिकूलता विपत्तिश्चाऽऽगच्छेत्, अनेकानि रूप्यकाणि विनष्टानि स्युः, परिवारजना द्रोहं कुर्युः, पुत्रोऽवमाननं कुर्यात्, तथाऽपि स्वकीयप्रसन्नताम्, आत्मीयानन्दं च यो न त्यजेत् स एव धर्मी ज्ञेयः । तस्य जीवने धर्मः परिणत इत्यनुभूयते । एतेषां जीवानां प्रसन्नताया आधारोऽस्ति धर्मबुद्धिः । धर्मी स एव य उद्विग्नो न भवेत् ।
धर्मी स एव य कुविकल्पादिकं न कुर्यात् ।
धर्मी तु सदा स्वस्थः प्रसन्नश्चैव भवेत् । यतस्स तु जानात्येव यत् सुखदुःखं तु चक्रवद् भ्राम्यति । अद्य दुःखमस्ति श्वः सुखमपि प्राप्येत, अद्य सुखमस्ति कालान्तरे दुःखमपि अनुभूयेत । ततः कथमुद्वेगः सन्तापश्च करणीयः ? प्रसन्नतैव सदाऽऽसेवनीया मयेति ।
प्राचीना कथाsस्ति । प्रजापालराजस्य पुत्री मयणासुन्दरी आसीत् । तया धर्मचर्चायां पितुः समक्षं कर्मसिद्धान्तः प्ररूपितः । पिताऽकथयत् - ममेच्छानुसारमेव सर्वमपि भवति । अहमिच्छामि यत् तदेव भवेत् कर्तव्यं चाऽपि । मया वाच भवतः सिद्धान्तो नोचितः । कर्म एव प्रधानम् । ततो जनकोऽति क्रुद्धो जातः । क्रोधाविष्टेन तेन राज्ञा स्वपुत्र्या मयणासुन्दर्या विवाहो जातकुष्ठरोगेण श्रीपालेन सह कृतः । किमप्यदत्त्वा गृहाद् निष्कासिता सा । समस्ते राज्ये हाहाकार: कोलाहलश्च सञ्जातः । सर्वेषामपि प्रजाजनानां चित्तेऽत्युद्वेगोऽजनि । सर्वेऽपि प्रजाजना आक्रन्दं कुर्वन्ति स्म ।
तथाऽपि सा तु श्रीपालेन सह सानन्दं निरगच्छत् । मनसि न क्लेशो नोद्वेगो न च रोषोऽस्ति केवलं प्रसन्नतैव प्रवर्तते । अत्र तस्याश्चित्ते धृष्टता निष्ठुरता च नाऽऽसीत्, किन्तु धर्मबुद्धिरासीत्, तत एवैतादृश्यां परिस्थित्यामपि प्रसन्नता संरक्षिता तया ।
-
चेतन ! त्वं चिन्तय । एका राजकन्याऽऽसीत् । तज्जीवने सुखस्य महोदधिः सदोच्छलन्नासीत् । किं नाम दुःखमित्यपि न श्रुतं तया । अद्यावधि सा यत्किमपि अभिलषति स्म तत्सर्वं क्षणमात्रेण प्राप्तुं समर्थाऽऽसीत् । आजीवनं याभिः सखीभिः सह व्यवहृतं ताः सख्योऽप्यद्य नाऽवदन् न चाऽहसन् । एवं कियद्दुःखमवमाननं च सोढं तया ? तथाऽपि तया स्वकीयप्रसन्नता स्वस्थता च विनाशिता नैव । तया सदैव प्रसन्नताया एव शरणं स्वीकृतं न चोद्विग्नतायाः शरणमुररीकृतम् ।
एषा धर्मबुद्धिरुच्यते । एतया धर्मबुद्धयैवाऽऽत्मकल्याणं भवति ।
भो ! जिनेश्वरस्य पूजाया आराधनायाश्च फलमस्ति मनःप्रसन्नता । उक्तं च मनः प्रसन्नतामेति पूज्यमाने जिनेश्वरे ।
मनःप्रसन्नतया एव समाधिः प्राप्यते, ततो निर्वाणमवाप्यते । एवं मनः प्रसन्नता श्रेष्ठधर्मस्य मोक्षमार्गस्य च कारणरूपा भवति ।
अभ्यर्चनादर्हतां मनः प्रसादस्ततः समाधिश्च । तस्मादपि निःश्रेयस - मतो हि तत्पूजनं न्याय्यम् ॥
२०
-
(-तत्त्वार्थकारिकायाम्)
Page #29
--------------------------------------------------------------------------
________________
बन्धो ! प्रतिकूलताऽऽपत्तिश्च परीक्षाऽस्ति । एतस्यां परिस्थित्यामेव प्रसन्नता स्वस्थता च रक्षणीया । शालायां पठन् बालको मासत्रयपर्यन्तं न पठति, केवलं क्रीडनमटनं च करोति, यदा परीक्षाऽऽगच्छेत्तदा स विचलितो भवति । एतादृश्येव स्थितिरस्माकमस्ति । यदा सर्वमप्यनुकूलं स्यात्, सुष्ठु सुष्ठु स्यात् तदा तु प्रसन्नाः सुखिनश्च भवेम । किन्तु यदा विपत्तिरापतेत् तदा तत्क्षणमेव वयं सर्वेऽपि विचलिता भवेम ।
त्वया व्यवसायस्य प्रारम्भः कृतः । तस्मिन् काले किञ्चिद्धनमासीत्, गच्छता कालेन व्यवसाये सफलता प्राप्ता त्वया, ततो बहूनि रूप्यकाणि संप्राप्तानि । एकदा व्यवसाये काचिद् हानिर्जाता, तदा चित्ते ग्लानिर्भवेत्, किन्तु पूर्वं किमपि नाऽऽसीत्, अद्य सर्वमप्यस्ति तथाऽपि अल्पहानौ मानसं व्यथितं भवति । एतन्नोचितमस्ति । पुद्गलजन्यसुखदुःखेन स्वस्थता प्रसन्नता च कथं विनाश्येत ?
सुखे हर्षस्य नाऽतिरेकः दुःखे च नोद्वेगः इत्येषा प्रसन्नता कथ्यते ।
महाभारतस्यैकः प्रसङ्गः स्मर्यते ।
दुर्योधनेन पाण्डवान् दुःखीकर्तुं बहवः प्रयत्नाः कृताः । तथाऽपि भाग्ययोगेन दुर्योधनरचितकपटाद् विमुक्ता भवन्ति स्म ते । प्रान्ते दुर्योधनेन शकुनिमातुलेन सह विमर्श: कृत: । तत्पश्चात् पाण्डवा द्यूतक्रीडनार्थं दुर्योधनेनाऽऽमन्त्रिताः । कपटनिपुणशकुनिमातुलसाहाय्येन दुर्योधनो विजयं प्राप्तवान् । पाण्डवाः पराजिता जाता: । संपत्ति: राज्यं द्रौपदी चेति सर्वमपि द्यूतक्रीडने युधिष्ठिरेण विनाशितम् । कुन्ताजनन्या द्रौपद्या च सह पञ्चाऽपि पाण्डवा वने गतवन्तः । तस्मिन् काले धृतराष्ट्रो विदुरः सञ्जयश्चेत्यादयः सर्वे युधिष्ठिरं कथयन्ति स्म - धर्मराज ! भवन्तः सर्वेऽपि प्रतिनिवृत्ता भवन्तु । किन्तु युधिष्ठिरेण तु सधैर्यं सानन्दं च सर्वमपि त्यक्तं, क्षणमात्रमपि ग्लानिर्नाऽनुभूता । एतन्नाम सत्त्वम् । एष एव परमो धर्मोऽस्ति । प्रतिकूलता विपत्तिश्चाऽपि स्वस्थभावेन प्रसन्नतया च स्वीकरणीया |
चेतन ! एतादृशो धर्मो यस्य जीवने परिणतोऽस्ति स न कदाऽपि बाह्यद्धि-सिद्धिमिच्छेत्, किन्तु एतत् सर्वमपि तुच्छं मन्यते । अत्र भौतिकर्द्धि-सिद्धिस्त्यजनीया, इति नैवोक्तं, किन्तु तदुपभोगकालेऽपि मनसि राग आदरश्च न करणीय इत्युक्तं च । परिणतधर्मः स जीवः संसारसुखे भौतिकसुखे च नाऽऽसक्तो भवति ।
देवेन्द्राः परमसुखभाजः सन्ति । सदाऽवर्णनीयसुखोदधिनिमग्ना भवन्ति । पञ्चानामपि विषयाणां सर्वमपि सुखमुपभोक्तुं समर्थाः सन्ति । तथाऽपि ते देवेन्द्रा यदा मेरुगिरौ तीर्थकरजन्माभिषेककाले स्नात्रमहोत्सवं विधातुं गच्छन्ति तदा ते देवसुखमपि तृणवन्मन्यन्ते । एवं धर्मपरिणता जीवाः बाह्यद्धिसिद्धि तुच्छां क्षणिकां च मत्वा त्यजन्ति ।
अन्ते, जीवनं नाम संघर्ष: । प्रतिक्षणं संघर्ष आगच्छत्येव । तस्मिन् काले धर्मबुद्धिमग्रेकृत्य व्यवहारः करणीयः, येन जीवनं सदा शान्तिमयं प्रसन्नतायुतं च व्यत्येति । इत शम् ।
२१
Page #30
--------------------------------------------------------------------------
________________
बृहद्विद्वद्गोष्ठी
सङ्कलनम् - उपाध्यायश्रीयतीन्द्रविजयः
अथैकदा धारानगरीपति-भोजनृपतिः स्वसभीयशृङ्गारभूताखिलशास्त्रविचारविचक्षणां विपश्चित्पञ्चशतीमिमां पृच्छामपृच्छत् – यत्संसारे ये निर्गुणा नरास्ते कीदृशो ज्ञेयाः ? अथ तेषु विद्वच्छिरोमणिस्तिलकमञ्जर्याद्यनेकसंस्कृतप्राकृतग्रन्थप्रणेता धनपालनामा पण्डितो व्याहरत् -
येषां न विद्या न तपो न दानं, न चाऽपि शीलं न गुणो न धर्मः।
ते मर्त्यलोके भुवि भारभूता, मनुष्यरूपेण मृगाश्चरन्ति ॥ __ अर्थात् - ये जना अस्यां जगत्यां जन्म धृत्वा न विद्यामधीयते, न तपस्तपस्यन्ति, न हीनदीनदुःखिजनानां साहाय्यं प्रददते, स्वाचारं न पालयन्ति, वीर्यरक्षां न विदधते, सहनशीलत्वादिगुणान्न दधते, निजधर्मे च न रमन्ते; ते खलु मनुष्याकारा मृगा एव बोध्याः । यथा हि मृगो घासादि घसित्वा स्वजीवनं निर्वहते, तथैव निर्गुणः पुमान् खादित्वा पीत्वा चाऽमूल्यं दुष्प्राप्यञ्च स्वजीवनं व्यर्थमेव गमयतीति । अथाऽस्य विदुषो वाचमाकाऽन्यः कश्चिद्विपश्चिन्मृगपक्षमाश्रित्याभ्यधात् – यदवाच्यं किल सर्वथा सभायां नीतिविरुद्धं वचः । निर्गुणिनो नरस्य मृगसादृश्यमिति स्वल्पशेमुषीणामेव कथनम् । यतो मृगेष्वपि भवन्ति भूयांसः प्रशस्या गुणाः । तथाहि -
स्वरे शीर्षं जने मांसं, त्वचं च ब्रह्मचारिणि ।
शृङ्गं योगीश्वरे दद्यां, मृतः स्त्रीषु सुलोचने ॥ मृगा एव सुगायनश्रावयितृभ्यो नृभ्यो निजशिरः, मांसादेभ्यो मांस, वर्णिभ्योऽजिनं, योगिभ्यः शृङ्गं ददति, किं बहुना, तच्चक्षुभिरेव स्त्रिय उपमीयन्तेऽत एव ता मृगाक्ष्योऽभिधीयन्ते । तथा मृगाणां कस्तूरिका सुकार्येषु समायाति, बलपुष्टये चाऽतीव साहाय्यं विधत्ते । अत एव बहूपदेशका व्याचक्षते चैवम् –
दुर्वाङ्कुरतृणाहारा, धन्यास्ते वै वने मृगाः ।
विभवोन्मत्तमूर्खाणां, न पश्यन्ति मुखानि ये ॥ अतो न मृगतुल्या निर्गुणिनो नराः ।
२२
Page #31
--------------------------------------------------------------------------
________________
अथ धनपालपण्डितो विमृश्यैवमाह - यद्येवं तर्हि निर्गुणिनो जनाः 'मनुष्यरूपाः पशवश्चरन्ति' इत्येवं वाच्याः । अथाऽन्यो विद्वानुवाच – एतदप्यनुचितं, नैतच्छोभते सभ्यसभायां नीतिरिक्तं भवद्वचः । अस्यां संसृतौ नहि पशुमन्तरा किमपि कार्यं भवितुमर्हति, तच्छरीरावयवादिभिरेव बहूनि कार्याणि सम्पाद्यन्ते । पशव एव सर्वेषां जनानां परमोपकारकारणं जीवनञ्च । तेषां शरीरावयवा न निरर्थकाः, किञ्च सार्थका एव । तथाहि -
कस्तूरी पृषतां रदाः करटिनां कृत्तिः पशूनां पयो, धेनूनां छदमण्डलानि शिखिनां रोमाण्यवीनामपि । पुच्छ-स्नायु-वसा-विषाण-नखर-श्वेदादिकं किञ्च न,
स्यात्कस्याऽप्युपकारशून्यवपुषो मानुष्यकं भोः ! पुनः ॥ पशुषु गोपक्षमाश्रित्य -
तृणमत्ति राति दुग्धं, छगणं च गृहस्य मण्डनं ।
रोगापहारि मूत्रं, पुच्छं कोटिदेवतास्थानम् ॥ गोश्च दर्शनमपि मङ्गलास्पदम् । संसारे प्रायो यावन्ति शुभकार्याणि, तेषु गोदधिदुग्धसींषि सर्वोत्कृष्टानि बलबुद्धिवर्द्धकानि च भवन्ति । गोमूत्रमप्यनेकरोगापहारि, अशुचिविनाशकञ्च । गोमूत्रे कर्पासमार्दीकृत्य क्षेत्रे संवपेञ्चेन्न कदापि निष्फलं याति, न च कथञ्चन शटति । अतोऽयं सर्वपशुभ्यः श्रेष्ठतम इति । वृषभमपि -
गुरुशकटधुरन्धरस्तृणाशी, समविषमेषु च लाङ्गलापकर्षी ।
जगदुपकरणं पवित्रयोनिर्नरपशुना किमु मीयते गवेन्द्रः ॥ अतो निर्गुणिनो नुर्न पशोस्तुल्यत्वम् ।
अथाऽयं धनपालो विद्वान् पशुगुणान् श्रावं श्रावं बभाषे – यद् वस्तुसारासारबोधविचारशून्या निर्गुणाः पुमांसः 'मनुष्यरूपेण शुनः स्वरूपाः' इत्येवं विज्ञेयाः । ततः पुनः प्रतिपादी श्वपक्षमाश्रित्याऽऽह -
स्वामिभक्तः सुचैतन्यः, स्वल्पनिद्रः सदोद्यमी।
स्वल्पसन्तोषो वाक्शूरः, तस्मात्तत्तुल्यता कथम् ॥ सारमेया हि येषां दानशून्यौ करौ, धर्मवचनश्रवणशून्ये श्रुती, असत्योद्गारापवित्रमास्यम्, साधुदृष्टिशून्ये दृष्टी, तीर्थमार्गरजःशून्यावङ्घी, अन्यायोपार्जितवित्तपूर्णमशुचिकमुदरम्, तेषां पिशितमपि नाऽदन्ति । तथा ते शुभाशुभसूचकान्यङ्कान्यपि कुर्वते, इत्यादयः श्वस्वपि बहवो गुणाः । अथ धनपालो निर्गुर्णानरान् ‘मनुष्यरूपेण खराश्चरन्ति' इत्याह । ततः प्रतिपक्षी खरं पक्षीकृत्याऽवक्
शीतोष्णं नैव जानाति, भारं सर्वं दधाति च । तृणभक्षणसन्तुष्टः, प्रत्यहं भद्रकाकृतिः ॥
२३
Page #32
--------------------------------------------------------------------------
________________
किञ्च यात्रादिकार्येषु खरध्वनिर्मङ्गलहेतुः । यः कश्चन पुमान् तद्ध्वनिशकुनं विमृश्य कार्यं विधत्ते, स स्वकार्ये साफल्यं लभतेऽतो निर्गुणिनो नैव रासभतुलना ।
श्रुत्वैवं धनपालोऽपि निर्गुणान् ‘मनुष्यरूपेण भवन्ति चोष्ट्राः' इत्यवादीत् । प्रतिवादी उष्ट्र मण्डयन्नाह -
वपुर्विषमसंस्थानं, कर्णज्वरकरो रवः । करभस्याऽऽशुगत्यैव, छादिता दोषसंहतिः ॥ एकस्यां घटिकायां, योजनगामी सदा नृपतिमान्यः ।
भारोद्वहनसमर्थः, कथं समो निर्गुणैः सार्धम् ॥ किञ्च जगति शीघ्रगमनमप्युत्तमो गुणः । यो हि गमनालसस्तस्य कार्यमपि शिथिलम् । यद्यपि सर्वत्र सवैरेव चलनैः कार्य क्रियते, तथाऽपि प्रतिकार्येषु भूरिशः शीघ्रगमनस्यैवाऽऽवश्यकत्वम् । किञ्चोष्ट्रोऽत्तुमपि स्वामिनं न बहु पीडयति, सामान्येनैव भोजनेन सन्तुष्यति । निर्गुणिनो नरादुष्ट्रा लक्षतोऽधिकाः ।
अथ धनपालो गुणरिक्तान् ‘मनुष्यरूपेण भवन्ति काकाः' इत्यगादीत् । प्रतिवादी काकमपि मण्डयन्नाह
प्रियं दूरगतं गेहे, प्राप्तं जानाति तत्क्षणात् ।
न विश्वसिति कञ्चाऽपि, काले चापल्यकारकः ॥ काचन युवतिरेकं काकं जाम्बूनदपञ्जरे प्रक्षिप्य निजगृहाङ्गणस्थद्रौ प्रोच्चिक्षेप । अथ कदाचित्तस्याः सखी पर्यपृच्छत् - यल्लोके शुकसारिकादिपक्षिणस्तु बहवो जनाः परिपालयन्ति, किन्तु न कोऽपि काकं, नहि क्षुद्रपक्षिभिः गृहशोभा । अथो युवतिः समुत्ततार -
अत्रस्थः सखि ! लक्षयोजनगतस्याऽपि प्रियस्याऽऽगमे, वेत्त्याख्याति च धिक् शुकादय इमे सर्वे पठन्तः शठाः । मत्कान्तस्य वियोगरूपदहनज्वालावलेश्चन्दनं,
काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ अर्थात् - अयं काको लक्षयोजनगतस्याऽपि मम भर्तुरागमनं जानाति, आख्याति च । अतः शुकादीन् धिक्, यतोऽमी शुकादयः पठनचतुरा न तु प्रियवार्ताख्यानकाः । अयं काको मम भर्तुर्वियोगाग्निज्वालायै चन्दनसमः, यथा घर्मार्तं पुरुषं चन्दनं स्वशैत्येन शीतयति, तथैवाऽयं काको मद्भर्तृवियोगाग्निजायमानबहुशोकदुखार्ती मां भर्तृशुभाख्यानकेन शीतलीकुरुते । अत एव कारणान्मयाऽसौ काकः स्वर्णमये पञ्जरे क्षिप्त इति ।
Page #33
--------------------------------------------------------------------------
________________
अथ धनपालो विज्ञतमः पुनरपि निर्गुणान् 'मनुष्यरूपेण हि ताम्रचूडा:' इत्यभिधत्ते स्म । प्रतिक्ष तानपि प्रशंसयन्नाह – नैतदपि भवत्कथनं रुचिकरम्, यतस्तेऽपि सूपदेशकार्यं कुर्वते, ते पश्चिमायां रात्रौ द्विद्विचतुश्चतुर्घटिकानन्तरं स्वग्रीवामुच्चैः कुर्वाणा वदन्ति -
-
संसारे बहुरोगशोकजनके सारे महानर्थदे, तिर्यक्त्वामरनारकादिगतिषु श्रेष्ठं तथा दुर्लभम् ।
भो लोकाः ! सुकृतोद्यता भवत वो लब्धं भवं मानुषं, मोहान्धाः प्रसरत्प्रमादवशतो माऽऽहार्य मा हार्यताम् ॥
किञ्च ताम्रचूडवचनं चाऽऽकर्ण्य केचन भगवद्ध्यानलीनाः केचन निजविद्याभ्यासलीनाः केचित्प्रभुभजनलीना निजं निजं मानुषं जनुः सार्थयन्ति । अत एवाऽस्मिन् जगति ताम्रचूडोऽप्युपदेशकः । सोऽहर्निशं मनुजान् चेतयति - यद् भो लोकाः ! आलस्यं त्यक्त्वा सदोद्यमिनो भवत, प्राप्तकालञ्च सफलयत । ये पुमांसः प्राप्ताऽवसरं समुपेक्षन्ते, तेतून्नतेरुच्चसिंहासने स्थातुमनर्हा एव । गते चाऽवसरे ते राज्ञीवत् पश्चात्तापभाजो भवन्तीति न सन्देहः । तथाहि -
1
अथाऽऽसीत् कस्यचिद्राज्ञः षष्ट्यधिकस्त्रीशतत्रयी । ततो राजा देशान्तरं गत्वा यस्मिंश्च दिने प्रतिनिवृत्य गृहमागमत्, तद्दिने सर्वपाश्चात्याया राज्ञ्या वार आसीत् । अतः स्वदासीः संबोध्य साऽचकथत् - यदहं शये, यदा हि राजाऽऽगच्छेत्तदा त्वं मां जागरयेः । अथ यदा नृपतिराजगाम तदा ता दास्यो भयं लात्वा तां राज्ञीं नाऽजागरयन् । राजा तु जगाम, राज्ञी चोत्थायाऽपृच्छत् किं राजा समाजगाम ? ताश्च प्रोचुः 'ओम्', किञ्च, वयं सभया भवन्तीं नाऽजागरयाम । सा तु राज्ञी बहु रुरोद पश्चात्तताप च ।
-
इत्थमेव ये प्राप्तसमयं गमयन्ति, ते पश्चात्तापभाजो भवन्ति । ये दुर्लभं मनुष्यजन्म लब्ध्वा धर्मं विनैव भवं गमयन्ति, ते चतुरशीतिलक्षयोनिषु भ्राम्यन्तोऽपि नैतादृशमवसरं लभन्ते । अतः सर्वोपाधिं त्यक्त्वा मुख्यत्वेन धर्म एव कर्त्तव्यः, क्षणमात्रमपि निष्फलं न गमयितव्यमित्येव पुंसो मुख्यं कर्म धर्मश्च । अतो न निर्गुणानां ताम्रचूडसाम्यम् ।
I
अथ कश्चिदवसरज्ञो विपश्चिदुपर्युक्तमनुमोदयन्नाह - यद् सत्यमेव विदुषो वचः । यत 'आहारनिद्राभयमैथुनञ्च, सामान्यमेतत्पशुपक्षिनृणाम्' । किञ्च मनुष्यापेक्षयाऽपि पशुपक्षिणश्चेताः क्रियाः समर्यादं सावधानतया समाचरन्तीति । तथाहि - तेऽखाद्यं न खादन्ति, अपेयं न पिबन्ति, स्वल्पनिद्रालवो भवन्ति, भयजनकगहनारण्येष्वपि निर्भयाः समयं व्यत्ययन्ते, अखिलवर्षे च द्वित्रिचतुर्वारमेव कामं कामयन्ते । अत एव तेषु सुस्वास्थ्यं नानाविधप्रशस्यगुणाश्चोत्पद्यन्ते । अतः पशुपक्षिणोऽपि संसारे गुणिनश्चोपकारकाश्च वर्त्तन्ते । इदं च पूर्वोक्तसंवाद एव सम्यक् सूचयति । अतो मनुष्यैः स्वमनुष्यत्वसम्पादनाय पशुपक्षिभ्योऽपीमे अवश्यं शिक्ष्या एव । यथा -
२५
Page #34
--------------------------------------------------------------------------
________________
प्रभूतमल्पकार्यं वा, यो नरः कर्तुमिच्छति । सर्वारम्भेण तत्कुर्यात्, सिंहादेकं प्रकीर्तितम् ॥ सर्वेन्द्रियाणि संयम्य, बकवत्पतितो जनः । कालदेशोपपन्नानि, सर्वकार्याणि साधयेत् ॥ बह्वाशी स्वल्पसन्तुष्टः, सुनिद्रः शीघ्रचेतनः । प्रभुभक्तश्च शूरश्च, ज्ञातव्या षट् शुनो गुणाः ॥ अविश्रामं वहेद्भारं, शीतोष्णं च न विन्दति । ससन्तोषस्तथा नित्यं, त्रीणि शिक्षेत गर्दभात् ॥ गूढमैथुनधाष्टर्ये च, काले चाऽऽलयसंग्रहम् । अप्रमादमनालस्यं, पञ्च शिक्षेच्च वायसात् ॥ युद्धं च प्रातरुत्थानं, भोजनं सह बन्धुभिः । स्त्रियमापद्गतां रक्षेच्चतुः शिक्षेत कुक्कुटात् ॥
अथ पुनरपि धनपालेनाऽवाचि – यद्येवं तर्हि 'मनुष्यरूपाः खलु मक्षिकाः स्युः' इत्येव स्वीक्रियताम् । श्रुत्वैवं वादिनापि मक्षिकापक्षमाश्रित्याऽभ्यधायि -
सर्वेषां हस्तयुक्त्यैव; जनानां बोधयत्यसौ ।
ये धर्मं नो करिष्यन्ति, घर्षयिष्यन्ति ते करौ ॥ किञ्च मनुष्या निर्गुणा उपकारशून्या, मक्षिकास्तु सर्वेषामुपकारकर्व्यः । तदीयमधुनोऽमृतवन्माधुर्यम् । तच्च रोगं विनाशयति, बलञ्च वर्द्धयति । मक्षिका अपि स्वहस्तघर्षणयुक्त्यैव जनान् बोधयन्ति - यद् ये पुमांसो लक्ष्मी केवलं सञ्चयन्त्येव, न परोपकाराय न च स्वभोगाय व्ययीकुर्वते, ते चाऽन्तकाले वयमिव हस्तौ घर्षयन्त एवाऽस्माद् भवाद् मृत्वा भवान्तरेऽपि रिक्तहस्ता एवाऽवशिष्यन्ते । अतः कृपणा मा भूत, यत्किमपि लब्धं तत् परोपकराय निजभोगाय च व्ययीकुरुत, सद्गुणोपार्जनाय च सोद्यमा भवत । यतश्चैकेकगुणमन्तराऽपि पुमान् सर्वत्राऽनादरदृष्टयैव विलोक्यते । तथा चोक्तम् -
राजा धर्मविना द्विजः शुचिविना ज्ञानं विना योगिनः, कान्ता सत्यविना हयो गतिविना भूषा च ज्योतिर्विना । योद्धा शौर्यविना तपो व्रतविना छन्दोविना गायनं,
भ्राता स्नेहविना नरो विभुविना शीघ्रं बुधैस्त्यज्यते ॥ अतो भो जनाः ! इदं सम्यक्तया निबोधत - यद् शरीरेण सह रोगः, सम्पत्त्या विपत्तिः, जन्मना मृत्युः, संयोगेन वियोगः, सुखेन दुःखम्, तारुण्येन च वार्धक्यम्ः, इत्थं संसारे विविधा विनाशकारका हेतवो विद्यन्ते । एवंभूतायां दशायां यत्किमपि साधु कार्यं करिष्यथ, तदेव सार्धमायास्यतीति निश्चयः । अतो न गुणहीनाः पुरुषा मक्षिकासमानाः ।
अथ पुनरपि पण्डितो बभाण – यद्येवं तर्हि 'मनुष्यरूपेण भवन्ति वृक्षाः' इत्यवगन्तव्यम् । वादी तु तदपि मण्डयन्नाह -
छायां कुर्वन्ति ते लोके, ददते फलपुष्पकम् । पक्षिणां च सदाऽऽधाराः, गृहादीनां च हेतवः ॥
२६
Page #35
--------------------------------------------------------------------------
________________
__ किञ्च वृक्षा उष्णकालीनभयङ्करतापं, चातुर्मास्ये भूमिबाष्पजलधाराप्रादुर्भूतदुःसहवेदनां, वने सर्वत्र प्रसृतदावानलपीडां, छेदनभेदनताडनादिदुःखं सहित्वाऽपि परेभ्यः सुस्वादुमिष्टानि फलानि प्रददते । पृथक् पृथक् रोगोपशान्तये यावन्तो वृक्षाणामवयवा हितकृतः, न तावन्तोऽन्येषाम् । सञ्जीविनी-कुष्ठविनाशिनीप्रभृतिगुटिका वृक्षजात्यैव निर्मीयन्ते । उत्तमोत्तमवाद्यानामानन्दो वृक्षैरेव बोभवीति । अतो गुणहीनाः कथं वृक्षवन्मान्याः ?
अथ पुनरपि धनपालो गुणविहीनान् ‘मनुष्यरूपेण तृणोपमानाः' इति व्याजहार । प्रतिपक्ष्यपि तृणं पक्षीकृत्याऽभणत् -
गवि दुग्धं रणे ग्रीष्मे, वर्षाहेमन्तयोरपि ।
नृणां त्राणं तृणादेव, तत्समत्वं कथं भवेत् ? ॥ किंच संसारे सर्वानेव प्राणिनस्तृणान्येव गोपायन्तीति निश्चयः, यद्येकस्मिन्नेवाऽब्दे तृणानि न प्रादुर्भवेयुस्तसंख्याः प्राणिनो म्रियेरन् । देवायतनादिनिर्माणक्रियादिकं सर्वं तृणसाहाय्येनैव जायते । यदि तृणानि न भवेयुस्तहि सुधामयं मधुरं पयोदध्यादिकं कुतो लभ्येत ? किं बहुना? तृणं विना संसारे किमपि कार्यं न सिध्यति । अत एव -
तृणं चाऽहं वरं मन्ये, नरादनुपकारिणः ।
घासो भूत्वा पशून् पाति, भीरुन् पाति रणाङ्गणे ॥ ततो भूयोऽपि धनपालो विद्वान् ‘सुलेखनीवाऽगुणिनो नराः स्युः' इत्यवादीत् । प्रतिवादी लेखनीमपि सम्यक्तया मण्डयन्नाह -
सत्पात्रे साधुदानं रिपुजनसुहृदां चोपकारं कुरुध्वं, सौजन्यं बन्धुवर्गे निजहितमुचितं स्वामिकार्यं यथार्थम् । श्रोत्रे ते कथ्यमेतत्कथयति सततं लेखनी भाग्यशालिन् !,
नो चेन्नष्टाधिकारे मम मुखसदृशं तावकास्यं भवेद्धि ॥ अतोऽस्मिन् संसारे लेखन्यपि महदुपकारकं वस्तु, या पत्रादिलेखनादिकार्येषु साहाय्यकी भूत्वा बहुविधं लाभं विदधाति, बहुमानञ्च रक्षति । एतावदेव नहि किन्तु, जगति नैतादृशं किमपि कार्यं विद्यते यत्तां लेखनीमन्तरैव भवेत् । अतो निर्गुणिनो नराः कथं लेखनीतुल्या? इति।
ततो धनपालेन विदुषा प्रोक्तं यत् 'रक्षासमानाः किल ते मनुष्याः' इति । वादी रक्षामपि मण्डयन्नाऽऽह - तस्यामपि बहवो गुणास्तथाहि -
मूडकमध्ये क्षिप्ता, करोम्यहं सकलधान्यरक्षाम् । द्राङ्मां वन्दते मनुजो, मुखशुद्धिकरी सुगन्धाढ्याम् ॥
२७
Page #36
--------------------------------------------------------------------------
________________
इयं हि रक्षा संसारे नहि निरुपयोगिनी, यतः सहस्रशः स्त्रीपुरुषैर्भोजनान्ते स्वोच्छिष्टपात्राणि रक्षयैव शुद्धीक्रियन्ते । प्रभुभक्तिलीना विरक्तयोगिनो स्वाङ्गेषु रक्षाधारणयैव महायोगिनो निगद्यन्ते । तेषां धूनिकासु रक्षैव पवित्रभूता मन्यते । संसारवासिनां जीवानां जीवनभूतधान्यादिसुरक्षणं रक्षैव विदधाति । मृत्पात्राणि च प्रायशो रक्षाया मेलनेनैव पौष्ट्यं दघते । अत एव नानागुणसंपन्नरक्षया सार्धं निर्गुणिनो नरस्य तुल्यत्वं सर्वथाऽयोग्यमिति। ततो धनपालः 'मनुष्यरूपेण हि धूलितुल्याः' इत्येव निरचैषीत् । प्रतिवादी धूलिमपि मण्डयन्नाऽऽह -
कारयन्ति शिशुक्रीडां, पङ्कनाशं च कुर्वते ।
रजस्तात्कालिके लेखे, क्षिप्तं क्षिप्रं फलप्रदम् ॥ इयं धूलिकापि संसारे न निर्रथिका, यतो बीजवपनोद्यानवापीकूपवप्रमठमन्दिरहर्म्यगृहादिकार्येषु विविधमृत्पात्रनिर्माणादिषु च धूलिकैव कार्यसाधिका । ये पुमांसोऽनाचारिणो दम्भिनः कुटिलाश्च भवन्ति, तेषामनादरकरणाय तदुपरि धूलिकैवोत्क्षिप्यते । अतो धूलिकाऽप्यनेकगुणसंपन्ना, किं च निर्गुणी पुमांस्तु सर्वतो न्यूनः, स च नहि धूलिकासमानोऽपीति ।
अथ धनपालो विद्वानगादीत् – यदेतावत्कालपर्यन्तं मया सर्वसाधारणजनतायै विशेषवस्तुनो गुणानां बोधायैवैतावान् विस्तृतो लम्बसंवादः । किं चाऽन्तेऽवश्यमिदं कथनीयं स्यात् - यन्नीतिकर्तृभिर्विद्वद्भिः संसारवासिनो जनाश्चतुर्धा विभक्ताः । तथाहि -
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये, सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निजन्ति ये,
ये निजन्ति निरर्थकं परहितं ते के ? न जानीमहे ॥ अर्थात् – स्वार्थमगणयित्वा ये परार्थं साधयन्ति, तेऽवश्यं सत्पुरुषा एव। ये स्वार्थेन सह परार्थं साधयन्ति ते मध्यमा बोध्याः । ये तु स्वार्थाय परार्थं विनाशयन्ति, तेऽधमा मनुष्यरूपा राक्षसा ज्ञेयाः । ये च वृथैव परार्थं विनाशयन्ति, 'ते के स्युः ?' इति वयं न जानीमहे ।
किञ्च वस्तुतो यैर्न विद्याऽधीता, न तपस्तप्तम्, न दानं दत्तम्, न सच्चारित्र्यमाप्तम्, न कोऽपि प्रशस्यो गुणोऽभ्यस्तः, न च धर्मोऽनुष्ठितस्ते निर्गुणिनो नराः संसारे स्वपरहानिकर्तार एव । अतो निर्गुणानां जनानां विषये नीतिज्ञाः 'ते के ? न जानीमहे' इत्येवमुक्त्वा विरेमुः । अतोऽयं संवादः सर्वान् सूचयति - यन्निर्गुणिने नराय संसृतौ न काप्युपमा, अतस्तेऽधमाधमा एव विज्ञेया इति । ___ अथ पुरुषैर्गुणोपार्जनाय सोत्साहकैर्भवितव्यमेव खलु । गुणाप्तिश्च सत्सङ्गमन्तरा नैव भवति । यतः सत्सङ्गत्यामनन्तगुणाः प्राप्यन्ते, दुर्जनसङ्गतौ च भूयसी हानिर्भवति । यथा -
Page #37
--------------------------------------------------------------------------
________________
ज्ञान बढ़े गुनवान की संगत, ध्यान बढ़े तपसी संग कीने, मोह बढ़े परिवार की संगत, लोभ बढ़े धन में चित्त दीने । क्रोध बढ़े नर - मूढ की संगत, काम बढ़े तिय के संग कीने, बुद्धि विवेक विचार बढ़े कवि दीन सुसज्जन-संगत कीने ॥
सत्सङ्गत्या च निर्गुणिनोऽपि राजवेश्यावत् सगुणा भवन्तीति । तथाहि - कदाचिदेको महात्मा तपस्वी क्लिन्नगात्रः पङ्कलितश्च कस्यचिद् हर्म्यतले गत्वा तस्थौ । तच्च भवनं राज्ञो वेश्याया आसीत् । अतिशैत्येन कम्पितगात्रं तं तपस्विनं प्रेक्ष्य काचन वेश्याचेटिका स्वस्वामिन्यै सर्वं वृत्तान्तमचकथत् । अथ वेश्याऽपि ‘गच्छ शीघ्रं तं तपस्विनं समानय ?' इत्युक्तवती । चेटिकापि शीघ्रमेव तं समानैषीत् । ततो वेश्या सादरं तं संस्नाप्य वासांसि च परिधाप्य सप्रेमाऽबूभुजत्, ततः स्वयमपि भुक्त्वा तदन्तिकमेत्य तं च पर्यङ्के शाययित्वा तत्पादावमीमृदत् । अवीवहच्चाऽथ महात्माऽप्येकदृष्ट्या तां विलोक्यैव तद्धृदये वैराग्यपीयूषधाराम् । स च सुष्वाप, सा तु रात्रौ तत्पादौ चम्पितवती । किञ्चाऽन्तिमनिशायां साऽशयिष्ट । स तपस्वी चोत्थाय चचाल । प्रत्यूषे चोत्थिता वेश्या निजदासीं 'महात्मा क्वाऽगमत् ?' इत्येवमप्राक्षीत् । तया चोत्तरितम् – ‘स तु गतः' इति । ततस्तदानीमेव सा वेश्या गृहान्निर्गत्य तपस्विनी भूत्वा नगराद्बहिः कस्यचिद् वृक्षस्याऽधो गत्वाऽस्थात् । नृपतिश्चेदं वृत्तान्तं शृण्वन्नेव तां समानेतुं कर्मकरान् प्रैषीत् । साऽवदत् - नाऽहमिदानीं 'भवद्गृहस्य गूथशोधिका' इति गदित्वा सा क्वाऽप्यन्यत्र विजहार । अतः सत्यं महात्मनां क्षणकालिक्यपि सङ्गतिर्महापापानि विनाशयति, कारयति च परमां समुन्नतिम् ।
I
अथाऽऽत्मोन्नतिरपि केवलं पवित्रमहत्त्वाकाङ्क्षादिभिरेव जायते । स एव मनुजो, योऽनवरतमुच्चविचारेषु परिभ्राम्यति । येषां हृदात्ममनस्सु सदा शुद्धाः स्वार्थशून्याश्च विचारा बोभुवति, निश्चितं ते मध्याह्नकालीनभानुवज्जाज्वल्यमानाः, पूर्णचन्द्र इव माधुर्यपीयूषपूर्णाः, ज्ञानवन्तः सदाचारिणश्च । ते तत्स्थानं लभन्ते, यतोऽस्मिन् संसारे बहुप्रतापशालिनं प्रकाशं प्रकाशयन्ति, शान्ति-सुधां चाऽपि वर्षन्ति । स्वार्थत्यागं विना न कथंचिदप्युन्नतेः प्राप्तिर्न चाऽपि साफल्यप्राप्तिर्भवितुमर्हति । मनुष्यस्य सांसारिकविषयेष्वपि तदनुसारेणैव साफल्यं भविष्यति, यदनुसारेण स स्वविषयविकारादिविचारान् संहरिष्यति, स्वमनश्च निजप्रयत्नोपायेषु स्थिरीकरिष्यति, स्वप्रतिज्ञातस्य च दाढर्यं प्रददानः स्वावलम्बी भविष्यतीति ।
यो निजविचारान् यावदेवोच्चैः करोति, तावदेवाऽधिकं मनुष्यत्वदृढत्वधर्मपरायणत्वादि प्राप्नोति, तस्य `च साफल्यमपि तावदेव श्लाघनीयं भवति । एवंभूतस्य श्रेष्ठमनुजस्योन्नतिश्चिरकालं स्थिरायते, स पुमानपि धन्यो बोभूयतेतरामिति ।
स्त्रिय एव संसारे गृहश्रियः, अपूर्वप्रेम्णो मूर्त्तयः, पुरुषमात्रस्य प्राथमिकाध्ययनशालाश्च । स्वबालकबालिकानामादर्शरूपविधानं, स्वसहचारिणां सदाचारित्वकरणं, स्वगृहोन्नतिरचणं, तस्य च स्वर्गसादृश्यविधानाद्यखिलकार्यभारः स्त्रीष्वेव, अत एव स्त्रीणामपि गुणार्थं तावत्येवाऽऽवश्यकता, यावती पुरुषाणां सद्गुणार्थम् । तथा याः स्त्रियो निर्लज्जाः, कलहप्रियाः, कटुभाषिण्यः, क्रोधवत्यः, स्नेहशून्याः, अलसा,
२९
Page #38
--------------------------------------------------------------------------
________________
वाचाला, अशिक्षिता, व्यभिचारिण्यश्च भवन्ति, ताः स्वस्य स्वसहचारिवर्गस्य च हानिकर्य एव । याश्च क्षमाशीलाः, पतिव्रताः, सुशिक्षिता, गृहदक्षा:, सलज्जाः, प्रेममूर्त्तयो, मितभाषिण्यः, सदाचारिण्यश्च भवन्ति, वस्तुतस्ता एव सुविद्यादेवीवत् स्वस्य परस्य च समुन्नतिकरणाय सौभाग्यवत्यः साहसिकाश्च भवन्तीति नाऽत्र सन्देहः । तथा हि
-
अथाऽऽसीत्कस्मिंश्चित् सुपत्तनेऽरिमर्दनो नाम नृपतिः सुविद्यादेवी नाम्नी च तस्य पट्टराज्ञी । साऽतीव चतुरा विदुषी गृहकार्यप्रबन्धादिषु महादक्षा च । अथ कदाचित् सा सुलग्ने सुमुहूर्ते पुत्रं प्रासूत । श्रुत्वैवं स मेदिनीजानिर्भूयांसो ज्योतिर्विदः समाहूय ग्रहादिविचारं कारितवान् । ते चाऽऽत्मजमतितेजस्विनं प्रतापिनमैश्चर्यवन्तं च व्याजहुः । स च भूपतिस्तेषां ज्योतिर्विदां तद्वचः समाकर्ण्य साश्चर्यो बभूव – 'किं सांप्रतं संसारे नाऽन्यस्योत्पादः स्यात् ?' अस्तु, स्वीयं मानसीयं विचारं संगोप्य स क्ष्मापो निजादेशकरान् समादिदेश यद् – यो मर्त्योऽस्मिन्नेव लग्ने मुहूर्त्ते च समुत्पन्नो भवेत्, तं शोधयित्वाऽवश्यं मङ्क्षु समानयत । अथ तेऽप्यन्विष्यन्तः कञ्चनैकं महानिः स्वं काष्ठविक्रेतारं गृहीत्वा समानिन्युः ।
ततः पुनरपि भूपो ज्योतिर्विदां संसदं विरचय्याऽप्राक्षीत् - यदस्याऽपि पुंसो जनिस्तस्मिन्नेव लग्ने जाता यस्मिन् राजकुमारस्य । पुनरस्मिन् कुतो वैपरीत्यं यदसौ महादरिद्रः ? अथ तैर्बहुधाऽपि समुत्तरितो नृपतिर्न समतुषत्, किं चेदमेव विमृशन् स सुविद्यान्तःपुरे जग्मिवान् । सुविद्याऽपि यथोचितं सादरं ससत्कारं सकटाक्षं पूर्ववद् भूपमन:समाह्यदयितुमैषीत् । किञ्च भूपालं सोदासीनं कस्मिश्चिदपारविचाराकूपारे निमग्नं विज्ञाय परीपृच्छ्यते स्म । बहुधोपेक्षमाणमपि राजानं कथंचित्कथिताखिलवृत्तान्तं पुनः समुत्ततार - यदिदं तु स्वाभाविकं यतस्तद्गृहे तदीया स्त्री मूढा स्यात्, अत एव स सर्वदा निर्धनः चिन्तापरश्च । यद्गृहे स्त्रियो नहि गृहशोधनकर्यो बहुशयनशीलाः, निजभर्तृकथनप्रतिकूलाः, प्रतिकार्यकरणकाले तल्लाभहानिसाध्वसाधुविचारानभिज्ञाः, स्वगृहस्य सुव्यवस्थां, तथा निजगृहवस्तूनि च नहि सम्यक्तया संरक्षन्ति, तद्गृहस्थनराः प्रायो दुःखभाज एव भवन्तीति । नैतद्विषये कस्याऽपि सुलग्नस्य सुमुहूर्त्तस्य वा कोऽपि दोषः । किञ्च यदि गृहे स्त्रियः सुपठिताः सुप्रबन्धविधात्र्यश्च भवेयुस्तर्हि तद्गृहस्थमनुजोऽपि नहि दुःखभाग् मूढत्वभाग् च भवेन्नाम । उक्तञ्च
—
यस्याऽस्ति भार्या पठिता सुशिक्षिता, गृहक्रियाकर्मसुसाधने परा । स्वाभाविकं धर्मधनार्जनञ्च, करोति निश्चिन्तमथो हि मानवः ॥
अथैवं सुविद्यादेवीवचः समाकर्ण्य स भूपोऽतीव संक्रुध्य 'भावत्कं राज्यादिकं मद्बुद्ध्यधीनमेव' इति सगर्वां तां स्वसदनान्निष्काशयामास । नैतदाश्चर्यं यतो नृपाणामियमेव दशा । तथा चोक्तम् -
राजाग्नियोगितोयानां विपरीतं हि वर्त्तनम् ।
यो वसेन्निकटे तेषां स्वल्पा प्रीतिर्भवेदिह ॥
३०
Page #39
--------------------------------------------------------------------------
________________
अथ सुविद्याऽपि - तस्यैव काष्ठविक्रेतुर्गृहे गत्वा स्थास्यामि, दर्शयिष्यामि च राज्ञे स्ववचनसंस्तवमित्येवं बहु विचिन्त्य तद्गृहं गतवती । गत्वा च तत्र सप्रश्रयं व्याज - भो पितः ! भवान् मां स्वगृहे रक्षतु, भवच्छ्रुश्रूषां कुर्वती शुष्करुक्षादिभोजनेनैव स्वनिर्वाहं विधास्ये । सह अहं स्वयमेवैकादशीं कुर्वे । यस्मिन् दिने काष्ठानि विक्रीयन्ते तस्मिन् दिने कथङ्कारं रोटिका लभे । यस्मिंश्च दिने तानि न विक्रीयन्ते, तद्दिने तु बहुधाऽऽखवोऽपि विदधत्येकादशीम् । सा जगाद - यत्किंचनाऽपि मद्भाग्यस्य भविष्यति तदवश्यं प्राप्स्यते, नाऽत्र सन्देहः । एतादशीं तस्या वाचमाश्रुत्य काष्ठविक्रेताऽभणत् - यद्येवं तर्हि यथाऽहं सन्तिष्ठे तथा त्वमपि मया सह सुखदुःखमाक् सन्तिष्ठस्व । विधिस्त्वद्भाग्यस्याऽपि कवलं दास्यत्येव । वा जानीते यत्त्वद्भाग्येनैव ममाऽपि कवलं स्यादिति ।
-
अथैवं राजपुत्री महानिपुणत्वात् काष्ठविक्रेतृसदृशं भारमेकत्र चकार । अन्यदिने तु स काष्ठविक्रेता काष्ठानामाणकैकमलभत, किन्त्वद्यत्वाणकद्वयं लभते स्म । यह्येव स काष्टभारमादाय प्रतस्थे तर्ह्येव साऽपि स्वशिरसि काष्ठभारं संस्थाप्य प्रचलितवती । या च काष्ठविक्रेतुः स्त्री साऽतीव स्वभावक्रूरा, अहर्निशं गृहे कलहायतेऽत एव तस्या नाम कुबुद्धिरिति । दूरादेव समायान्तीं तेन सार्धं तां समीक्ष्य 'अद्यैतावान् कथं लम्बो विलम्ब इति, वयं हि क्षुत्क्षामकण्ठा भवामोऽमूनि त्वदपत्यानि च बुभुक्षया पीड्यन्ते' इत्यभिधाय चित्ते किमप्यन्यदेवाऽचिन्तयत् । सर्वं तस्या भावस्थं विदित्वा सा सुविद्या सप्रश्रयमूचे - जननि ! अद्याऽन्यदिनापेक्षया काष्ठान्यपि त्वधिकानि वरीवृत्यन्तेऽत एवाऽद्य लम्बो विलम्बः । अनेन मत्पित्रा च मयि दयां विधाय मह्यं जीवदानं प्रदाय त्वच्छुश्रूषायै चाऽहं नीता, अस्मिन् कोपं मा कृथा विलम्बहेतुरहमेव । इत्थं माधुर्यवचोभिस्तां यथावच्छमयित्वाऽऽनीतं काष्ठमारं त्रिधा विधाय पितृपुत्रयोर्मूर्ध्नि संस्थाप्य विक्रेतुं प्रैषीत् । भारत्रयीत्वाच्च तान्येव काष्ठानि त्वद्य दशपणैर्विक्रीयन्ते स्म । अथ तेषु दशपणेषु षड्भिः पणैर्भोजनसामग्रीं समानाय्याऽऽणकैकं पेटिकायां प्राक्षिपत् ।
द्वितीयदिने च सा सुबुद्धिः सुविद्या तदीयात्मजद्वयीमपि किञ्चिद् दत्त्वा प्रलोभ्य तेनैव पित्रा सार्धं काष्ठानि सञ्चेतुं विक्रेतुञ्च संप्रेष्य स्वयञ्च स्वसमीपस्थगृहे चूर्णपेषणाय संलग्ना । अयं च काष्टविक्रेता प्रतिदिनं पक्कामेव रोटिकां समानयति स्म । किं च तद्द्द्दिनेऽपि यदैकैकं पणं प्रदायाप्याणकैकमवशिष्टं, गृह एव भोजनसम्पादनात् सर्वेषामुदरपूर्तिश्च जाता तदाऽवशिष्टपणानां तूलिकां समानाय्य स्वपार्श्वस्थगृहे तस्यास्तूलिकायाः सूत्रं निष्पाद्य व्यक्रैषीत् । इत्थं विदधत्यास्तस्यास्तस्मिन्मासे रूप्यकैकमवशिष्टम् । अथ गते कियति काले सा तेन रूप्यकेण काष्टविक्रेत्रे चैकां कुठारिकां मूल्येनाऽऽनाय्याऽभ्यघात् - यत्प्रतिदिनमेकैकलघुकाष्टसंचयेन लघूनि स्वल्पानि च काष्ठानि समानीयन्ते, किञ्चाऽनया- कुठारिकया छेदं छेदं महान्त्येधांस्यानयतु । यतस्तानि महान्ति काष्ठानि बहुमूल्येन विक्रीयेरन् । स्वयञ्च स्वपार्श्वस्थगृहतः सूचिकाकर्त्तरिकासुवस्त्राद्यानीय शिरस्त्राणादि कर्त्तुमारभत । ततः कतिपयगृहेषु मेलनं विधाय यस्य वस्तुन आवश्यकता भवेत्तद्वस्तु याचित्वा, स्वकार्यञ्च कृत्वा पश्चात्समर्यपति स्म । कस्यचिद् बालस्य शिरस्त्राणं सीव्यति स्म कस्यचिदङ्गरक्षणम् । काशविरेचनादिरोगाणामौषधि निर्माय निर्मूल्यमेवाऽर्पयन्ती सर्वेषामेव मान्याऽतिवल्लभा चाऽजनिष्ट । एवमिदानीं प्रतिदिनं पञ्चषाणकानां काष्ठानि
३१
Page #40
--------------------------------------------------------------------------
________________
विक्रीयन्ते, द्वित्रिचतुराणकानां शिरस्त्राणादीनि विक्रीयन्ते, ततः स्वल्पदिनैरेव कतिपयानि रूप्यकाण्येकत्र कृतानि । इत्थमेव मतिमत्या तया कतिपयानि रसवतीपात्राणि क्रीतानि, स्ववासगृहमपि संलिप्य स्वच्छीकृतम् । स्वयमपि सा शिरस्त्राणादिकार्यं कुर्वती पार्श्वस्थजनकुमारिका अपि निर्माणदिकार्य शिक्षयामास । अथैतन्निर्मितानि बहुविधवासांसि बहुमनोहारित्वादनल्पमूल्येन विक्रीयन्ते स्म। यदा किञ्चिदधिकं मूल्यमेकत्र कृतं तदा तया धर्मपित्रर्थमेको रासभः क्रीतः । उक्तञ्च – 'अस्मिन् काष्ठानि समारोप्याऽऽनय, मा च विक्रैषीः, किञ्च राशि विधेहि, यदा वर्षाकालः स्यात्तदा विक्रीणीयाः, यतोऽधिकं मूल्यमायास्यते । सार्धं गृहीत्वा च मा भ्रमीः, किन्तु राशिं विधाय वर्षाकाले चैकत्रैव सन्तिष्ठमानो विक्रीणीयाः'।
अथ तेनापि किञ्चिद्धृदि विविच्य निश्चिक्ये - साधु चैतस्या वच इति । इतस्तदीया कलहप्रिया कुबुद्धिर्भार्याऽपि प्रतिदिनं प्रसेदुषी मनस्यचिन्तयत् - साधु चैतस्याश्चातुर्यं बुद्धिप्रागल्भ्यञ्च, या यद्दिनान्मद्गृहमायाता तद्दिनात् कुतः किं जातम् । एकाऽहं या प्रतिदिनं कलहाये, एकेयं कीदृशी मतिप्रगल्भा सर्वकार्यनिपुणा च । यद्दिनादियं समायाता तद्दिनात्कश्चनाऽपि जनो मद्गृहे कलहनामाऽपि न जानीते । इत्थं बहु विमृशन्ती स्वल्पैरेवाऽहोभिः सा कुबुद्धिरपि सुबुद्धिर्जाता । यदा काष्ठविक्रेतुर्गृहे इयान् महत्त्वातिशयो जज्ञे, तदा तया सुविद्ययाऽन्यदपि स्वबुद्धिवैभवं प्रसारितम् । तदिदं - बहुशः स्त्रीणां बालकबालिकानाञ्चौषधिदानादिक्रियां कर्तुमारब्धम्, किञ्च स्वयं महिषीत्वानिजमतिपटुत्वाच्चाऽखिले पत्तने निजां ख्यातिमपप्रथत्। प्रतिगृहं तस्या आह्वानं भवति । प्रथमन्तु तस्या औषधेः सुष्ठुतरत्वाद्, द्वितीयं वाङ्माधुर्यशीलस्वभावात् दयानम्रत्वाच्च परमनो जहार । यद्गृहे चैकवारं गच्छति तद्गृहाद् बहुधाऽऽह्वानं समायाति । किं बहुना? बहुभिरेव पुंभिनिजनिजगृहाद् भूयो वस्तुजातमुपायनीचक्रे । अथाऽस्या गृहं सर्वथा सम्भृतम् । तथा पार्श्वगृहस्थबालिकाः स्वपार्श्वे संस्थाप्याऽध्यापयामास, किं च सार्धमेव निजधर्मपितुः पुत्रद्वयीमप्यध्यापयामास । किञ्चित्किञ्चित्स्वधर्मपितरमपि चाऽशिक्षयत् ।
अस्याश्चाऽखिलपत्तने त्वेतादृशी ख्यातिरभवत्, येनोत्तमजनबधूबालिकानां गृहे गच्छन्ती कतिपयोत्तमगृहेभ्यो मासिकं वेतनं चाऽपि लेभे। श्रेष्ठिप्रभृतीनां गृहे गमनादस्याः प्रतीतिरपि ववृधे । यदि कदाचिदल्पाधिकस्य धनस्याऽऽवश्यकता भवेत्तदा तल्लाभेऽपि योग्याऽभवत् । __ अथेयं यदेदृशी संजाता तदा कतिपयश्रेष्ठिकान् मिलित्वा स्वनाम्नो वस्तुजातं तद्रूप्यकैर्गृहीत्वा तैरेव च पुरुषैरेकं संलेखकं भृत्यीकृत्य स्वपितरं तेन सार्धं कृत्वाऽऽह – 'इदमखिलं वस्तुजातं दूरदेशान्तरं गत्वा विक्रीणीहि, तत्रत्यानि च स्वल्पमूल्यकानि समाणि वस्तूनि समानय' इति व्यसृजत् । अथ धर्मभ्रातरावुवाच - 'युवामिदानी श्रेष्ठ्यादिसत्पुरुषाणां मध्ये तिष्ठथ उत्तिष्ठथ च, युवाभ्यामित्थं वर्तितव्यं यत्कोऽपि पुमान् निजचित्ते कथंचनापि काञ्चनापि घृणां मा कार्षीत्, स्वपार्श्वे च युवां संस्थापयन् मा सङ्कोचीत् । अत इत्थं विधेयं - पूर्वन्तु वासार्थमुत्तमगृहस्याऽऽवश्यकत्वं, यस्मिंश्च याः काश्चनोच्चकुलस्त्रियः समागत्य सुष्ठुतया सभ्यतया चाऽवतिष्ठेरन् । अतः प्रथमं कस्यचिच्छेष्ठिनो हर्म्य भाटकेन ग्राह्यं, येन मत्स्थितिरपि योग्यस्त्रीपुरुषेषु प्रशस्या स्यादिति' । तत एकं श्रेष्ठिहर्म्य भाटकेन ग्राहयित्वा तस्मिन् समे तस्थुः ।
३२
Page #41
--------------------------------------------------------------------------
________________
अथ काष्ठव्यापारो यद्यपि सर्वथाऽधमः, तथाऽप्ययं सर्वथाऽत्याज्य एवेति मनसि निधाय सुविद्यादेवी पुनरुवाच – 'अस्मिन् काष्ठराशौ तु स्वल्पो लाभः काष्ठविक्रेतारश्च 'काष्ठविक्रयाः ' एवाऽभिधीयन्ते । अत एव कतिपया सूत्रधारा रक्षितव्यास्तैश्च शालनिम्बप्रभृतिपादपानां काष्ठैर्मञ्जूषादिवस्तूनि निर्माप्याणि । रूप्यकाणां च यावतामावश्यकता भवेत्तावन्ति कार्यालयाद् ऋणरूपेण ग्राह्याणि । नदीतीरस्थमहावनाद् सुकाष्ठानि च्छित्त्वा छित्त्वा समानाययितव्यानि येषां च काष्ठानां वस्तून्यपि शोभनानि भवेयुः' इति विविच्य कस्माच्चिच्छ्रेष्ठिनो रूप्यकसहस्रद्वयीमृणरूपेणाऽगृह्णात् । ततोऽमीभी रूप्यकैः काष्ठानि क्रीत्वा तानि वस्तूनि निर्मापितानि यानि द्विगुणचतुर्गुणमूल्येन विक्रीतानि ।
इतः स काष्ठविक्रेता वस्तूनि द्विगणमूल्येन विक्रीय तत्रत्यानि च बहुविधानि वस्तूनि समानिनाय, यानि सहसैव द्विगुणचतुर्गुणेन विक्रीतानि । यानि च रूप्यकाणि जनेभ्य ऋणत्वेन गृहीतानि तानि सवृद्धि तेभ्यः समर्प्यऽवशिष्टानि स्वगृहे रक्षितानि । अथ स्वल्पैरेवाऽहोभिर्दशविंशतिसहस्ररूप्यकाणि गृहे सगृहीतानि । ततोऽन्यतो ग्रहणस्याऽऽवश्यकता नाऽभवत् । किञ्चित्कालानन्तर' मिदानीं स्वरूप्यकैर्व्यवहारो न व्यवहर्त्तव्यः, एकदेत्थमेव पुनरपि निजधर्मपिता देशान्तरे प्रेष्यः, यदा भूयोऽपि लाभः स्यात्तदा तत्पश्चान्न कथङ्कारमप्यन्यतो रूप्यकाणि ग्रहीष्ये' इति सुविद्या सम्यग् विचार्य मासद्वयानन्तरं संलेखकेन सार्धं स्वपितरं पूर्ववत् बहुविधानि वस्तूनि सम्भृत्य संप्रेषयामास । ततोऽस्य श्रेष्ठसाधुकारेषु महती प्रतिष्ठा समजनि, कथनमन्तरैव सर्वेऽनेकविधानि वस्तूनि यानेषु संबभ्रुः ।
इतः कस्मिश्चिद् द्विजकुले निजधर्मभ्रात्रोर्विवाहाय संबन्धं संयोज्य तौ विवाहयामास । यदाऽस्या काष्ठविक्रेता धर्मपिताविदेशतो निवृत्तस्तदा प्रथमतोऽप्यधिको लाभो बोभवीति स्मः । ततः कतिपयपत्तनेषु महत्यो विपणिका उद्घाटिताः, सुविद्याप्रभावतश्चाऽतीवप्रख्यातः शनकैर्जगच्छ्रेष्ठिपदवीविभूषितो बोभवामास । अथाऽवसरज्ञा सुविद्या निजहृदि ‘अवसरोऽसौ राज्ञो निजवचनप्रख्यापनाय यन्मद्वचसः सत्यत्वमसत्यत्वं वे'तीत्थं बहुधा विविच्य निजधर्मपितरं बभाण - 'इदानीं भवान् लोके 'जगच्छ्रेष्ठी' इति निगद्यते लोकैः । देशदेशान्तरस्य चाऽलभ्यानि वस्तूनि भवद्गृहे समायन्ते । कानिचिच्छोभनानि वस्तून्यादाय राज्ञे चोपायनीकर्त्तव्यानि यतोऽयं स्वीयो धर्मः यत्स्वदेशाधिपः प्रसाद्योऽस्मकाभिरिति । एतावत्कालपर्यन्तं वयं कस्मिश्चिदपि विषयेऽगण्या आस्म, किञ्चेदानीं महान्तोऽभूम । अतोऽमुकानमुकान् कायकर्तृन् मिलतु भवान् तेषां सङ्गत्यैव राजमेलनमपि भावि' ।
-
अथेयं राज्ञी सर्वराजनियमज्ञात्री चाऽऽसीत्, अतः सा सुविद्या महिषी सर्वं राजनियमं संबोध्य कथंचित्तं राजान्तिकं प्रेषयामास । यथा सुविद्यया पूर्वं बोधितस्तथैव राजानं मिलित्वा पश्चात्स्वभवनं प्रतिनिवृत्त्य सर्ववृत्तान्तं तामाह । ततो गतायां कियत्यां वेलायां तया पुनरपि स प्रेरितः, इत्थं कतिपयवारं तं सोऽमिलत्, येनाऽखिलवृत्तान्तज्ञो भूत्वा राज्ञोऽधिकं परिचितो जातः ।
ततो भूयोऽपि सा पितरमवादीत् - यदेकवारं राजानं स्वगृहे भोजय । वक्तव्यश्च स भूपस्त्वया – यदनुचरस्याऽपि गृहं कदाचित् गत्वा सुशोभयितव्यं, पादपद्मेन च पवित्रितव्यम् । इति निवेदिते काष्ठविक्रेत्रा भूयो भूयोऽपि, . स्वीकृत्य तद्वचोऽमुकदिने समायास्यामीति तं संव्याजहार राजा । ततः सोऽपि गृहमागत्य सुविद्यादेवीं यथावदुवाच।
३३
Page #42
--------------------------------------------------------------------------
________________
अथ साऽपि स्वचातुर्येण स्वभवनमेतादृक् सुसज्जितं चक्रे, यत् राज्ञो महाराजस्येव वा प्रतिभाति । तथैवाऽखिला सामग्रीमपि प्रगुणीचक्रे, स्वबुद्धिमत्तया च राज्ञो रुचिकर भोजनं निर्ममे । ततः क्षमापोऽपि तद्भवनमागत्य तत्रत्यां शोभा समीक्ष्य सम्भुज्याऽतीव प्रससाद, विसिष्मिये च । यत्कालात् सा सुविद्या राजभवनाद् गता, ततः प्रभृति भूयोऽपि स्वगृहे न तादृशानि भोजनानि बुभुजे । अत एव बहु प्रसद्याऽप्राक्षीत् – जगच्छ्रेष्ठिन् ! किं तवाऽपत्यम् ? तेनाऽप्युत्तरितं - राजन् ! अस्ति पुत्रद्वयमेका धर्मपुत्री च भवत्कृपातः, किञ्च भवदर्शनार्थं ते साभिलाषाः । राजाऽऽह – यद्येवं तर्हि समाकारय तान् । श्रुत्वैवं पुत्रद्वयी समागत्य तं प्रणनाम । ___ अथ भूपतिः पुत्रीमप्यपृच्छत् । श्रेष्ठिनोचे - स्वामिन् ! सा त्वपरके वर्त्ततेऽतो भवता तत्रैव गत्वा तस्यै दर्शनं दत्त्वा सा कृतार्थ्या । श्रुत्वैवं राजा समुत्थाय तत्र जग्मिवान्, साऽप्युत्थाय नृपति साष्टाङ्गप्रणामं सादरं सचक्रे। ततो नरपालस्य तस्याः स्वरूपमवलोकयत एव निजमहिष्याः सुविद्यायाः स्मृतिराजगाम । यत इयमपि तत्स्वरूपा, इयं सुविद्येव प्रतिभाति, परमियं स्वात्मानं जगच्छेष्ठिनो हि पुत्रीति भणति तत्कथं संघटते ? किं चेदमवश्यं यतोऽस्या वयः सुविद्यया संमिलति जगच्छेष्ठिनश्च वयस्तभ्रातृसमानं प्रतिभाति । पुत्री हि पितृतो हुस्वा मातृस्वरूपा च, अतो नेयं कदाऽपि तत्पुत्री । अवश्यं चाऽत्र कोऽपि हेतुः । इत्थं विचिन्तयत एव नृपतेः पादपद्मे सुविद्याऽपप्तत् अगदच्च – मा सर्वथा कृत सन्देहं भवान्, नाऽहं श्रेष्ठिपुत्री, किञ्च भवत एव पादपद्मसेविका सर्वमिदं निजवचनख्यापनाय सत्यकरणाय च मयैवाऽऽचरितो व्याजः । स एवाऽयं काष्टविक्रेता दरिद्रः पुमान्, सैवाऽहं सुविद्या नाम भवन्महिषी । दास्याचाऽपराधो भवद्भिः क्षाम्यो रक्षितव्यश्च सर्वथा सेवायामयमबलाजनः, इयन्ति च दिनानि भवद्वियोगेनाऽहं महता कष्टेन समर्यादं धर्मपूर्वकं व्यत्यैषिषम् । ततो राज्ञाऽपि श्रुत्वैवं तदीयं वचो बहु त्रेपे, राज्ञी च गृहीत्वा स्वगृहं संजग्मे । जगच्छेष्ठिने च स्वराज्यार्धं समर्प्य स्वसमानं विदधे ।
अथाऽन्ते स भूपतिः सा राजमहिषी, स च जगच्छ्रेष्ठी काष्ठविक्रेता सपरिच्छदो भागवतीं दीक्षां जगृहे, निर्दोषं च संयमं प्रपाल्य शाश्वतसुखेन विललास।।
अयि भव्याः ! पाठकाः ! यथेयं राजमहिषी स्वं स्वसहवासिनश्च समुद्दधार, तांश्च सद्गुणिनो विधायेह परत्र च सुखीचक्रे एवमेवेहाऽन्या सद्गुणा स्त्री बहुविधा व्यक्तीः सुखैनैव समुद्धत्तुं शक्नोति, नाऽत्र कैरपि कथञ्चन सन्देहो धार्य इति ।
भूयोऽपि धनपालो जगाद - यदवसरोचितवचनकथनेऽपि विविधाः प्रशस्या गुणाः । स्त्रीपुरुषाः कियतीमपि विद्वत्तां कलाकौशल्यप्राप्तिञ्च कुर्युर्नाम, परन्तु यावत्तेषु नोचितावसरवचनकथनरूपा गुणा भवन्ति, तावत्ते सर्वत्राऽऽदरानऱ्या एव । अत एवैतद्गुणसम्पादनाय तावदेवाऽऽवश्यकं यावदन्यगुणार्थम् । कश्चिद्धिन्दीकविताकारोऽप्याह -
सीख्यो सब रीतभात, गीत ज्ञान नाद छंद, जोतिस हु सीख मन रहत गरूर में । सीख्यो सब सोदागरी बजाजी सराफी सार, लाखन को फारफेर वही जात पूर में । सीख्यो सब जंत्र मंत्र, तंत्र चित्र शिल्पकारी, पिंगल पुराण वेद सीख भयो नूर में । सीख्यो सब वाटघाट, निपट सयानो सूर, बोलवो न सीख्यो ताको सब सीख्यो धूर में ॥
३४
Page #43
--------------------------------------------------------------------------
________________
बात ही कहे से ज्ञान ध्यान में प्रवीण बने, बात ही कहे से सब लोक में पूजात है, बात ही वखान तीन लोक में सुजान होत, बडे बडे योगी यति बात ही कहात है। बात कहे से विष वासक को उतर जात, जाने विन बात मूढ केते दुःख पात है, मंत्र अरु तंत्र सब बात ही के पाठ वने, बात कर ही जाने तो बात हु करामात है ॥
येऽवसरोचितकथनं सम्यक्तया जानन्ति, तेषां प्रतिवाक्येषु चाऽमूल्योपदेशाः सन्तिष्ठन्ते । तथाऽतिकृपणान्याय्यानाचारोद्यतान् स्त्रीपुरुषान् सुमार्गे चालयितुं शक्तिशालिनो भवन्तीति । तथा हि -
अथाऽऽसीत् कश्चनाऽतीवलोभवान् भूपः, स च प्रभूतं वित्तं सञ्चिक्ये, परं स तद्धनं स्वपुत्रस्याऽपि सुखभोगाय न ददाति, न च द्रव्यव्ययभयान्निजकन्यामेव विवाहयति । ततः कदाचिदेको नटो नटी च तत्सभायां समाजगाम । स चाऽऽगत्यैव निजनाट्यदर्शनाय नृपं प्रार्थयामास । अथ राजाऽपि साधु, कदाचिद् द्रक्ष्यामीति तं विससर्ज, किन्तु सा नटी मुहुर्मुहुरागत्य राजानं विज्ञपयति । भूपोऽपि तामुपेक्षते, परमन्ते नटी कदाचित् मन्त्रिणं विज्ञपयामास - 'यदि महाराजो मदीयं नाट्यं न पश्येत्तदहं व्रजानि, यतः स्वद्रव्यं खादन्त्या मे भूयांसि दिनानि व्यतीयुः'। इत्येवं श्रुत्वा मन्त्री राजानं प्रार्थयते स्म स्वामिन् ! भवान्नाट्यमवश्यं विलोकताम् । वयं च सर्वेभ्यः किञ्चित्किञ्चिद् दापयित्वा तां नटी नटं च यथावत्सन्तोषयिष्यामहे । यदि च भवान्नाट्यं न द्रक्ष्यति तर्हि लोके महती भवतोऽपकीर्तिः स्यात् । ततो राज्ञाऽपि मन्त्रिवचः स्वीकृतम् । नाट्यमपि प्रारेभे । यदा तस्या नाट्यं कुर्वत्या घटिकाद्वयावशिष्टायां रजन्यामपि किञ्चिदपि भूपतिः पारितोषिकं न ददाति, तावन्नटी नटमाह -
"घटिकैकावशिष्टायां, रात्रौ श्रान्ता च मत्तनुः ।
नटी नटमथोवाच, तालं धैर्येण वादय ॥" नटीवाक्यमाकर्ण्य नट आह -
"वीतेयं बहुधा रात्री, किञ्चिन्मात्राऽवशिष्यते ।
नटस्तदा नटी प्रोचे, ताले भङ्गं हि नो कुरु ॥" अथ तत्रैव कोऽपि तपस्वी नाट्यं विलोकयन्नासीत्, स च नटनट्योः प्रश्नेत्तरमाकण्यैव निजकम्बलं ताभ्यां समर्पयामास । स राजकुमारो हीरकादिजटितां निजकटकद्वयीं, सा राजकुमारिकाऽपि च निजकण्ठस्थहीरकमयं सुन्दरममूल्यं सुहारं प्रददौ । राजा चैवं सर्वमवलोक्य साश्चर्यो भूत्वा सर्वतः प्राक् तपस्विनमेव प्रोचिवान् - यद् भवत्पार्श्वे त्वेक एव कम्बल आसीत्, तद् भवान् किं ज्ञात्वा ताभ्यां तं प्रदत्तवान् ? ततस्तपस्वी व्याजहार - 'भवदैश्वर्यं वीक्ष्यैव मम चेतसि भोगवासना प्रादुर्भूता, किन्तु नटनट्योरुपदेशान्मम चेतो वैपरीत्यं लेभे । मया हि ताभ्यामयमेवोपदेशोऽग्राहि यत्प्रायोऽधिकं वयस्तपसा क्षीणमेव, किञ्चेदानीं स्वल्पमेवावशिष्टम् । तदपि भोगवासनाभिः किं विनाशयानि ? अमुमेवोपदेशं गृहीत्वाऽऽभ्यां सर्वस्वभूतं निजैकमात्रं कम्बलमेवाऽऽर्पयम् ।
ततो नृपतिः कुमारमप्राक्षीत् – त्वया हि किं ज्ञात्वाऽऽभ्यां हीरककटकद्वयं ददे ? स चोवाच – 'यदहं प्रत्यहं दुःखीभूतः, यतो भवान् मह्यं न किमपि व्ययार्थं दत्तेऽत एवाऽतीवदुःखीभूत्वाऽहं व्यचिन्तयम् -
३५
Page #44
--------------------------------------------------------------------------
________________
कस्मिंश्चिद् दिने राजे विषं दत्त्वा घातयिष्यामि । किन्त्वेतयोरुपदेशाद् मयैतदेव गृहीतं – यद्राज्ञोऽधिकं वयस्तु गतमेव परन्त्विदानी वार्धक्यमापन्नो हि कतिपयवर्षान्तेऽवश्यं मरिष्यत्येव । अतो जनकहत्ययाऽलम् । अस्माच्चैवोपदेशादहं हीरकवलयौ प्राददाम्' । ___ अथाऽन्ते राजकुमारिकामपि तथैवाऽप्राक्षीत् – त्वया किमर्थममूल्यो हारस्ताभ्यां प्रादायि ? साऽप्यवादीत् - 'अहमिदानीं तारुण्यलावण्यपूर्णाऽभवम्, भवाँश्च द्रव्यव्ययभयान् मां न विवाहयति, मनोभवोऽधुना मां विधूनयति । अतोऽहं कामप्राबल्यवशात् प्रधानपुत्रेण सार्धं गन्तुकामाऽभूवम् । किञ्चैतयोरेवोपदेशाद् मया विचिन्तितं – यदाधिक्येन राज्ञोऽवस्था तु गतैव, अवशिष्टाया अप्यन्तः कदाचिद् भविष्यत्येव, अतः स्वल्पदिनेभ्यो राज्ञो नाम किमर्थ कलङ्कयानीत्यमूल्योपदेशो मया ताभ्यामेवोपात्तः, अत एव च मया बहुमूल्योऽपि हारस्ताभ्यामर्पितः' । अयि पितृदेव ! तयोरुपदेश एव भवज्जीवितं यश्च जुगोप । अतो भवताऽपि तदर्थं किमपि सर्वोत्तमपारितोषिकं देयमेव । ततो भूपोऽपि सर्वेर्षां समीचीनमुत्तरमाकर्ण्य सम्यग् हृदि विचार्य च कमपि सारभूतं पारितोषिकं दत्त्वा तौ विससर्ज । अथ मन्त्रिपुत्रेण सार्धं निजकन्यां विवाहयित्वा, राजकुमाराय राज्यं दत्त्वा, स्वयं च वैराग्यवान् भूत्वा निजावशिष्टमायुश्चाऽध्यात्मविचारे नियोजयामासेति शम् । ___ अयि विदुषां वरिष्ठाः ! सर्वोऽयं मे प्रयासस्तेषामेवोपयोगी हितकृच्च स्यात्, ये गुणेष्वनुरागवन्तो गुणसम्पादनायाऽहर्निशं प्रयत्नवन्तश्च । ये च स्वस्य परेषां चाऽहितकृतो विघ्नमात्रसन्तोषवन्तः कृतघ्नाः कार्याकार्यविमर्शशून्या निर्गुणाश्च सन्ति, तेषां स्वभावपरिवर्तनाय तु शास्त्रकृतोऽपि न कमप्युपायं विदन्तीति । यथा हि -
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो, नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ । व्याधिर्भेषजसद्ग्रहैश्च विविधैर्मन्त्रप्रयोगैविषं, सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नाऽस्त्यौषधम् ॥
अस्तु । अथेत्थं धनपालविदुषः सयुक्तिकमखण्डनीयं परिणामसुन्दरं सर्वोपयोगि चोत्तरं श्रावं श्रावं, सर्वे ते सभ्यविद्वांसो विद्वद्वरीयांसं तं धनपालपण्डितं धन्यवादास्पदं विदधुः । स विद्वज्जनगोष्ठिकारामविहरणो नृपतिचक्रचूडामणिमहाराजाधिराजो भोजभूपतिश्च सादरं ससन्मानं तं धनपालविद्वांसं महता पारितोषिकदानेन सच्चके । इत्यलमतिविस्तरेण ।
बृहद्विद्वद्गोष्ठी समाप्ता ॥
Page #45
--------------------------------------------------------------------------
________________
रङ्गमञ्चः
नवसंवेदनाश्रितं लघुरूपकम् क्रीतानन्दम्
प्रा. अभिराजराजेन्द्रमिश्रः
॥ कथासार ॥ क्रीतानन्दम् अर्थात् खरीदा गया आनन्द, सुख । आनन्द और सुख को प्राप्त करने के लिये आदमी क्या नही करता ? सुख मिलना चाहिये, चाहे पाप मार्ग से मिले, चाहे पुण्यमार्ग से ! इस व्यापार में सबकी स्थिति एक जैसी है - हवालाकाण्ड के महानायक हर्षद महेता और नई-नई युक्तियों से भीख माँगने वाले यायावर, सब एक जैसे हैं। ... बहरहाल, प्रस्तुत लघुरूपक के आनन्दस्रोत एक दम्पती हैं जो अपने को राजस्थान से आया हुआ बताते हैं। महिला अपने जीवित पति को बनारस शहर की एक खुली जगह में, सफेद चद्दर से ढंककर, उसे अकस्मात् मरा बताकर, दहाड़ मार-मार कर रो रही है और दर्शक जनता से अपने मृतपति का दाहसंस्कार करने हेतु चन्दा मांग रही है। लोग उसके प्रति सदय हैं, उसके दुःख से दुःखी हैं तथा यथाशक्ति उसकी सहायता भी करते हैं। ___ इन्हीं दर्शकों में सोम भी हैं जो नगरनिगम का एक अधिकारी है। वह भी महिला के करुण-क्रन्दन से बेहद प्रभावित होता है और उसे सांत्वना देते हुए ढाढस बधाता है कि उसके मृतपति के दाह-संस्कार का प्रबन्ध वह कुछ ही क्षणों में नगरनिगम की ओर से सम्पन्न करायेगा । वह महिला को वहीं बनी रहने को कहता है तथा स्वयं कार्यालय चल पड़ता है, डोक्टर तथा निगम का वाहन लाने के लिये !
, परन्तु सोम की इस सान्त्वना से काँप उठती है भीख बटोरने वाली महिला । जैसे ही भीड़ छंटती है वह चुटकी काटकर पति को जगाती है और दोनों बनारस की घनी गलियों में चम्पत हो जाते हैं। ____ कुछ देर बाद सोम पुनः लौटता है नगर-निगम की गाड़ी से । उसके साथ कार्पोरेशन का डोक्टर भी है - मृत्यु का प्रमाणपत्र देने के लिये । परन्तु यह क्या? वह स्थान तो एकदम सुनसान है, महिला और उसका मृत पति – दोनो नदारद हैं।
Page #46
--------------------------------------------------------------------------
________________
सोम को हतप्रभ देख पानविक्रेता गिरिधर उसे महिला का कच्चा चिट्ठा बताता है कि यह उसका रोज-रोज का काम है। वह यूँ ही पति को चादर से ढंक कर उसके दाह-संस्कार हेतु प्रतिदिन चन्दा एकत्र करती है। उसके इस धन्धे में चौराहे की पुलिस भी शामिल है क्योंकि उसे भी आमदनी का एक हिस्सा घूस में मिल जाता है - पाँचवा भाग मिल जाता है। पूरे दिन में यह भिखारिन, स्थान बदल-बदल कर अपने इस धन्धे का प्रायः चार शो करती है और कम से कम दो सौ रूपये कमा लेती है।
दिन भर सोम उखड़ा-उखड़ा रहता है। इस घटना ने उसको भीतर से बुरी तरह झकझोर दिया है। वह सोचता है कि क्या पैसा कमाने के लिये लोग इस सीमा तक भी गिर सकते हैं ! शाम को वह घर लौटता है अपने मित्र कृपानाथ के स्कूटर पर बैठ कर । रास्ते में उसे सवेरे का अनुभव भी बताता है।
परन्तु तभी उसकी दृष्टि पुनः एक मज़में पर पड़ती है । उसका मन कहता है - हो न हो, उसी अलवरवाली का शो यहाँ भी चल रहा है। वह पुलिस अधीक्षक को साथ लेकर आता है तथा ऐन मौके पर उस महिला का भण्डा फोड़कर उसे गिरफ्तार करा देता है। उसका मरा पति भी पुलिस का करारा बेंत पड़ते ही उठ बैठता है। दर्शक स्तब्ध रह जाते हैं यह सब देखकर !
* * *
॥ प्रातःकाले दशकदने महानगरशृङ्गटके विशालजनसम्मर्दोऽवलोक्यते । कार्यालयं जिगमिषवः प्रायः सर्वेऽपि जनास्तत्रैव पुञ्जीभूताः ।।
सोमः (सोत्कण्ठम्) भ्रातः किं जातम् ? किमर्थमियान् सम्मर्दः ? .
मङ्गलः (सोद्वेगम्) कश्चिन्मृतः । तत्पत्नी करुणं विलपति, तदन्त्येष्टिं सम्पादयितुं साहाय्यशुल्कं च प्रयाचते ।
सोमः कुतस्त्य आसीदयं जनः ? किञ्चिज्ज्ञातं न वा? हिन्दुरस्ति मुस्लिमो वा?
मङ्गलः (विहस्य) बन्धो ! सर्वमहमेव भणिष्यामि चेत्त्वदर्थं किमवशेक्ष्यति ? गच्छ तावत् । निर्भर ज्ञातुं यतस्व।
(इति शनैः प्रतिष्ठते)
सोमः हुँ, विक्षिप्तोऽयं प्रतिभाति । मुखोद्घाटनेऽपि कष्टमनुभवति । यदा स्वयं क्वचिन्निर्जने मरिष्यति तदा ज्ञास्यति । (आत्मगतम्) विक्षिप्तोऽहमपि यदेवं भणामि । अरे यदि मरिष्यत्येव तदा किं ज्ञास्यति ? मृते सति कोऽवकाशो ज्ञानस्याऽनुभवस्य वा ?
(इति मन्दं हसति) भवतु, स्वयमेव गत्वा पश्यामि किं घटितमत्र ? (सम्मर्दमतिक्राम्यन् घटनास्थलमुपैति । विलपन्तीं महिलां पश्यति)
३८
Page #47
--------------------------------------------------------------------------
________________
महिला (क्रन्दन्ती) आह रे दैव ! सम्प्रति क्व यामि ? कं साहाय्यं याचे । हा नाथ ! मामेकाकिनीं विहाय क्वप्रद्रुतोऽसि ?
सोमः (महिलां प्रति) भोः कथमयं मृतः ? (इति पृष्ट्वैव स्वमूर्खतामनुभवन्)
कश्चिद् असाध्यरोग आसीत् ? अन्यत् कारणं वा ? इत्यहं पृच्छामि ।
महिला अभद्र ! मृत्योरपि किमपि कारणं भवति ? अवसरे समुपस्थिते एव सर्वोऽपि म्रियते ।
सोमः युक्तमाह भवती । कुतस्समागताऽसि ?
महिला राजस्थानेऽलवरनाम नगरं श्रुतं न वा ? तत एवागताऽस्मि ।
सोमः किं तव सहयायिनो न वर्तन्ते ?
सम्मर्दादन्यतमः भोः ! किमेवं निरर्थकं पृच्छसि ? पत्युर्मरणात्स्फुटितहृदयां वराकीं महिलां समधिकतरं क्लेशयसि ! यदि दातुमिच्छसि किञ्चित् तर्हि दत्त्वा स्वमार्गमवलम्बस्व ।
महिलेयं
सोमः बन्धो ! कथमेवं दुर्मनायसे ? अहं प्रयोजनवशादेव सञ्चिनोमि समाचारसूत्राणि । पश्य, महाजनगृहोत्पन्ना प्रतीयते वेषभूषाभिरलङ्करणैश्च । नेयं यायावरभिक्षुकी !
अहमस्मि नगरनिगमस्याऽधिकारी । अत एवाऽस्याः परिचयसूत्रं विज्ञाय नगरनिगमपक्षतोऽस्य दाहसंस्कारप्रबन्धं कारयिष्यामि ।
सर्म्मदादपरः साधु साधु ! साधु चिन्तितं भवता ।
सोमः भो ! इदमस्माकं कर्तव्यम् । राजस्थानादागतोऽयं जनो निश्चप्रचमस्माकमतिथिरेव । स यदि दुर्भाग्यवशादिहैव पञ्चत्वं गतस्तर्हि अस्माभिरेवाऽस्या महिलायाः सहायैर्भवितव्यम् ।
(महिलां प्रति) तद् भगिनि ! अलं चिन्तया । सोऽहं साहाय्यं करिष्ये । नाऽसि त्वमेकाकिनी । किं तव पत्युर्नाम ?
महिला (वार्तालापं श्रुत्वा भीतभीता सती, आत्मगतम्) हा धातः ! किमिदानीं भविष्यति ! नित्यसफलेयं धनार्जनयोजनाऽद्य विफलायते । पतिं मृतमुद्घोष्य, अमृताञ्जनमहिम्नाऽश्रूणि च निपात्य प्रायेणाऽर्धहोरायामेव पञ्चाशद्रूप्यकाणि प्रसह्य स्वायत्तीकरोमि । यद्ययमधिकारी समधिकपृच्छां विधास्यति तर्हि सकलमपि षड्यन्त्रमुद्घाटितं स्यात् । तदेवं कथयिष्यामि ।
(प्रकाशम्) भो ! अस्माकं समाजे न पत्न्यः पत्युर्नाम स्वमुखेनोच्चारयन्ति ।
सोमः (सादरम्) आं ज्ञातम् ! इयं परम्परा तु वाराणस्यामत्राऽपि वर्तते । भवतु, मां प्रतीक्षस्व । अहं सत्वरं कार्यालयमुपेत्य, सर्वामप्यौपचारिकतां प्रपूर्य नगरनिगमभिषजा सहैव सवाहनमागच्छामि । दाहसंस्कारात्प्राक् मृत्यु - प्रमाणपत्रमनिवार्यम् । तत्सर्वं नगरनिगमभिषजा क्षणेनैव सम्पत्स्यते । अलं क्रन्दनेन । अहमागत एव । ( इति प्रतिष्ठते ।)
३९
Page #48
--------------------------------------------------------------------------
________________
महिला - (सर्वान् सम्बोधयन्ती) हे भ्रातरः ! किमेवं पश्यथ ? किमुपरतं मानवं न दृष्टवन्तो भवन्तः ? यदि किञ्चित्साहाय्यं कर्तुमिच्छथ तर्हि वरम् । अन्यथा गच्छत। .
(द्वित्राः पञ्चषाश्च जना आस्तृतप्रछदोपरि रूप्यकाणि प्रक्षिपन्ति)
महिला - (कृतकरोदनं कुर्वती) भ्रातरः ! बहूपकृतं भवद्भिः । एतावता धनेन दाहसंस्कारप्रबन्धं करिष्ये । परमेश्वरो भवतां कल्याणं करोतु । भवतां बालवत्साः सुखिनस्स्युः ।
सम्मान्यतमः - भो अलं त्वरया। नगरनिगमाधिकारी सर्वमवलोक्य गतोऽस्ति । मन्येऽसौ शीघ्रमेव समायास्यति भिषजं वाहनञ्चाऽऽदाय ।
महिला – युक्तं युक्तमाहुर्भवन्तः । सम्प्रति गच्छन्तु भवन्तः श्रीमन्तः ! अहमत्रैव तमधिकारिणं प्रतीक्षिष्ये।
॥ द्वितीयं दृश्यम् ॥ ॥ नगरनिगमकार्यालये सान्ध्यकालिकोऽवकाशः । सर्वेऽप्यधिकारिणः कर्मचारिणश्च कारस्कूटरद्विचक्रिकादियानैर्यथायथं प्रस्थातुमुत्सुकाः दृश्यन्ते ।।
कृपानाथः (स्कूटरयानं पुरस्सारयन्) अरे सोम ! गृहमुपावर्तिष्यसे न वा ? एहि, पृष्ठवर्तिनीमासन्दीमुपविश।
(सोम उपविशति । उभौ प्रस्थितौ) कृपानाथः सोम ! गृहमुपावर्तितुं त्वरा वर्तते किम् ? सोमः न तावत् । किमर्थं पृच्छसि ?
कृपानाथः अद्य कन्यायाः कृते विद्यालयपरिधानानि क्रेतव्यानि । अत एव किञ्चिविलम्बेनाऽऽसादयिष्यावः । परन्त्वलं चिन्तया । त्वामहं गृहं यावत् प्रापयिष्यामि ।
सोमः युक्तं युक्तम् । न काऽपि चिन्ता कार्या । कृपानाथः (सोमं प्रति) सोम ! कथं मौनं भजसे? नाऽयं तव स्वभावः । अस्ति कश्चिद् विशेषः ?
सोमः किं कथयानि मित्र ! अद्य कार्यालयमागच्छता मया विचित्रमेव दृश्यं दृष्टम् । ततः प्रभृत्येवोन्मनस्कोऽस्मि जातः । कार्यालयेऽपि किञ्चित्कर्तुं नाऽशकम् । त्वामपि श्रावयामि तां विचित्रां घटनाम् ।
(इति यथाघटितं श्रावयति) कृपानाथः मुश्च तावदिमां कथाम् । एतत्सर्वं तु घटते एव । न केवलं भारतेऽपि तु निखिलेऽपि संसारे ।
सोमः (अकस्मादेव राजमार्ग निकषा जनसम्म सम्प्रेक्ष्य) कृपानाथ ! मित्र ! क्षणं यावत्तिष्ठ । कीदृशोऽयं जनसम्मर्दः ? मन्ये सैव महिलाऽत्राऽपि वर्तते ।
Page #49
--------------------------------------------------------------------------
________________
(यानं क्वचिदेकान्ते संस्थाप्योभौ समीपं गच्छतः । तामेव महिलां मृतपत्युर्दाहसंस्कारार्थमर्थसाहाय्यं याचमानामवलोक्य हतप्रभावुभौ भवतः)
महिला - (करुणं विलपन्ती) हा दैव ! भगवन् विश्वनाथ ! श्रुतम्मया यत् त्रिलोकतोऽपि पृथग् वर्तमानेयं काशी । नाऽत्र संसारनियमाः प्रचलन्ति । तथाऽप्यहमत्राऽवसीदामि । भ्रातरः ! मृतपत्युरन्त्येष्टिनिमित्तं कं याचे? ___ सम्मर्दादेकः देवि ! अलं क्रन्दनेन ! काशीयम् । यस्य क्वाऽपि गतिर्नास्ति तस्य वाराणसी गतिः । भगवान् विश्वनाथस्ते साहाय्यं विधास्यति । गृहाण तावदिदम् ।
(इति पञ्चरूप्यकमुद्रामास्तृतप्रच्छदोपरि प्रक्षिपति । अन्येऽपि जना यथाशक्ति रूप्यकाणि प्रयच्छन्ति)
महिला - भ्रातरः ! बालवत्सा युष्माकं सुखिनस्स्युः । यथा युष्माभिरहं रक्षिताऽसहायमहिला तथैव भगवान् कालभैरवो भवतस्सर्वान् नितरां पातु ।
(मृतपत्युश्चरणं संस्पृश्य) भोः ! कथं न पश्यसि नगरवासिनां बन्धुजनानां नवनीतकोमलं हृदयम् । हा मातः ! क इदानीं भविष्यत्यपरिचितेऽस्मिन् महानगरे शरणम् ?
सोमः (सहसैव समक्षमागत्य) नित्यसौभाग्यवति ! अयं जनो भविता ते शरणम् ! प्रत्यभिज्ञातवती मां न वा ? प्रातरपि त्वत्सहायतार्थमागतवानहम् । अकस्मादेव क्व नु विलीनाऽऽसीः ?
(सोमं पुलिसाधीक्षकेण साधं विलोक्यैव महिला शुष्कमुखी जायते)
महिला - (अपरिचयं नाटयन्ती) श्रीमन् ! कोऽस्ति भवान् ? किमर्थं मामुपहसति दुर्भाग्यशालिनीम् ! पश्यन्ति भवन्तो यदहं मृतपत्युर्दाहसंस्कारार्थं भातृन् धनं याचे ।
सोमः मा भैषीः । अहमेव तव पति मणिकर्णिकाघट्ट प्रहिणोमि ।
(पुलिसाधीक्षकः शयानं जनं वेत्रेण सकृत् ताडयति । स च वेत्रप्रहृतस्सन् प्रच्छदं दूरे प्रक्षिप्य समुत्तिष्ठति । सर्वे जनाः सविस्मयं तं पश्यन्ति)
पुलिसाधीक्षकः किं रे ! स्वर्गलोकं गतवानसि यमलोकं वा ? एकेनैव वेत्रप्रहारेण पुनः पृथ्वीलोक मागतवानसि । इयती त्वरा काऽऽसीत् ? पञ्चषान् वेत्रप्रहाराननुभूय नित्यमरणस्य ते प्रवृत्तिरेव प्रनष्टा स्यात् ।
महिला/पुरुषः (अधीक्षकचरणौ निपत्य सप्रणामम्) मर्षयतु मर्षयतु श्रीमान् । अग्रे नैवमाचरिष्यावः । (जनसम्म महान् संभ्रमः, विविधास्पष्टवार्ताध्वनिः)
अधीक्षकः (जनसमूहं प्रति) पश्यन्ति भवन्तः भिक्षाटनस्य नूतनसरणिमिमाम् ? इयं महिलाऽऽदिवसं नगरस्य विविधभागेषु एवमेव जनसमूहमाकृष्य स्वकरुणक्रन्दनैः पतिं च सद्योमृतं प्रख्याप्य, तद्दाहार्थं धनमाहरति । प्रायेण नाट्यमिदं प्रत्यहं चतुर्धा सम्पाद्य द्विशतरूप्यकाणि दुष्टेयमर्जयति ।
Page #50
--------------------------------------------------------------------------
________________
सम्मर्दादेकः धिग् धिग् रण्डामिमाम् । अहोऽर्थस्य कृतेऽयमनर्थः ? स्वपतिमपि दिवङ्गतीकृत्य गाढं क्रन्दतीयं दुष्टा । आत्मानं विधवां प्रदर्श्य पौराणां सहानुभूति धनद्वितीयामवाप्नोति ? अधीक्षकमहोदय ! कृपया निगृहणातु पौरप्रवञ्चकाविमौ ।
(अधीक्षको निगृह्य तौ वाहनमधिरोहयति ! सोमं प्रति) बन्धो सोम ! कृतज्ञस्ते पुलिसविभागः । सम्प्रति गमिष्यामि । पुनर्मिलिष्यावः । (सोमोऽपि कृपानाथस्कूटरमारुह्य प्रतिष्ठते) ॥ इति श्रीगौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य
नाट्यं क्रीतानन्दमवसितम् ॥
४२
Page #51
--------------------------------------------------------------------------
________________
संवादः
गुरु:
शिष्याः
गुरुः
गुरुः
शिष्याः
गुरुः
गुरुः
शिष्याः
गुरुः
गुरुः
शिष्याः
गुरुः
गुरुः
शिष्याः
गुरुः
गुरु-शिष्यसंवाद:
- मुनिश्रुताङ्गचन्द्रविजयः
अस्मिञ्जगत्यतितीक्ष्णं वस्तु किम् ?
असिरतितीक्ष्णा ।
मानवस्य जिह्वाऽतितीक्ष्णाऽस्ति । यया मनुष्योऽन्येषां जनानां हृदयं छेत्तुं शक्तः । अस्मभ्योऽतिदूरं वस्तु किम् ?
आकाशो वा सूर्यो वा तारका वा ।
I
भूतकालोऽतिदूरं वर्तते । यदि मनुष्यस्य समीपे बहव्यः शक्तयः स्युस्तर्ह्यपि स भूतकालं प्राप्तुं न समर्थः । अतो वर्तमानकालस्य भविष्यत्कालस्य च समीचीन उपयोगः कर्तव्यः ।
अखिले विश्वे स्थवीयो वस्तु किम् ?
पर्वतो वा पृथ्वी वा ।
इच्छा । तस्याः कदाचिदप्यन्तो नाऽऽगच्छति । शास्त्रेऽपि उक्तं "इच्छा उ आगाससमा अणंतिआ" इति ।
यो वस्तु किम् ?
गजो वा लोहं वा ।
अतिगरीयस्तु गृहीतायाः प्रतिज्ञायाः पालनम् ।
लघीयः किम् ?
वायुर्वा तूलं वा ।
येन मनुष्य उन्नतिं प्राप्नोति तस्याऽऽत्मीयाधारस्य त्यागोऽतिलघु वस्तु ।
४३
Page #52
--------------------------------------------------------------------------
________________
गुरुः अतितुच्छं किम् ? शिष्याः दुर्जनत्वं वा वेश्यात्वं वा । गुरुः उपकारिणां विस्मरणमतितुच्छम् । गुरुः अतिसमीपं किम् ? शिष्याः पितरौ वा मित्राणि वा । गुरुः अतिसमीपं मृत्युः । यतः स निश्चितोऽस्ति । कस्मिञ्चिदपि च क्षणे आगन्तुं शक्नोति ।
जीवनस्येमां वास्तविकतां ज्ञात्वा सदाऽप्रमत्ता उद्योगिनश्च भवन्तु ।
४४
Page #53
--------------------------------------------------------------------------
________________
संवादः
भीष्म-द्रौपदी संवादः
-मुनिश्रुताङ्गचन्द्रविजयः
भीष्मपितामहो बाणशय्याया उपरि शयान आसीत् । तदा स युधिष्ठिरमुपदिशन्नासीत् । तावत् पितामहं द्रौपद्येकप्रश्नप्रच्छनायाऽनुज्ञां याचितवती ।
पितामहेनाऽनुज्ञायां दत्तायां सा कथितवती -
"महाराज ! प्रश्नप्रच्छनात् पूर्वमेव क्षमा याचे यन्मम प्रश्नो भवते न रोचेत" । भीष्मः कथितवान् – “अहं न कुप्यामि । तव मनसि यद् वर्तते तत् पृच्छ" । ____ द्रोपदी ब्रवीति स्म – “यदा दुर्योधनस्य राजसभायां दुःशासनेन मम चीरहरणं कृतं तदा भवान् अपि तत्रैव स्थितवान् । दयनीयतया मया भवत्पाघे साहाय्यं याचितं किन्तु भवता किमपि न कृतम् । अद्य भवान् धर्मोपदेशं ददानोऽस्ति किन्तु यदैकस्या अबलायाः प्रकाशमपमानं जायमानमासीत् तदा भवदीयो धर्मः कुत्राऽऽसीत् ?" ___ भीष्मो वदतिस्म - "पुत्रि ! सत्यकथनं ते, किन्तु तदाऽहं दुर्योधनगृहस्य भ्रष्टमाहारं गृह्णन्नासम् । तादृशानेन मदीया बुद्धिर्धष्टतामधिगता । अतोऽहं यौष्माकीणपक्षं जिघृक्षमाणोऽपि धर्ममाचरितुं न शक्तः । अद्याऽर्जुनशरैर्मम देहगतं भ्रष्टरुधिरमूढमस्ति । बहुकालपर्यन्तं बाणशय्यायां शयानोऽस्मि । देहात् भ्रष्टरक्तस्य निर्गमनादधुनाऽहं धर्मोपदेशदाने शक्तोऽभवम्" ।
आस्माकीनाहारस्याऽस्माकं वा वर्तने चि व्यवहारे च महाप्रभावो वर्तते । अत एव कथ्यते - . "यादृश आहारस्तादृश आचारः" ॥
Page #54
--------------------------------------------------------------------------
________________
झेनकथा
स्वभावः
-आ. श्रीविजयसूर्योदयसूरयः
कश्चन जनो झेनगुरोः समीपे आगतः स्वसमस्यां निवेदयितुम् । गुरुः स्वस्थतया तन्निवेदनं शृणोति स्म ।
स जनो वदति - "गुरो ! मम स्वभावोऽत्यन्तं क्रोधमयोऽस्ति । कोपस्याऽग्रे मम किमपि न चलति । कृपया क्रोधान्मां मोचयतु" ।
"अरे ! तव क्रोधोऽद्भुतो ज्ञायते खलु ! दर्शय तावत् तव क्रोधमयं स्वभावम्" - गुरुः सस्मितमवदत् । .
"गुरो ! अधुना कथं दर्शयेयम् ?" "कथं न दर्शयेस्त्वम् ? दर्शयितव्य एव" । "किन्तु गुरो ! क्रोधस्त्वकस्मादागच्छति, मम चित्ततन्त्रं च स्वाधीनं करोति" ।
"एवं वा ? तहि स नैव तव स्वभावभूतः ।" यदि क्रोधस्ते स्वभाव एव मूलप्रकृतिरेव वाऽभविष्यत् तदा तु त्वमधुनैव तं मेऽदर्शयिष्यः । त्वं तु तथा दर्शयितुं न शक्नोषि, ततो ज्ञायते यत् स त्वयि नास्ति । यद् वस्तु तव नास्ति तत् कथं तव स्वभावभूतं भवेत् ? प्रत्युत स तु तव विकृतिरस्ति" - गुरुः स्नेहसिक्तेन ध्वनिनाऽवदत् ।
तदनन्तरं, यदा यदा शिष्यस्य क्रोधोदयो भवेत् तदा तदा गुरोः स्नेहपूर्णं वचः स्मर्यते तेन यत् - क्रोधस्ते स्वभावो नास्ति प्रत्युत विकारोऽस्ति - इति । एवं चाऽनतिचिरेणैव स क्रोधान्मुक्तोऽभवत् ।
४६
Page #55
--------------------------------------------------------------------------
________________
कथा
अहङ्कारस्याऽन्धत्वम्
-मुनिधर्मकीर्तिविजयः
साधकेनैकेन बहुवर्षाणि साधना कृता । ततोऽचिन्तयत् सः - इदानी मया सर्वमपि ज्ञातं प्राप्तं च, अत इतः परं विशिष्टसाधना न करणीया इति ।
एकदा नदीतीरे एको जनः स्त्रिया सहोपविश्य समीपस्थचषकात् किमपि पिबति, इति दृष्ट्वा तेन साधकेन चिन्तितम् - एष कीदृशो जनोऽस्ति ? सर्वसम्मुखं स्त्रिया सह मदिरापानं कसेति ?
तदैव नद्यामेका नौरुत्पतिता । तस्मिन् आसीना जना नद्यां निमग्ना जाताः । एतद् दृष्ट्वा स जनस्त्वरितं नद्यां कूर्दितः । तेन स्वशक्त्या सर्वेऽपि जनाः संरक्षिताः ।
एष साधकस्तज्जनस्य समीपं गत्वोक्तवान् - धन्यवादार्हस्त्वम् । त्वया यद् दुष्कर्म कृतं तच्छुद्ध्यर्थमेव भगवता ते हस्ताभ्यामेतत् सत्कार्यं कारितम् ।
एतन्निशम्य स जन उवाच - मम वा त्यज, तव किं भवेत्, इति चिन्तय । साधकेन कथितम् - मूर्ख ! मया तूत्कृष्टसाधना कृताऽद्यावधि । ममाऽहितं न कदाऽपि भवेत् ।
स जनोऽवोचत् - त्वयाऽद्यपर्यन्तं यदपि कृतं तत्सर्वं हृदयकर्गजे लिखितमस्ति । ततोऽधुना ते चित्ते 'मया सर्वमपि प्राप्तम्' इति भ्रम उत्पन्नोऽस्ति । भोः ! साधना भ्रमणां नाशयति । तव साधना कीदृशी यया साधनया तव भ्रमो द्विगुणो जातः ? .
अहं यत् पिबामि स्म तत्तु नद्या जलमासीत्, अन्यच्च सा स्त्री मम जनन्यासीत् । तथाऽपि त्वया किं चिन्तितम् ? भ्रमो विनष्ट उत वृद्धिङ्गतः ? ...
साधको लज्जावनतः सन् तज्जनस्य चरणयोः पतितवान् ।
Page #56
--------------------------------------------------------------------------
________________
कथा
अ-क्षरः
-मुनिधर्मकीर्तिविजयः
गुरु नकः बाल्ये शालायां पठितुं गतवान् । तत्र सर्वेऽपि बालकाः स्वं स्वमध्ययनं कुर्वन्त आसन् । नानकः किमप्यकुर्वन् निरभ्रं गगनं निरीक्षते स्म ।
अध्यापकेन स दृष्ट उक्तश्च - कथं न पठसि त्वम् ?
नानक उवाच - पठाम्येवाऽहम् । अहं तादृशमध्ययनं कर्तुं प्रयते येनाऽध्ययनेनाऽन्यत् किमपि कर्तुं नाऽवशिष्टं स्यात् ।
शिक्षकोऽवोचत् - किम् ? नानक उक्तवान् - पिकवत् केवलं रटनमात्रेण सज्ज्ञानं नाऽवाप्यते । अध्यापकोऽकथयत् - त्वं तु किमपि न करोषि ? अक्षरज्ञानं तु प्रापणीयमेव ।
नानकोऽवदत् - अहं 'अ-क्षर'ज्ञानमवाप्तुमेवाऽत्राऽऽगच्छामि । यदा तद् 'अ-क्षर'ज्ञानं मया प्राप्येत तदा जीवन-मरणयोर्मध्ये न काऽपि भेदरेखा स्यात् । अहं तमेव 'अ-क्षरं' प्रत्यक्षत्वेन पश्यामि । ततोऽहं मम मनोलेखकं कथयामि - रे ! लेखक ! मोहं ममत्वं च विमुच्य त्यागरूपमषीभिः बुद्धिरूपकर्गजोपरि प्रेमस्वरूपलेखिन्या सदसतोर्भेदं लिखतु । यस्मिन् दिवसे लिखितुमेतद् समर्थो भवेः तस्मिन्नेव दिवसे त्वयाऽवश्यंतया मुक्तिः संप्राप्स्यते ।
बालक-नानकगुरोरेतद्वचनं निशम्य तत्क्षणमेवाऽध्यापको नानकपितुः कल्याणरायस्य समीपं गतवानुक्तवाश्च – भवतां नानको न पठितुं, किन्तु जगत् पाठयितुमागतवानस्ति ।
Page #57
--------------------------------------------------------------------------
________________
कथा
अतिथिसत्कारः
आङ्ग्लभाषायां-मूललेखकः - गैराल्ड-कर्शः ___ संस्कृतानुवादः - मुनिकल्याणकीर्तिविजयः
एकं भयाक्रान्तं चीत्कारं कृत्वा गेलिकः पृथिव्यां पतितः । सर्वथा निर्जनं सुप्रशान्तं च वन्यं वातावरणं विदारयन्त्येका गुलिका सणसणायमाना तत्पार्श्व एव पतित्वा शीतीभूताऽऽसीत्, अग्नितप्ता चुल्लिका जलेन सिक्ता ननु ! तस्य मार्गदर्शकस्य वक्षो भित्त्वा सा गुलिका मृत्युमाहूतवत्यासीत् । मार्गदर्शकस्तु तत्समक्षमेव भूमौ पतितस्य मत्स्यस्येव स्फोरं स्फोरं मृत आसीत् । ____कतिपयक्षणानन्तरं पुनरपि पर्वतीयशिलासु गुलिकाप्रक्षेपध्वनिः सप्रतिध्वनिः श्रुतस्तेन । दूरवीक्षणयन्त्रेण निरीक्षमाणोऽपि स न कमपि साक्षात्कृतवान् । सोऽनुमितवान् यत् कोऽपि क्रोशार्धात् रायफलास्त्रं प्रयुञ्जानोऽस्तीति । एतावता समीपस्थाया वनघटायाः कश्चन पक्षी उड्डयमानो दृष्टस्तेन । ततश्च मृत्युभयादापादमस्तकं प्रकम्पितः सः ।
सन्ध्याकालो हीतोऽपि घण्टात्रयानन्तरं भविता । तावत् तु तेन प्रतीक्षणीयमेव । तारकाणां क्षीणे आलोके एव सोऽग्रे गमिष्यति । किन्तु, तस्य मार्गदर्शको यदा दिवाऽपि मार्गभ्रष्टोऽभवत् तदा स रात्रौ घनान्धकारेऽस्मिन्नपरिचिते प्रदेशे कथमग्रे गमिष्यति ? - शिलामध्ये शयानः स चिन्तयन्नासीत् । ततः सहसा रिंगन्नेव स मृतस्य मार्गदर्शकस्य निकटं गतस्तस्य च प्रसेवमुद्घाट्य दृष्टस्तेन । तत्र कतिचन रोटिकाः पलाण्डुश्चैकः प्राप्य स खादितुं प्रवृत्तः । तावता तेन स्मृतं यत् दूराद् गुलिकाः प्रक्षिपन् स कश्चनाऽस्य मृतदेहादत्रं; ग्रहीतुमागच्छेत् कदाचित् । अतस्तेन मार्गदर्शकशवं कृष्ट्वा शिलाभ्योऽधस्तात् प्रक्षिप्तम् । प्रक्षेपणाच्च जातेन शब्देन सन्तुष्टः स रिंगन्नेव पुनरपि शिलानां मध्ये निलीनोऽभवत् । __ आरात्रि चलित्वा स सर्वथा श्रान्तोऽभवत् तस्मिन्नेव विजने प्रदेशे शयितश्च । सञ्जाते च प्रातःकाले स जागृतोऽभवत् पुनरपि च रिंगन्नेवाऽग्रे गन्तुं प्रवृत्तः । सन्ध्याकालं यावदेवमेव गच्छतस्तस्य स्थितिरुन्मत्तवत् सञ्जाता । स निष्कारणमेव हसति स्म चीत्करोति स्म च । पूर्वमेव स्फुटितं तस्य घटिकाथन्त्रमितोऽपि त्रिवादनमेव दर्शयदासीत् । एतावतैव तेनाऽनतिदूरस्थमेकं गृहं दृष्टम् । भयस्याऽऽशायाश्च विमिश्रं संवेदनं तस्य प्रत्येकं रोम उत्तेजयति स्म ।
Page #58
--------------------------------------------------------------------------
________________
श्रान्तस्योद्भ्रान्तस्य च गेलिकस्य नेत्रे सबाष्पे जाते । नैव सा नाऽऽसीत् मरुमरीचिका ! तस्यामुपत्यकायां प्रस्तरैरिष्टकाभिर्मृत्तिकया च निर्मितं गृहमेव तत्समक्षं दृश्यमानमासीत् । प्रस्खलत्पदः स शनैः शनैस्तं गृहं प्रति प्रस्थितः सर्वमपि शिष्टं सामर्थ्यं प्रयुज्य । गृहं प्राप्य द्वारं खटखटायितवान् स यावद् द्वारमुद्घटितं भवेत् तावत् तत्रैवाऽङ्गणे पतित्वा मूच्छितोऽभवत् ।
मूर्च्छावस्थायां गच्छता तेनैतदेव श्रुतं स्मर्यते स्म - 'आगच्छतु बन्धो ! स्वागतं भवतः' इति । एतदनन्तरं गेलिको दृष्टं श्रुतं वा न किमपि स्मरति स्म । ततो यदा चतुर्विंशतेर्घण्टाभ्योऽनन्तरं स जागृतस्तदा स्वं सूपं खादन्तं साक्षात्कृतवान् । अपरिचितां दृष्टिमितस्ततो भ्रामयित्वा स सर्वमपि वीक्षितवान् । ऐदम्प्राथम्येन तस्य दृष्टिपथे स हस्तः समागतो यः सूपकच्चोलकं गृहीतवानासीत् । पुराणा परिपक्वा च यष्टिकेव कालः कठोरश्च स हस्त आसीत् यस्मिन् दृढं स्नायुजालं वीणातारसमूह इव गाढमाकृष्टमासीत्, समग्रेऽपि च हस्ते स्थूला नाड्यः स्फीता आसन् । ततस्तस्य प्रावारकभुजाऽपि दृष्टा यस्मिन् कौशेयकमयानि पुष्पपत्राणि लम्बितान्यासन् । एतदनन्तरं तु स तस्योपस्थितस्य जनस्य समग्रमपि व्यक्तित्वमेव समीक्षितवान् । तस्याऽजेयं चिबुकं, हस्तिदन्ताविव शुभ्रं विस्तृतं च श्मश्रु, शुकचञ्चुरिव तीक्ष्णा नासिका, कृष्णे भास्वरे च नेत्रे, तदुपरि च विस्तृतं ललाटं गभीररेखालङ्कृतं, तस्योपरि च सुवर्ण-रजततारगुम्फितं कौशेयकशिरस्त्रम्.....।
गेलिकोऽनिमेषदृष्ट्या तं विलोकयन्नासीत् । सहसा तस्य समग्रो देहो भयोर्मिभिः प्रकम्पितः । तेन सम्यगवबुद्धं यत् पुरतः स्थितो जन आल्बानीयोऽस्तीति । स झटिति समुत्थाय गन्तुं प्रवृत्त इव तेन संरुद्ध: - "कृपया विश्राम्यतु" ।
स्खलद्गिरा गेलिकोऽवदत् – “किन्त्वहं कश्चन इटालीयो जनोऽस्मि .... वस्तुतस्त्वहं लेफ्टनन्टगेलिकोऽस्मि" ।
“भवतु यः कोऽपि", स वृद्धजनोऽवदत् । " किन्त्विदानीं भवान् ममाऽतिथिरस्ति । अतिथिसत्कारस्त्वस्माकं परं कर्तव्यमस्ति । भवान् मम गृहद्वारि समागतः इदानीं च गृहछदिषोऽधस्तादुपविष्टोऽस्ति । कृपया निर्भयतयोपविशतु खादतु पिबतु विश्राम्यतु च" ।
" किन्त्वस्माभिर्भवतो देश आक्रान्तोऽस्ति" 1
"आम्, सुतरां जानाम्यहम् " ।
"तर्ह्यहं भवतो बन्द्यस्मि ननु !" ।
"नैव भोः! अहं पूर्वमेव कथितवानस्मि खलु यद् भवान् मेऽतिथिः सम्प्रति च ममैव शय्यायां स्थितोऽस्ति । मम पत्न्या भवत्पादयोः पट्टिका बद्धाः । एतद्गृहं भवत एव मन्यतां यथेच्छं च स्थीयतां सहर्षम् । यदि भवान् दिनमेकं स्थातुमिच्छति तर्हि दिनमेकं स्थीयतां यदि च वर्षं
५०
Page #59
--------------------------------------------------------------------------
________________
स्थातुमिच्छेत् तर्हि वर्षमपि स्थीयताम् । वयं भवतः सानन्दं स्वागतं कुर्मः । यदा भवान् जिगमिषति तदा ममैवाऽश्वेन गन्तुं शक्ष्यति । यावच्च भवान् मे छदिषोऽधस्तादस्ति तावत् प्राणपणेनाऽपि भवन्तं सुरक्षितं रक्षिष्यामि " ।
गेलिकः परितो विलोकितवान् । विशालेऽपवरके स्थूलेषु तूलोपधानेषु शयित आसीत् सः । कुट्टिमं कुथेनाऽऽस्तृतमासीत् । कानिचन पित्तलमयानि पादफलकानि स्थापितान्यासन्, एकश्च पित्तलमयो दीपोऽपवरकभित्तीः प्रकाशयन्नासीत् । त्रिचतुरा मृण्मयदीपा अपि तैल- वर्तिकाभृता मन्दं मन्दं प्रकाशमाना आसन् । निकट एव रेडियोयन्त्रं स्थापितमासीत् यदुपरि तुर्कदेशीया जलकूपिका निहिताऽऽसीत् ।
"भवान् किमिदानीमेव भोजनं कुर्यादनन्तरं वा ?" स वृद्धो गेलिकं पृष्टवान् । “किञ्च, भवान् ख्रिस्तमतीयोऽस्ति । भोजनेन सह सुरापानं भवते रोचेत । किन्तु वयं हीस्लाममतीयाः सुरायाः स्पर्शमपि न कुर्मः । अतः क्षन्तव्या वयं यद् भोजनेन सह सुरां दातुं न शक्ताः । तथाऽपि मया भवत्कृते ब्राण्डीपानकं धूमवर्तिकाश्चाऽऽनेतुमादिष्टमेव भृत्यस्य । वयं तु धूमपानयन्त्रेणाऽनेन धूमपानं कुर्मः । यावच्च धूमवर्तिकाऽऽगच्छेत् तावदेनदुपयुनक्तु भवान्, अहमनुगृहीतो भवेयम् । अपि च, मम दुहितृभिर्भवतः प्रावारकमपि समीकृतमस्ति । तथा, भवत उपानहौ विदीर्णौ सन्तौ प्रक्षिप्तावस्माभिः । इदानीं भवान् मदीयाविमावुपानहौ परिधातुमर्हति । एतौ मोरक्कोदेशीयचर्मणा निर्वृतौ सर्वथा मृदुस्पर्शो स्तः । भवतः कृते नूतनं प्रावारकमपि मत्पुत्रीभिः स्यूतमस्ति । सज्जीकृते सति दास्यामि " ।
“मां गन्तुमनुमन्यताम् । अहं मम सेनाविभागेन सह सम्मिलितो भवितुमिच्छामि" । "यथा भवानिच्छति तथा भविष्यति” वृद्धो नत्वाऽवदत् । “कृपया प्रथमं भोजनं करोतु" । ततः स तालिकां वादितवान् । स्त्रियो भोजनभाजनानि गृहीत्वा तत्राऽऽगतवत्यः । गेलिकश्चोदरपूरं भोजनं कृतवान् । तस्य विनष्टा शक्तिः स्फूर्तिश्च प्रतिनिवृत्ते इव ।
“अद्यतनीया प्रत्यग्रा वार्ता का वा ?" स वृद्धं पृष्टवान् ।
"अस्मद्देशस्य राजा देशं त्यक्त्वा पलायितोऽस्ति, अल्बानियादेशश्च इटलीप्रशासनस्य हस्तगतोऽभवत्” ।
आनन्दातिरेकेण गेलिकः समुल्लसितोऽभवत् । तेन चिन्तितं " नूनमेतेन कारणेनैवेष वृद्धो ममेदृशं सत्कारादिकं कुर्वन्नस्ती"ति । अतः स सकृपमिव वृद्धाभिमुखं विलोकयन् अधिकारपूर्णस्वरेणाऽवदत् – “अहं सशपथं वदामि यद् भवता कृतः सत्कारोऽयं नैव विस्मरिष्यते” ।
-
"भवान् मम मन्तव्यं नाऽवागच्छत् किल । अहं त्वेतदेव विवक्षामि यद् भवानस्माकं प्राघूर्णकोऽहं च भवत आतिथ्यकार्यस्मि । मम दुःखं त्वेतावदेव यद् भवान् कश्चन इटलीदेशीयोऽस्ति । एतत्तु भवतो दौर्भाग्यम्” ।
५१
Page #60
--------------------------------------------------------------------------
________________
"दौर्भाग्यम् ? भोः ! मुखं नियन्त्र्य वदतु" - गेलिकः सावेशं कथितवान् ।
आम, दौर्भाग्यमेव । यतोऽत्र भवानस्माकं प्राघूर्णकोऽस्ति, किन्तु युद्धरङ्गे तु भवानस्माकं शत्रुरेव । अस्माकं द्वारि भवानागत इति भवत आतिथ्यं मम धर्मः । अतिथिसत्कारो नाऽस्माकं व्यवहारोऽपि तु धर्मोऽस्ति । अतोऽहं भवतो विशिष्टं सम्माननं कुर्वनस्मि चाटुकारितां वाऽऽचरन्नस्मीति नैव मन्तव्यम् । इदं त्वस्माकं गृहस्थधर्मस्य पालनमात्रम्" ।
गेलिको नाऽवदत् किञ्चित् ।। "कृपया किञ्चन मिष्टान्नमिदं खादतु" ।
"स्वादु भोजनं सम्पादयन्ति भवन्तः खलु ! । किञ्च, युष्माकमस्माकं च मध्ये युद्धं नाम केवलं नाटकमासीत्, तदप्येकपक्षीयम् । यूयं स्तोकमपि विरोधं नैव कृतवन्तः । यद्यपि भवन्तः पर्वतीया जना गुलिकास्त्रमतीव शोभनतया प्रयुञ्जन्ति इति तु मन्तव्यमेव । यदाऽहं पर्वतीयमार्गेणाऽऽगच्छनासं तदा क्रोशार्धात् केनचित् जनेन गुलिकाप्रहारेण मे मार्गदर्शको हतः" ।
गेलिको वदन्नेव सहसा तूष्णीको भूत्वा सकर्णतया किञ्चन श्रोतुं प्रायतत । काश्चन स्त्रियस्तारस्वरेण विलपन्त्य आसन् ।
"का एता रुदन्ति ?", गेलिको व्याकुलीभूय पृष्टवान् । तावता वृद्धकाऽऽगताऽवदच्च - "अस्माकं पुत्रा गृहमागच्छन्तः सन्ति" ।
गेलिकोऽपश्यद् यत् तस्या आननं कठोरं विवर्णं च जातमासीत् सा च मुखमनुद्घाटयैव हि शब्दानैतान् गदितवत्यासीत् । वृद्धस्तु सर्वथाऽनाकुलः स्थिरश्च स्थित आसीत् ।
द्वारमुद्घटितम् । द्वौ जनौ काष्ठफलकेन शवमेकं गृहीत्वाऽन्तरागतौ । __"मम ज्येष्ठः पुत्रोऽयम्" - वृद्धोऽवदत् । "कृपया क्षाम्यतु, भवतो विश्रामो बाधितोऽस्माभिः । ममाऽन्येषां चतुर्णां पुत्राणां शवान्यपीहाऽऽनीयमानानि सन्ति" ।
गेलिकोऽपश्यत् यद् वृद्धाया अक्षीणि हिमखण्डमिव गलन्त्यासन् । स्थूरस्थूरा अश्रुबिन्दवस्तकपोलयोनिपतन्त आसन् । तस्याः पीवरः सुग्रथितश्च देहः कम्पमान आसीत् । वृद्धस्तां तीक्ष्णेन गभीरेण च स्वरेणाऽवदत् - "तूष्णीं भवतु रूबि ! अस्माकं गृहे प्राघूर्णकोऽस्ति"। .
तयोः कनिष्ठः पुत्रः कुट्टिमोपरि निर्जीव: पतित आसीत् । तस्याऽचेतनो हस्त एकतो लम्बमान आसीत् । वृद्धा किञ्चिदवनम्य तद्धस्तं च स्वहृदयेनाऽऽश्लेष्य नीरङ्ग्यामश्रूणि सचिन्वतीवाऽन्यस्मिन्नपवरके गतवती।
"रूबी क्षाम्यतु महोदय !" - वृद्धोऽवदत् ।
Page #61
--------------------------------------------------------------------------
________________
"न काऽपि बाधा भोः ! मातृहृदयमाघातेन शोकग्रस्तं भवेदेव खलु !" - गेलिकः कथितवान् । "अहमपि युद्धे भागमग्रहीत् किन्तु मरणं मे भाग्ये नाऽऽसीत्" ।
गेलिकस्य मनः क्षुब्धं जातम् । तच्चित्ते सन्ताप इवाऽनुभूतः । सोऽवदत् - "भगवान् मैवं कार्षीत्... कदाचिन्मया भवतः कश्चन पुत्रो हतः स्यात्.... युद्धमासीत्, न जाने कस्को वा मे गुलिकया मृतः इति !" । ___"महोदय ! चिन्ता माऽस्तु, भवान् मे प्राघूर्णकः । मम गृहे न कोऽपि भवता सह दुर्व्यवहारं करिष्याति" - वृद्धः सादरमवनम्याऽवदत् ।
"नैव बन्धो ! नास्ति भयं मे भवतः सकाशात्, किन्तु सौजन्यस्याऽनुरोधः ......!" । "अवबुद्धं मया ! भवान् स्वीयां परिस्थिति स्पष्टीकुर्वन्नस्ति" - वृद्धो हस्तं प्रसारयन्नवदत् ।
"आतिथ्यस्य भवतां रीतिर्मे भृशं रुचिता । अहं भवते वचनं ददामि यद् भवतः सौजन्यस्याऽस्य कृतेऽस्माकं सर्वकारो भवते समुचितं पुरस्कारं दास्यति" ।
वृद्धः शान्त्या सरलभावेन चोक्तवान् - "भवान् पश्यन्नेवाऽस्ति यदेकस्मिन् तुङ्गपर्वतोपत्यकायां मम गृहमस्ति । इटलीयजनेभ्यो मे न किमपि भयमस्ति । अत्र यावदागमनस्यैक एव मार्गोऽस्ति यं केवलमहं मे भृत्या वा जानन्ति । ममेमं दुर्गं वशीकर्तुं भवतां राष्ट्रप्रमुखेण महत्येका सेनैव प्रेषणीया भवेत्" ।
"किञ्च, आतिथ्यविषयेऽपि भवान् मे कथनं शृणोतु किञ्चित् । अत्र प्रदेशे कश्चन जनः स्वप्रतिवेशिनः पत्नी हतवान् । पतिः स्वपत्नीघातकं हन्तुं प्रतिश्रुतवान् आसीत् । किन्तु, घातकेन किं कृतं स्यात् ? विचिन्त्य वदतु..."
"किं वा कुर्यात् सः ? देशं त्यक्त्वा पलायितवान् स्यात् !" ।
"नैव, स अतिथिर्भूत्वा तस्यैव प्रतिवेशिनो गृहं गतवान् विंशति वर्षाणि यावत् तत्रैवोषितवान् । न केनाऽपि तदभिमुखमङ्गुलिरप्युत्थापिता" ।
"वराकः स प्रतिवेशी !!" - गेलिकः सनिःश्वासमगदत् । "किं तमाखुपत्राणि समुचितानि वा ?"
"आम्, किञ्चिदिव ! किन्तु, अस्माद्विशेषज्ञा एतेभ्य उत्तमां धूमवर्तिकां निर्मातुं क्षमाः । तथा, कियदुत्तममभविष्यद् यद्यहं कूर्चमुण्डनं स्नानं च कर्तुं शक्तोऽभविष्यम् ? ततश्च स्वशिविरे प्रतिनिवर्तितुमपि चिन्तयन्नस्मि भोः !" ।
"यथा भवानिच्छति । भवान् यथेच्छमत्र गृहे स्थातुं गृहोपस्करं च सर्वमुपयोक्तुं स्वतन्त्रः । अहं मत्सेवकाश्च भवन्तं परिचरितुं तत्परा एव । यदि भवान् जिगमिषत्येव तदा तत्प्रबन्धमपि करोमि । भो इस्माइल !...." ।
Page #62
--------------------------------------------------------------------------
________________
एको भृत्योऽन्तरागतः । वृद्धस्तमादिशत् - "अस्माकं पाशानामकमश्वं पर्याणेन सन्नह्य दिनद्वयकृते भोजनसामग्री प्रगुणीकुरु, अली च कथयित्वा स्नानार्थं जलमुष्णीकारय कूर्चमुण्डनार्थं च तमत्र प्रेषय" ।
स्नानान्तरं गेलिकशरीरं स्फूर्तियुतं प्रत्यग्रं चाऽभवदिव । सैनिकवेषे तस्याऽऽयतविस्तृतं हृष्टपुष्टं च शरीरं सप्रभावं दृश्यते स्म । गेलिकः कटिबन्धे गुलिकास्त्रं बध्नन्नवदत् - "यदाऽहं भवन्तं मिलितुमत्र पुनरागमिष्यामि तदा अलीनामानं भृत्यं मया सह नेष्यामि । अयं कूर्चमुण्डने निष्णातोऽस्ति" ।
"महोदय ! आगच्छतु, अयं मे श्रेष्ठोऽश्वः सुसन्नद्धो गन्तुं च सिद्धोऽस्ति" - वृद्धः सादरं सनमस्कारं चाऽवदत् ।
"भवतु, तर्हि साधयामिः खलु !" – गेलिको गन्तुमुत्सुकतयाऽकथयत् । "चलतु, अहं भवन्तं मुख्यमार्ग यावत् प्रापयामि" ।
द्वावप्यश्वारोहिणौ सहैव चलन्तावास्ताम् । विशालान् शिलासमूहान् पारयित्वा तौ पर्याप्ततया दूरमागतौ । सूर्योऽपि पश्चिमां प्रति प्रस्थित आसीत् ।
"मम भूमेः सीमाऽत्राऽस्ति" - वृद्धो गेलिकं कथयन् तदवधानमाकृषत् ।
"किमिदं करोति भवान् ?" - गेलिको भयवशात् सहसा चीत्कृतवान् । वृद्धः स्वीयं गुलिकास्त्रं तद्वक्षसि लक्ष्यीकृतवानासीत् । गेलिकश्च सर्वथाऽनपेक्षितमिदं दृष्ट्वा कम्पमान आसीत् ।
"यो घातको विंशति वर्षाणि यावत् स्वीयातिथ्यकारिणो गृहे उषितवान् स एकदोद्यानं गतवान्, तत्क्षणमेव च गृहस्वामिना स गुलिकया विद्धः । गृहाद् बहिर्निस्सरणानन्तरं स तस्याऽतिथिर्नाऽऽसीत् । भवानपि मेऽतिथिर्नास्ति इदानीम् । किं मरणात् पूर्वं भवान् भगवत्प्रार्थनं करिष्यति वा ?"
गेलिकः शिरोऽधूनयत् ।
"मम पञ्चानामपि पुत्राणां शरीरेषु भवतो गुलिकास्त्रस्यैव गुलिकाः प्राप्ताः सन्ति । अर्थान्मे पञ्चाऽपि पुत्रा भवतैव हताः खलु !! प्रत्येकं पुत्रस्य मरणस्य प्रतिशोधार्थमहं पञ्च गुलिका भवति क्षेप्स्यामि" |
"वृद्धः पञ्चकृत्वो गुलिकास्त्रमचालयत् । गेलिकोऽश्वाद् विलुठ्य भूमौ पतितः । वृद्धस्तिरस्कारेण पादप्रहारं कृत्वा शिलाभ्योऽधस्तात् तद्देहं प्रक्षिप्तवान् । ततो द्वितीयमश्वं चालयन् स गृहं प्रतिनिवृत्तः । गृहस्य सर्वा अपि स्त्रियो मस्तकं कुट्टयन्त्यो रुदन्त्य आसन् । समग्रमपि वातावरणं करुणरुदनेन विलपमानमासीदिव । वृद्धो गृहं प्रविष्टः कुट्टिमे स्थितं च शवं परिष्वज्य सार्त्तनादं रोदनमारब्धवान् ।
___ (सौजन्यम् नवनीत-हिन्दी-डायजेस्ट
मार्च, २०१२)
Page #63
--------------------------------------------------------------------------
________________
कथा
अ-मृतं स्वामिगौरवम्
-मुनिरम्याङ्गरत्नविजयः
सेवकस्य तदधिपतिं प्रति सन्निष्ठाया निदर्शनानुसंधाने 'लुकमानो'ऽवश्यं स्मरणीयोऽत्र । स्वस्वामिनं प्रति तस्याऽहोभावोऽनन्य आदर्शभूतश्चाऽऽसीत् । भर्तुर्मनोगतान् भावान् मुखाद् बहिरागमनपूर्वमेव स्वकीयपारदृश्वधिया ज्ञात्वा संपूरयति स्म सः । उक्तञ्च - "अभणन्त एव कार्य, स्वामिनः साधयन्ति सेवकाः", तथा च "निगदिता हि सा (= स्वामिसेवा) सर्वव्रतोत्तमा" । इत्थं स्वाम्यपि सेवकस्येदृशभक्त्याऽतीव प्रसन्नः सञ्जातः ।
एकदा स्वामिना बहिस्ताद् गृहागमनवेलायां कालिन्दफलमानीतम् । आनयनान्तरं स लुकमानमुवाच - 'छुरिकामानय' । तत्र स्थितेन लुकमानेन हस्ते प्रागेव छुरिकाऽवगृहीताऽऽसीत् । स्वामी ईषद्धसित्वा छुरिकां गृहीत्वा च कालिन्दं खण्डयति स्म । नाथस्य अयं नित्यक्रमो यत् कस्यचिदपि पदार्थस्याऽऽनयनानन्तरं लुकमानायैवैदंप्राथम्येन भक्षणार्थं दातव्यमिति ।
प्रसिद्धमेतत् - मातपितरौ कुलजाताय स्वीयपुत्रायैव तस्य भागमैदम्प्राथम्येन यच्छतः ।
एष स्वामी अपि लुकमानं प्रतीदृगेव वात्सल्यं धारयति स्म । लुकमानेन कालिन्दस्य खण्डो गृहीत्वा भुक्तः, क्षणार्धेन स्वामिना द्वितीयांशो ढौकितः, सोऽपि भुक्तः । अनेनैव क्रमेण पञ्चसप्तकृत्वस्तेन फलस्य शकलानि भक्षितानि । स्वाम्यपि प्रसन्नचित्ततया तस्मै कालिन्दं ददाति स्म । एतदनन्तरं नाथेन स्वस्य भक्षणार्थं खण्डमेकं गृहीतं, किन्तु कालिन्दस्य मुखप्रक्षेपसमनन्तरमेव थत्कुर्वता तेन कालिन्दं बहिः क्षिप्तम् ।
तत्पश्चात् लुकमानं प्रति दृष्ट्वा स जगाद - रे लुकमान ! एतत् कालिन्दं तु नितरां तिक्तपरिणाममस्ति । 'आम्, अधिपते !' "तवैतद् तिक्तं न प्रतिभातम् ?"
Page #64
--------------------------------------------------------------------------
________________
"यदि तिक्तं भवेत् तहि प्रतिभायादेव" ।
"तत् किं त्वया तूष्णीम्भावेन भक्षितम् ? मया द्वितीयवारं दत्तं, तदैव त्वया निषेधः करणीय आसीत्" । ... "नहि, स्वामिन् ! मयैतादृशं कर्तव्यं नाऽऽसीत् ।'
"किमर्थम् ?"
"भवान् स्वामी, अहं सेवकोऽस्मि । सेवकभावे वर्तमानेन मयाऽस्मिन्नवसरे पर्यनुयोगो न करणीयः" ।
"किन्तु मया त्वमर्वाक् कर्हिचित् 'सेवकोऽसी' ति कथितः ?' "नैव, नाथ !" "तर्हि केन प्रयोजनेनाऽवितथालापने सङ्कुचितोऽसि ?"
"स्वामी ! भवता मह्यं प्रेम्णा प्रतिदिनं माधुर्ययुक्तानि प्रत्यग्राणि च फलानि प्रदत्तानि, अद्याऽनभिज्ञानादेव तिक्तफलमेकं भवता दत्तम् । ईदृशे सामान्यप्रसङ्गे यद्येतस्याऽहं प्रतिकारं कुर्याम् उताहो मुखभङ्ग कुर्यां ततोऽहं लोके निर्गुणी एव गण्येय । तथा चाऽत्रभवता भवताऽऽजीवनं मह्यमसकृद् यद् वात्सल्यं प्रदत्तं, तत्पुरत एतस्य कालिन्दस्य तिक्तता मन्मनसि नगण्या मोदावहा च" ।
लुकमानस्योक्तिं श्रुत्वा स्वामिनो नेत्रे हर्षाश्रुभिः क्लिन्ने जाते । __ भगवद्भिरस्मभ्यं जीवनं दत्तं, जीवनस्याऽसंख्येयानि मिष्टसुखानि वितीर्णानि, नैकोपकाराश्च कृताः, तद्यपि जीवने व्यवहारे च कहिचित् तिक्तदुःखदानुभवेषु तत्क्षणं वयं भगवन्तमुपालभामहे, ततो वयमपि निर्गुणा एव । लोके श्रुतौ च स्वामिगौरव-ममृततया ख्यातम् । ____स यत्किञ्चिदपि दद्यात्, तद्दाने तस्य निर्विवादं प्रेम एव, अतः प्रेम्णः स्वीकरणमेव समुचितं, न तु तिरस्करणम् । ____भो जनाः ! अत्र भगवन्तोऽस्माकं हितेच्छुत्वेनोपकारिणः सन्ति, अतः प्रभोः प्रेमानुग्रहं हर्षेण स्वीकर्तुं समुद्यता भवेम ।
इति शम् ॥
Page #65
--------------------------------------------------------------------------
________________
कथा
संस्कारप्रपा
मुनिः अक्षयरत्नविजयः
(१) भिक्षुकं चित्तम् अस्माकं मनो भिक्षुकसदृशं प्रतीयते । यतो भिक्षुकपार्वे यथा धनस्याऽल्पता दृश्यते तथाऽस्माकं मनसि शुभभावस्य हीनता दृश्यते । अत एव महर्षयो ज्ञापयन्ति - ‘एकोऽपि शुभभावो यस्मिन् समये मनसि समुद्भवेत्, तस्मिन्नेव समये तत् शुभकार्यमारब्धव्यम् । अन्यथा शुभभावो विलीनत्वमपि प्राप्नुयात् । क्वचित्तु शुभभावो दुर्भावे परिवर्तनमपि प्राप्नुयात्' ।
महाँल्लेखको हास्यकलाकारश्च मार्क-ट्वेनः । एकदा स ख्रिस्तधर्मालये गतवान् । तत्र ख्रिस्तधर्मगुरुणा प्रवचनं दीयते स्म । दानधर्मप्रेरकं तत् प्रवचनम् । धर्मगुरोर्वाणी अतिप्रभावसम्पन्नाऽऽसीत् । अतो मार्कट्वेनश्चिन्तितवान् – 'अद्य तु शतडोलरमितधनस्य दानं करिष्यामि' । स हस्तेन धनं गृहीतवान् । ___ स्तोकसमयानन्तरं सभामध्ये दानपात्रस्य पर्यटनमारब्धम् । सर्वे दानार्थिनो जना निजभावानुरूपं दानं कर्तुमारब्धवन्तः । इतो मार्क-ट्वेनश्चिन्तितवान् – 'दानार्थं शतडालरमितधनव्ययस्य काऽऽवश्यकता ? दशाऽपि बहु अस्ति' । दानपात्रं यथा यथा निकटमागतं, तथा तथा मार्क-ट्वेनस्य दानभावेऽपि ‘पञ्चडालरमितं सार्द्धद्विडालरमितं दानं करोमि' इति परिवर्तनमागतम् । दानपात्रं पूर्णतः समीपमागतं, तदा मार्क-ट्वेनो विचारं कृतवान् – 'मया दानार्थं केवलं चिन्तितं, काचिदपि दानघोषणा तु न कृता, अतो मया दानं न कर्तव्यम्' । दानपात्रं तस्य समीपादग्रे गतं तदा तु मार्कटवेन इमं विचारमपि कृतवान् यत् – 'दानपात्रात् यदि किञ्चिद् गृह्णामि तर्हि को बाधः ? दानपात्रे प्रचुरतरं धनमस्ति' ।
इदं मनोवैचित्र्यं मनःकौटिल्यमस्ति । वयं सावधाना भवेम यदस्माकं मनो भावभिक्षुकतां न प्राप्नुयात्, अपि तु भावकुबेरतां प्राप्नुयादिति।।
. (२) हृदयस्पर्शिचिन्तनम् आसीत् कौरवपाण्डवानां गुरुकुलवासस्य प्रथमं दिनम् । अभ्यासस्य प्रथमः पाठ आसीत् । द्रोणाचार्येण पाठितं सर्वेषां च वादितम् – 'सत्यं वदामि' इति । द्रोणाचार्य उक्तवान् – श्वः पाठमिमं परिपूर्णं पठित्वा
Page #66
--------------------------------------------------------------------------
________________
ऽऽगन्तव्यम्' । द्वितीयदिने पाठ्यशालाऽऽरब्धा । द्रोणाचार्यः पाठं पृष्टवान् । सर्वे विद्यार्थिनः पाठं कृत्वाऽऽगता आसन् । अर्जुन-नकुल-सहदेव-दुर्योधन-दुःशासन-भीमसदृशा अपि पाठं क्षतिं विनाऽब्रुवन् । परं युधिष्ठिर उक्तवान् – 'गुरुदेव ! मया पाठ न कृतः' ।
द्रोणाचार्य उक्तवान् – 'कामं,श्वः पाठं कृत्वाऽऽगन्तव्यम्' । पञ्चषा दिवसा व्यतीताः । किन्तु युधिष्ठिरः प्रतिदिनमेवमेवोक्तवान् – 'गुरुदेव ! मयाऽद्यापि पाठो न शिक्षितः' । अतो द्रोणाचार्यः सक्रोधं कथितवान् - 'नितरां मूर्खसदृशः प्रतीयसे, एतावदपि न शिक्षसे ?' वर्गमध्ये हास्यं प्रासरत् । ___ तदा युधिष्ठिरः प्रत्युक्तवान् - "गुरुदेव ! अहमपि लज्जामनुभवामि, परं किं करोमि ? अहं सत्यं वक्तुं प्रयत्नं करोमि, तथाऽपि मया क्वचित् क्वचिदसत्यं कथ्यते। ततोऽहं कथं ब्रवीमि 'सत्यं वदामीति ?' युधिष्ठरस्य शुभ्रमन्तःकरणं दृष्ट्वा सर्वेषां मनसि तत्प्रति आदरः समुद्भूतः । यतो युधिष्ठिरो मूल् न, अपि तु 'यद्यहमसत्यं वदेयं, तर्हि पाठोऽयं परिपूर्णो न कथ्येत' इति तस्य हृदयस्पर्शिचिन्तनम् । जीवने प्राप्ता ज्ञानसंस्कारसद्गुणा एवमेवाऽऽचरणस्थाः कर्तव्या इति कथासन्देशो ज्ञातव्यः ।
(३) अज्ञानम् ___ स्वातन्त्र्यवीरस्य महात्ममोहनलालकरमचन्दगान्धीवर्यस्याऽयं प्रसङ्गः । एकदा महात्मगान्धीवर्यः कस्यचिनगरस्य प्रवासाय निर्गतवान् । स रेलयाने सामान्यवर्गे प्रवासमारब्धवान् । तस्य कतिपया अनुगामिनोऽपि तेन सह प्रवासं कुर्वन्ति स्म । रेलयानं गतिमदभवत् । इतो गान्धीवर्यः शयितवान् । एकस्मिन् रेलस्थानके रेलयानं स्थितम् ।
गान्धीवर्यस्याऽपरिचितस्तथाऽपि तस्य गुणानुरागी कश्चिद् ग्रामीणो रेलयानं प्रविष्टवान् । स सुप्तं गान्धीवर्यमुत्थाप्य कथितवान् – 'अहमपि मूल्यपत्रिकां गृहीत्वा प्रवासं करोमि । त्वं निद्राधीनः स्यास्तन्नोचितम्' । इत्युकत्वा स तस्य पार्श्व उपविश्य 'जय महात्मा गान्धी' इत्युक्तवान् । अन्ये प्रवासिनस्तस्य वचनं श्रुत्वा हसितवन्तः । गान्धीवर्यस्योपासकेनैव गान्धीवर्याय कष्टं दत्तम् । ___ स्तोकसमयानन्तरं गान्धीवर्यस्य स्थानकमागतम् । अनुयायिभिः सह गान्धीवर्यो रेलयानानिर्गतः । स्थानकं मानवसमुद्रेण सङ्कीर्णं जातम् । सर्वे जना महात्मनो दर्शनार्थं समागता आसन् । स ग्रामीणः प्रथमं विस्मयं पश्चाल्लज्जां प्राप्नोत् । यतः स्वयं यस्याऽनुरागी अस्ति, तस्मै महात्मगान्धीवर्यायैव स क्लेशदाताऽभूत् । स साश्रुलोचनं महात्मनः क्षमां याचितवान् चरणस्पर्शं च कृतवान् ।
क्वचिदेवं भवति – महामूल्यः पदार्थोऽस्माकं समीप एव वर्तेत तथाऽपि तस्य हर्षः - तस्योत्सवोऽस्मद्हृदये न भवेत् । यतो वयमज्ञाता स्याम यन्महामूल्यं द्रव्यमस्मत्समीपेऽस्तीति । यदि वयं सावधाना भवेम तदैवाऽस्मत्पाबें स्थितं किञ्चिदपि महामूल्यमद्भुतं ज्ञातुं शक्तिमन्तो भवेम ।
५८
Page #67
--------------------------------------------------------------------------
________________
(४) गुरोर्मूल्यम् तुर्कदेशस्येरानदेशस्य चेयं कथा । द्वयोदेशयोर्मध्ये कस्मादपि विवादकारणाद् भीषणं युद्धमारब्धम् । बहूनि दिनानि व्यतीतानि । इरानस्य सैन्यमतिबलवदासीदतस्तुर्कसेना पराजयाभिमुखा स्थिता । ___ अत्राऽन्तर इरानदेशीयो महान् सन्यासी फरीदुद्दीनअत्तारस्तुर्कसैन्येन निगृहीतः । तुर्कदेशस्य राजा सन्न्यासिन उपरि 'गुप्तचर' इति आक्षेपं कृतवान् । तस्य च मृत्युदण्डशिक्षां घोषितवान् । यतस्तुर्कराजा मन्यते स्म यद् इरानदेशीयाः सर्वेऽपि मम शत्रवः सन्तीति, स विरागी महात्माऽपि कथं न भवेत् ? ___ इरानदेशे सन्न्यासिफरीदुद्दीनअत्तारो बहुलोकप्रियो महात्माऽऽसीत् । इरानदेशीयजनेषु तत्कृतेऽपारं प्रेम वर्तते स्म । जनहृदये तस्य कृते बह्वी श्रद्धा विलसति स्म । ___ 'तुर्कदेशीयबलेनाऽस्माकं गुरुर्गृहीतः' इति समाचारो जले स्नेह इव समग्र इरानदेशे प्रासरत् । 'फरीदुद्दीनअत्तारस्य तुर्कदेशे मृत्युदण्डो घोषितः' इति सन्देशेन त्विरानदेशीया जना अतिदुःखमनुभूतवन्तः ।
इरानदेशस्य केचिद् धनिकजनाः सन्देशं प्रेषितवन्तः - 'वयस्माकं सर्वसमृद्धिं तुभ्यं दास्यामः । कृपयाऽस्माकं गुरुं मुञ्च' । परं, तुर्कस्य नृपस्तं प्रस्तावं न स्वीकृतवान् । इरानस्य सैनिका अपि सन्देशमकथयन् - 'अस्माकमसवो ग्रहीतव्याः, परं सन्न्यासी मोक्तव्यः' । परं, क्रूरेण तुर्कशासकेन तेषां वार्ता नाऽङ्गीकृता ।
इरानस्य राज्ञा स्वस्य विशेषसन्देशवाहकः प्रेषितः । तेन कथितम् – 'अस्माकं सम्पूर्णमिरानदेशं गृह्णातु । परमस्मत्प्रियं महात्मानं मुञ्चतु' ।
तुर्कराज्ञाऽऽश्चर्यमनुभूतम् । स किञ्चिदपि न ज्ञातवान् । परमिरानीयराज्ञः सन्देशेनाऽभिभूतः स किञ्चिदपि अगृहीत्वेरानीयसन्न्यासिनममुञ्चत् । स इरानस्य नृपं समगच्छत पृष्टवांश्च – 'समरेण तु वयमिरानराष्ट्र प्राप्तुमक्षमा आस्म । तर्हि एकस्य योगिनः कृते कथं राष्ट्रं त्यजसि स्म ?'
इरानस्य राजा हृदयस्पृगुक्तवान् – 'भ्रातः ! सत्ता तु सायङ्कालसदृशी विनश्वरा । किन्तु स सन्न्यासी अस्माकं बहुमूल्यो गुरुः, तस्योपदेशः प्रभावश्चाऽविनश्वरः । यदि स महात्मा मृत्युमाप्नुयात् तर्हि इरानस्येतिहासः कलङ्कितो भवेत्, वयं सत्ताया अपि गुरोर्मूल्यं बृहद् मन्यामहे' ।
तुर्कसम्राट् स्तब्धोऽभवत् । स पुनः शीर्षमधूनयत् । .
Page #68
--------------------------------------------------------------------------
________________
कथा
तन्मयता
- सा. तत्त्वनन्दिताश्रीः
एको नृप आसीत् । तस्य राज्ये सर्वे जनाः सुखिन आसन् । स नृपः सुष्ठ रीत्या प्रजा रक्षति स्म । नृपः कलाविदासीत् । ततस्तस्य नगरे यदि कोऽपि कलाविदाऽऽगच्छेत् तदा नृपस्तस्य सन्मानं करोति स्म।
एकदा एकस्सङ्गीतज्ञतत्राऽऽगच्छत् । स सुप्रसिद्ध आसीत् । तस्य नाम श्रुत्वा सर्वे जनाः सर्वाणि कार्याणि मुक्त्वा धावन्ते स्म । धावन्तस्तस्य सङ्गीतं श्रोतुमागच्छन्ति स्म । नृपः कथितवान् - "भवतः सङ्गीतमस्मान् श्रावयतु"।
सङ्गीतज्ञोऽकथयत् – “राजन् ! निशायां सङ्गीतं श्रावयिष्यामि, किन्तु ममैको नियमोऽस्ति"। "हे सङ्गीतज्ञ ! भवतो नियमः कोऽस्ति ? तं नियमं कथयतु" - राजाऽवदत् ।
सङ्गीतज्ञः कथितवान् यत् – “मम सङ्गीतं शृण्वतः कस्याऽपि श्रोतुः शिरो यदि विधूयेत तर्हि तस्य शिरः छेदयिष्यामि"।
एनं नियमं श्रुत्वा तत्र गन्तव्यं न वेति सर्वेऽचिन्तयन् । यदि सङ्गीतस्याऽऽह्लादेन शिरो धूयेत तर्हि मृत्युनिश्चितोऽस्ति । ईदृशेन भयेन बहुशो जनास्सङ्गीतं श्रोतुमेव नाऽऽगच्छन् । . ___ सङ्गीतकलाविदोऽल्पजनास्तत्र गताः । सङ्गीतकारो निशायां सङ्गीतं प्रारभत । अल्पक्षणैरेव वातावरणं सङ्गीतमयमभवत्, सर्वे जनाश्च सङ्गीतरसनिमग्ना अभवन् । अथ शिरो धवितुं रोद्धं भृशं कठिनमासीत् । अतो भयेन सङ्गीतसभायां स्थिताः केचन जना बहिर्निर्गताः । . अथ सङ्गीतकारो निजां सर्वां शक्तिं प्रयुज्याऽपूर्वं सङ्गीतमश्रावयत् । तस्येदृशं सङ्गीतं श्रुत्वा पञ्चषाणां श्रोतृणां शिरंसि विधूतानि । सङ्गीतकारः सङ्गीतस्याऽऽनन्दे निमग्न आसीत् किन्तु नृपो नियमस्य भङ्गं दृष्ट्वा सङ्गीतसभा स्थगितवान्। ___ द्वितीयदिने तान् जनान् राजसभामाहूय नृपोऽकथयत् - "भवन्तः नियमस्य भङ्गमकुरुत, ततो भवतां मृत्युदण्डो भवेत्" ।
Page #69
--------------------------------------------------------------------------
________________
तद्दृश्यं दृष्ट्वा सङ्गीतकारः कथितवान् - "हे नृप ! अस्माकं नियमस्य भङ्गो न जातः, किन्तु एतावन्तो जना एव सङ्गीतप्रियाः सन्ति । यतस्ते सङ्गीतं शृण्वन्तः शृण्वन्तो निजात्मनं विस्मृतवन्तो मम च नियममपि विस्मृतवन्त: । ततस्सङ्गीते लीना एते जना एव मम सङ्गीतं श्रोतुं योग्याः सन्ति" । एतत् श्रुत्वा सर्वे सभाजना विस्मिता अभवन् । प्रीणितश्च नृपस्तेषां श्रोतॄणां सङ्गीतकारस्य च सम्माननमकरोत् ।
६१
Page #70
--------------------------------------------------------------------------
________________
कथा
एकदा सायंकाले गुरुः शिष्यैः सहाऽश्रमे उपविष्ट आसीत्, सर्वेषां मन आनन्दितमासीत् । वायुः शीतल आसीत् । विहगा निजक्रीडायां लीना आसन् । वृक्षाणां शाखा नृत्यं कुर्वन्ति स्म । सूर्यो निजतापं समहरत्, चन्द्रश्च निजशीतलतां प्रासारयत् । अस्मिन् रम्ये वातावरणे शिष्या निर्विकल्पेन मनसा केवलं गुरोरुपदेशमेव शृण्वन्ति स्म ।
अथ गुरुः स्वस्य हस्ते दुग्धेनं भृतं चषकमधारयत् । अनन्तरं गुरुणा पृष्टमस्मिन् चषके कियद् दुग्धमस्ति ?
शिष्याः
तस्य मानं कथयितुमशक्यमस्ति ।
गुरुः
अथ यूयं कथयत यद् यदि दुग्धेन भृतश्चषको युष्माकं हस्तेन ध्रियते, तदा काऽपि वेदना भवेन्न वा ?
-
-
गुरुः शिष्याः
गुरुः
-
शिष्याः
गुरुवर्याः ! कमपि भारं न अनुभवेम ।
गुरुः एकघण्टापर्यन्तं यदि चषको हस्तेन धार्येत, तदा किं काऽपि वेदना भवेत् ? शिष्याः हस्तः क्लाम्येत् ।
ततो गुरुणा पृष्टम् - यदि पञ्चघण्टापर्यन्तं हस्तेन ध्रियते तदा कीदृशी वेदना भवेत् ?
शिष्याः
-
प्रसन्नताया रहस्यम्
-
हस्तः अङ्गुल्यश्च कम्पेरन् ।
हस्तमुच्चैः कृत्वा चषको यदि ध्रियेत, तदा कीदृशी वेदना भवेत् ?
सम्पूर्णो हस्त: क्लाम्येत् ।
यदि चतुर्विंशतिघण्टापर्यन्तं वयं तया रीत्या चषकं धारयेम, तदा कीदृशी वेदना
भवेत् ?
शिष्याः ईदृश्या रीत्या तु चषको हस्तात् पतेत् ।
६२
सा. तत्त्वनन्दिताश्रीः
-
-
-
Page #71
--------------------------------------------------------------------------
________________
ईदृक् शिष्याणामुत्तरं श्रुत्वा, गुरुः शिष्येभ्यो बोधं दत्तवान् – हे वत्साः ! या वार्ता अस्माकं मनो दुष्टं करोति सा शीघ्रतया विस्मरणीया, यतस्तस्या वार्तायाः पुनः पुनः स्मरणमस्मभ्यं बह्रीं वेदनां ददाति, अन्यजना अपि बहुशो वेदनां प्राप्नुवन्ति । यदि वयं प्रसन्नतया स्थातुमिच्छामस्तदा दुष्टा वार्ता चिरकालं मनसि न धारणीया । गुरोरीदृशं गभीरं बोधं श्रुत्वा सर्वे शिष्या अमोदन्त । गुरोर्वन्दनं च कृत्वा स्वस्थानं गताः ।
Page #72
--------------------------------------------------------------------------
________________
मर्म नर्म
-मुनिश्रुताङ्गचन्द्रविजयः
सेवकः नाथः
सेवकः
नाथ ! मां भवद्भवने सेवकत्वेन स्थापयतु । अहं तु तादृशं सेवकमिच्छामि यः सर्वदा सेवां कुर्यात् । यदि त्वं कतिचिदिनानन्तरमन्यत्र गमिष्यसि तदा किम् ? नाथ ! अहं यत्र गच्छामि तत्र चिरकालपर्यन्तं तिष्ठामि । अन्तिमस्थानेऽहं पञ्च वर्षाणि स्थितवान् । त्वमन्ते कुत्राऽऽसीः ? कारागृहे !!!
नाथः सेवकः
शिक्षकः रमणः शिक्षकः रमणः
रमण ! त्वया गृहकार्यं कृतं वा? । नैव । किमर्थम् ? यतोऽस्माकं सर्वमेव गृहकार्य सेविकैव करोति !!!
पिताः पुत्रः
पुत्र ! एवमातपे निष्कार्य किं तिष्ठसि ? प्रस्वेदं शोषयितुं किल !
(अपराधं कारं कारमनेकशो दण्डप्राप्तकं जनमद्य पुनः दृष्ट्वा) न्यायाधीशः प्रतिपञ्चदशदिनमत्राऽऽगमनं किं ते रोचते किल ? किं तव प्रतिष्ठा वर्धते ? कीदृशी
लज्जाजनकवार्ता ? अपराधी भवान् अपि प्रतिदिनमत्राऽऽगच्छत्येव ! कीदृशं लज्जाजनकम् !!
Page #73
--------------------------------------------------------------------------
________________
विक्रेता
भो भ्रातः ! कश्चिदेवंविध उपायो वर्तते येन भवदापणात् क्रीतमातपत्रं चिरकालपर्यन्तं न नश्येत् ? न किञ्चिदपि दुष्करम् । भवतेदमातपत्रमातपात् तोयाच्च त्रातव्यम् !
क्रेता
पिता मनोजः
अयि मनोज ! त्वं बहुकालप्रभृत्यस्यां मृत्तिकायां किं मृगयसे ? तात ! भवतैवोदितं यत् त्वया मम नाम मृदि मेलितमतस्तन्मृगयमाणोऽस्मि !!!
राजेशः
दिव्येशः
भो दिव्येश ! ह्यस्त्वं कार्यालयगमनकाले त्वदीयां द्विचक्रिकां हस्ताभ्यां गृहीत्वा किमर्थं धावन्नासी: ?
यो मम कार्यालयगमने विलम्बो जातः । अतस्तदारोहणस्याऽपि समयो नाऽऽसीत् । अतस्तां हस्ताभ्यां गृहीत्वा कार्यालयं प्रति गच्छनासम् !!!
रुग्णः भिषक् रुग्णः
भो भिषग्वर्य ! अहं किञ्चिदपि स्मर्तुं न शक्तः । मम स्मृतिशक्तिरतीवदुर्बलाऽस्ति । ईदृशं भवता कदा प्रभृत्यनुभूयते ? किं कदा प्रभृत्यनुभूयते ???
एको जनो ग्राम्यान् ‘यावदहं तिस्रश्छोटिकां वादयेयं तावत् सिंहो भयेन पलायेत' इति कथयत्रासीत् । ___एकदा ग्रामे सिंह आगतः । ग्रामीणास्तं जनमाहूतवन्तः । सोऽपि सदर्पमागतः । सिंहस्य पुरतो गतः । ग्राम्या अपि तमनुसृतवन्तः । सिंहं निकषा गत्वा स त्रिश्छोटिकामवादयत् किन्तु सिंहस्तु सम्मुखमेवाऽऽगतः । स पुमान् भीतो ग्रामीणांश्चोक्तवान् - 'भो ! धावन्तु, सिंहस्तु बधिरः !' ।
Page #74
--------------------------------------------------------------------------
________________
प्राकृतविभागः
कलिकालसर्वज्ञश्रीहेमचन्दाचार्यविरचितं प्राकृतद्व्याश्रयमहाकाव्यम्
तृतीयः सर्गः कय-वम्मह-सामच्छं वर-सामत्था कओसवमुहिं । नयणोच्छवमुज्जाणं गओ निवो उच्छुओ दटुं ॥१॥ जय-छिह-ऊसुअ-मयणो अवज्ज-निप्पिह-सभज्ज-जुव-लोओ । अलि-सेज्ज-चूअ-कलिओ तओ पयट्टो वसन्त-उऊ ॥२॥ अहिमज्जु-जणय-अहिमंजु-माउ-भायाहिमन्नु-पमुहाण । अहिउच्चिआसि मयणो अणवंझासज्झ-कुसुम-सरो ॥३॥ गय-सज्झसस्स मयरद्धयस्स कुसुमज्झओउ-दुइअस्स । कंकेल्लि-पल्लव-मिसा आसि पयावो समिज्झन्तो ॥४॥ पट्टण-वहु-वलयाइअ-वट्ट-पयट्टालि-मण्डलो चूओ । पवण-कवट्टिअ-कुसुमरज-सुरहि-महि-मट्टिओ जाओ ॥५॥ ... कामिणि-धुत्तिम-वत्ता-निवत्तणो वल्लि-नट्टईण नडो । पयडिअ-वम्मह-वट्टो सिढिलिअ-वासन्तिआ-वेण्टो ॥६॥ विरहिणि-विसण्ठुलट्ठी-करणो रइणाह-रइ-महु-चउट्ठो । कामट्ठत्थो सुहओ चउत्थ-पुरिसत्थगाणं पि ॥७॥ ठीणम्बु-सीअलो थीण-चूय-लट्ठि-महु-बिन्दु-चुम्बणओ । वम्मह-संदट्टेसुं इट्ठाघाओ महुट्टिअओ ||८|| मुह-गड्ड-निबुड्डेहिँ व उच्च-विअड्डि-ट्ठिएहिँ पिज्जन्तो । छड्डिअ-मलउज्जाणो मड्डिअ-वेइल्ल-विच्छड्डो ॥९॥
Page #75
--------------------------------------------------------------------------
________________
प्राकृतविभागः
प्राकृतद्व्याश्रयमहाकाव्यस्य संस्कृतानुसर्जनम् (संस्कृत पद्यानुवादः)
- पं. नरेन्द्रचन्द्र-झा
तृतीयः सर्गः कृतमन्मथसामर्थ्य वरशक्तेः कृतमहं वसन्तद्यैः । नयनोत्सवमुद्यानं द्रष्टुं चोत्को गतो राजा ॥१॥ जयस्पृहोत्सुकमदनः पातकनिःस्पृहसभार्ययुवलोकः । अलिनिलयानैः कलितस्ततः प्रविष्टो वसन्तर्तुः ॥२॥ वीराग्रगण्यपार्थबलवद्रामाभिमन्युप्रमुखाणाम् । अभ्यर्हित एवाऽऽसीत् सफलसुमेषुः स्मरः कामम् ॥३॥ गतसाध्वसस्य मकरध्वजस्य खलु मधुद्वितीयस्य । वञ्जुलपल्लवमिषत आसीत्तेजः समिन्धानम् ॥४॥ पत्तनवधुवलयायितवृत्तप्रवृत्तालिमण्डलश्चूतः । पवनकदाथितसुमनोरजःसुरभिमृत्तिको जातः ॥५॥ रमणीधूर्तिमवार्तानिवर्तको लतानटीनामुपाध्यायः । प्रकटितमन्मथवार्तः शिथिलितवासन्तिकावृन्तः ॥६॥ वियोगिविसंस्थुलास्थिकरणो रतिनाथरतिमधुचतुर्थः । कामार्थधनः सुखदस्तुर्यपुरुषार्थनिरतानाम् ॥७॥ हिमजलशीतः स्त्यानसहकारमधुबिन्दुचुम्बनकः । मन्मथसन्दष्टेषु चेष्टाघातो मधोभृत्यः ॥८॥ . मग्नैरिव मुखगर्तेऽत्युच्चवितर्दिस्थितैश्च संसेव्यः । छदितमलयोद्यानः संमर्दितमल्लिविस्तारः ॥९॥
Page #76
--------------------------------------------------------------------------
________________
प्राकृ तद्वद्याश्रयमहाकाव्यम्
रय
- संमड्ड - सम-हरो कवड्डि- सिर- सरिअ-सलिल-सीअलओ । लंघिय - गड्डहवाहण-पुरो मयण - गद्दहिअ - लोओ ॥१०॥ मलयाचल - कण्डलिआ - आउह - सालाउ भिण्डिवालो व्व ठड्ढेण वुड्ड-जग-जय- छिहाइ गहिओ महु-भडेण ||११|| दड्डोज्जीविअ-मयणो विरहिणि- नीसास- वुड्डि- परिविद्धो । अविअड्ड-असड्ड-अणिड्डीणं पि विइण्ण - रइ - सद्धो ॥१२॥ रिद्धि पत्तो कम्पिअ- लवली - मुड्ढो वसन्त - -मुद्धन्नो । अड्ढद्धीकय-माणिणि-माणो पज्जुण्ण - दिण्णाणो ॥१३॥ पण्णास-गुणं मयणं पण्णरह - गुणं महुं च पयडन्तो । मन्तुमइ - मन्नु - दलो समत्त-लय-तम्ब - वित्थरणो || १४ || अविरहि-विरहि-थवातव-पत्तं पल्लत्थ - लयमपल्लट्टो । उच्छाहकरोणुत्थारयाण मलयाणिलो वाऊ ||१५|| भमरालिद्धे झसचिन्धय-चिन्हे आसि सिन्दुवारम्मि । भस्सिय-झसिन्ध - जीवाउ - भप्प - चुन्नं किर पराओ ||१६|| अप्पाणत्ता मुक्को भरियप्प - पिएहि पहिअ - सत्थेहिं । कंकिल्लि - कुम्पलं रुप्पिणि-सुअ-बाणं व दट्ठूण ॥१७॥ रुच्मि-निव-सरिस-जोव्वण - गुणेहि तस्सि कया जुआणेहि । पुप्फअ-असोअ - विपिणे परोप्पर - प्फद्धमन्दोला ॥१८॥ सो वि बुहप्फइ - सीसो बुहप्पई सो वि तत्थ ओच्छरिओ । निप्पहिअ-तिअस-लीलं दोला-लीलोसवं दट्टु ॥१९॥ विरहिअ - भिप्पं असिलिम्ह - कण्ठयं विगय- सेफ - कण्ठेहिं । तम्बम्ब-दलोत्तंसं दोलिर - तरुणीहि अह गीअं ॥२०॥ अखलिअ - जिब्धं पइ - नाम पुच्छिआ तत्थ खलिअ - जीहाओ । मय-विहलाहिं मय - भिब्भलाओं लट्ठीहि विब्भलिआ ॥ २१ ॥ उब्भमणुद्धं च ठिआ दोलासुं विज्ज - विजिय-कम्हारा । कम्भारजम्म- पीवल-कर- जुग्गय-चरण- - जुम्माओ ॥२२॥ कय- बम्भचेर-भंगा सुन्देरेणं स - बम्हचरिआण । चल - नेउर-जय- तूराहिअ - सर - सोडीर - धीराओ ॥२३॥
६८
Page #77
--------------------------------------------------------------------------
________________
संस्कृतानु सर्जनम्
सुरतश्रमापहारी शिवमूर्धसरित्सलिलशीतलकः । लङ्घितगर्दभवाहनपुरो मदनगर्दभितलोकः ॥१०॥ मलयाचलकन्दरिकाशस्त्रनिकेतस्य भिन्दिपालो वा । जंगज्जयस्य स्पृहया स्तब्धेन मधुभटेन धृतः ॥ ११॥ दग्धोज्जीवितमदनोऽयुक्ता निःश्वासवृद्धिपरिवृद्धिः । अश्रद्धापटुहीनानामपि सुवितीर्णरतिकामः ॥१२॥ ऋद्धि प्राप्तः कम्पितलवलीमूर्धा वसन्तमूर्धन्यः । अर्धाङ्गीकृतरमणीमानः प्रद्युम्नदत्ताङ्गः ॥१३॥ पञ्चाशद्गुणमदनं दशपञ्चगुणं मधुं च कुर्वाणः । भामाविदलितमन्युर्निखिललतास्तम्बविस्तरणः ॥१४॥ अविरहिविरहिनवानवपात्रं पर्यस्तलतमपर्यस्तः । अलसानामुत्साहो मन्दो मलयानिलः प्रववौ ॥ १५॥ भ्रमराश्लिष्टे मकरध्वजचिह्न ननु बभूव निर्गुण्डे | धूलिर्भस्मितमन्मथजीवातोर्भस्मचूर्णं किम् ॥१६॥ आत्मन आत्मा मुक्तः स्मृतनिजदयितैः पथिकसार्थैः । नीपविकसितकुसुमं दृष्ट्वा प्रद्युम्नबाणं किम् ॥१७॥ रुक्मिनृपसदृशयौवनगुणैश्च तस्मिन् कृता युवभिः । पुष्पितवञ्जुलविपिने परस्परस्पर्धमन्दोला ॥१८॥ सोऽपि बृहस्पतिशिष्यो बृहस्पतिः सोऽपि तत्र चोत्कृष्टः । निष्प्रतिभामरलीलं दोलालीलोत्सवं द्रष्टुम् ॥१९॥ विरहितभीष्मं श्लेष्मविरहितकण्ठं सुरम्यकण्ठाभिः । ताम्राम्रदलोत्तंसं दोलिततरुणीभिरथ गीतम् ॥२०॥ पत्यभिधानं पृष्टाः तत्राऽस्खलितं स्खलितजिह्वाः । मदविकलाभिः सम्मदविकला यष्ट्यौघविह्वलिताः ॥२१॥ विद्याजितकश्मीरा ऊर्ध्वमनूर्ध्वं स्थिताश्च दोलासु । कश्मीरजन्मकुङ्कुमकृतपिङ्गलपाणिपदपद्माः ॥२२॥ कृतयमसंयमभङ्गाः सौन्दर्येण सब्रह्मचर्याणाम् । चलनूपुरजयतूराहितकामपराक्रमोत्साहाः ॥२३॥
६९
Page #78
--------------------------------------------------------------------------
________________
प्राकृतहचाश्रयमहाकाव्यम् धिज्ज-गुरु-घुम्मण-समुन्नय-पय-पेरन्त-हणिअ-पज्जन्ते खण-पुप्फिए असोए अच्छेरस्स वि कयच्छरिआ ॥२४॥ अच्छअर-सोअमल्ला कयच्छरीआ पिअच्छरिज्जाण । पल्लत्थ-दीहरोरुअमभिपल्लाणिअ-पिअ-कडीओ ॥२५॥ धरणि-बहस्सइ-सीसेण सयल-कल-कोसले बहप्फइणा । विलया वणस्सइ-वणे दिट्ठा उवणय-वणप्फइणा ॥२६॥ बप्फुल्ल-वयण-बाहुल्ल-लोयणीकय-पउत्थमुल्लसिअं। दस-काहावण-वीस-कहावण-मुल्लं तिलय-फुल्लं ॥२७॥ दुहिआण दुक्ख-हरणम्मि दक्खिणो काम-दाहिण-करो व्व । उम-तित्थिआण तूहं फुड-फुल्लो आसि महुअ-तरू ॥२८॥ पायाहओ असोओ कोहलि-सामाहिँ पम्हलच्छीहि । कोहण्डी-कुसुमो कम्हारज-किसलो अ हवइ म्ह ॥२९॥ नव-रवि-रस्सि-पसूणो सर-उम्ह-करो अलक्खि बम्ह-तरू । रोलम्ब-सह-रव-कय-सागय-पण्हो महु-सिरीए ॥३०॥ जण्हवि-जल-ससि-जुण्हा-सीयलमलि-पडल-कसण-कसिण-दलं अवरह-विअसिअं आसि पाडलं रइअ-पल्हायं ॥३१॥ अक्खलिअ-सुत्त-निच्चल-अणिट्ठरोग्गीव-छच्चरण-भुत्तं । विरहिणि-दुक्खोप्पायन्तप्पायं कुरवयं फुडिअं ॥३२॥ खग्गि-पिअ-सेर-मुद्धय-सिरीस-लग्गा अलक्खि भमरोली । नासीकय व्व भल्ली विक्कमि-कन्दप्प-वीरेण ॥३३॥ भव्व-सरा वण-वारे सद्दिअ-विक्कव-पउत्थ-वहु-वन्द्रा । भद्रं व भद्द-सिरिणो पढिउं लग्गा पिगी महुणो ॥३४॥ वक्कलि-दिआण सव्वाणोव्वेय-करी अकम्मसाणं पि । आबल्ल-विरत्ताण वि दारन्ती हियय-दाराइं ॥३५।। अगणिअ धाइं धारी-सुआणुसरिआओं कोउहल्लेण । फुल्लंधुअ-धत्ति धाविआओं बाला नवं लवलि ॥३६।। मायन्द-निउंजे कूजिएहिं अन्नाण-जाणि-मण-हरणा । मत्ता अतिण्ह-सर-सर-तिक्खण-विण्णाणिणि व्व पिगी ॥३७॥
७०
Page #79
--------------------------------------------------------------------------
________________
संस्कृतानुसर्जनम् धैर्यभ्रमणसमुन्नतपदपर्यन्तातिनाशितप्रान्तः । क्षणपुष्पिते ह्यशोके सविस्मयानां कृताश्चर्याः ॥२४॥ आश्चर्यसौकुमार्याः प्रियाद्भुतानां पुनः कृताश्चर्याः । पर्यस्तदीर्घसक्थिकमभिपर्याणितदयितकट्यः ।।२५।। पृथिवीगुरुशिष्येण सकलकलाकौशले पुनर्गुरुणा । वनिता वनस्पतिवने दृष्टा उपनतवनस्पतिना ॥२६॥ बाष्पार्द्रवदनबाष्पक्लिन्नाक्षीकृतप्रोषितमुल्लसितम् । त्रिंशदधिककार्षापणमूल्यं मधुरं तिलकपुष्पम् ॥२७॥ दुःखितपीडाहरणः किमु पाणिर्दक्षिणो ह्यनङ्गस्य । गौरीसेवकतीर्थं विकसितकुसुमो मधूकतरुः ॥२८॥ पादाहतो ह्यशोकः कूष्माण्डश्यामपक्ष्मलाक्षीभिः । कूष्माण्डीकुसुमसमः कुङ्कुमकिसलो बभूव पुनः ॥२९॥ नवरविरश्मिप्रसूनो दृष्टः स्मरतापकः पलाशागः । रोलम्बध्वनिविहितस्वागतप्रश्नो मधुश्रियो मधुरः ॥३०॥ गङ्गाजलशशिरोचिःशीतलमलिपटलनीलसर्वदलम् । अपराह्ने संफुल्लं पाटलमासीदधिकगन्धम् ॥३१॥ अस्खलितसुप्तनिश्चलसुकुमारोद्ग्रीवषट्चरणमुखम् । विरहिणिदुःखोत्पादमृत्युप्रायं स्फुटं कुरवम् ॥३२॥ गण्डकप्रियसम्मोहकशिरीषलग्ना ह्यलक्षि मधुपालिः । न्यासीकृतेव भल्ली विक्रमिकन्दर्पवीरेण ॥३३॥ स्वरभव्या वनभागे शब्दितविक्लवप्रवासिवधुवृन्दा । भद्रश्रिय इव भद्रं पठितुं लग्ना मधोः पिकी चित्रम् ॥३४॥ उद्वेजिका द्विजानामपि धृतवल्कलविशुद्धशीलानाम् । आबाल्यविरक्तानां व्यथयन्ती चित्तमर्माणि ॥३५॥ त्यक्त्वा धात्री बालाः सृततत्पुत्र्यः स्वयं च कुतुकेन । इन्दिन्दिरधात्रीमिव लवली प्रति धाविताः कुतुकात् ॥३६।। माकन्दकुञ्जकूजितकेन बुधानां मनोहरा सद्यः । स्मरकुण्ठितशरतेजनविचक्षणेव पिकी मत्ता ॥३७।।
७१
Page #80
--------------------------------------------------------------------------
________________
प्राकृतद्वयाश्रयमहाकाव्यम्
मज्झण्हतरू मज्झण्ण-पुप्फ- जीविअ - दसार - वइ - पुत्तो । महु - जुव-मंसु - सरिच्छालि-गुच्छओ आसि मण -हरणो ॥ ३८ ॥ हरि अन्द - रुप्पि - सरिसाण वि पहिआणं वणं मसाणं व । रत्ती अराई विकसिण - पलासेहि खोहयरं ॥ ३९॥ मुच्छिर-सरा कय-गुणक्खाण व्व अविग्घ-कट्ठमहु- पाणे । नीसास - निज्झरा इव चउ-कट्ठे सिसिर - सिरि- मुक्का ॥४०॥ निब्भर - महद्धि-गन्धे वण- सिरि- गुप्फत्थ - नील- मणि-निउरा । अच्छि - पडिक्खण-मज्झे अवुड्ड- बउले गया अलिणो ॥४१॥ भसलालिद्ध-पसत्थोग्गय - पुप्फो आसि कामि - भिब्भलणो । दिग्घामोओ दीहं ऊससिअ - रईस सिरिसो ॥४२॥ वम्मह-तंस-सरोवम-संझा-सुन्देर- हारि - कुंपलओ । विहलिअ - पहिओ धट्ठज्जुण - भाउ - समे वि कामकरो ||४३|| कणिआर-तरू नव - कण्णिआर-सुन्देर-दरिअ - सब्भावो । हर - खन्द - जुग्ग- कुसुमो जाओ रंजिअ - हर- क्खन्दो ||४४ || पिअ - कुसुम- पयर - पूरिअ - कुसुम-प्पयरो पमुक्क-मेर - सिरी । तेल्ल-सणिद्धालि-कुलापम्मुको आसि वेइल्लो ||४५॥ कोल्ला-सोत्त-पडिच्छन्दीकय-रय - सेव्व- घम्म - सलिलाण । पुप्फअ-लवली जाया सेवा - जुग्गा मयच्छीणं ॥४६॥ महु-नक्ख - आउह- नह व्व आसि सारंगि- वत्थ - कन्तीइं । छमरुह-रयण-पलासे कुसुमाइँ सलाह-पत्ताइं ॥४७॥ जुव - जण - जणिअसणेहा पउत्थ - विरहागणिम्मि णेह - समा । मयण- पयावग्गि- णिहा पलक्ख - तरु- पल्लवा जाया ॥४८॥ सिरि-नन्दण - किरिआरिह - तरुणीहिं चइअ - कसिण - हिरिआहिं । अह कुसुमावचय-कलाओं दंसिआ दिट्ठिआ भणिउं ॥४९॥ वासेणं वरिसेहि विनाऽमरिसो किर पियाइ जो गमिही । सो दरिसिअ - नव-चूए पिए गओ झत्ति हरिस - वसा ॥५०॥ मयण-वइरग्गि-तत्तेण तोसिआ सुदढ - माण - तविअ - पिआ । कवि वज्ज- कढण - हिअया केण वि दाउं बउल-दामं ॥५१॥
७२
Page #81
--------------------------------------------------------------------------
________________
संस्कृतानु सर्जनम्
मध्याह्नपुष्पजीवितविष्णुतनूजो मनोहरण: । मधुतरुणदंष्ट्रिकालिगुच्छोऽप्येकस्तरुश्चाऽऽसीत् ॥३८॥ रुक्मिसदृक्षाणामपि ननु पथिकानां श्मशानमिव विपिनम् । कृत्स्नपलाशैः सततं क्षोभकरं धैर्यहीनानाम् ||३९|| मूच्छितलयागुणाख्या इवाऽविघ्नसरसकाष्ठमधुपाने । निःश्वासनिर्झरा इव शिशिरश्रीरहिताश्चतुर्दिक्षु ||४०|| निर्भरमहर्द्धिगन्धे वनलक्ष्मीगुल्मस्थरत्नमञ्जीरा । अक्षिप्रतीक्षणमध्ये नूतनबकुले गता भ्रमराः ॥४१॥ भ्रमरालिङ्गितशस्तोद्गतपुष्पोऽभवत् कामिविह्वलनः । दीर्घामोदो दीर्घं जीवितमदनः शिरीषोऽपि ॥४२॥ मदनत्र्यस्रशरोपमसन्ध्यासौन्दर्यहारिकुड्मलकः । विचलितपथिको नूनं रतिकारी शिखण्डिमित्रेऽपि ||४३|| विचकिलवृक्षो नूतननिजसुमसौन्दर्यदृप्तसद्भावः । शर्वांशोचितकुसुमो जातो रञ्जितहरस्कन्दः ॥४४|| प्रियकुसुमनिवहपूरितकुसुमप्रकटः प्रमुक्तमेर श्रीः । तैलस्निग्धमधुपकुलमुक्तः किल विचकिलो जातः ॥४५॥ कुल्याप्रवाहसदृशी कृतरतसेवातिघर्मसलिलानाम् । पुष्पितलवली जाता सेवायोग्या मृगाक्षीणाम् ॥४६॥ मधुकेसरिरक्तनखा आसन् दैत्यारिरक्तकान्तीनि । तरुवररत्नपलाशे श्लाघापात्राणि कुसुमानि ॥ ४७|| युवजनजनितस्नेहाः प्रोषितविरहानलेषु तैलाभाः । मदनप्रतापानलभाः प्लक्षद्रुनवपल्लवा जाताः ॥४८॥ श्रीनन्दनक्रियोचित-तरुणीभिस्त्यक्तलज्जाभिः । कुसुमावचयकला अथ दिष्ट्या ननु दर्शिता भणितुम् ॥४९॥ वर्षेण च वर्षैरपि नाऽमर्षः किलाऽगमत् प्रियाया यः । स हि दर्शितनवचूते व्यगलद् हर्षाद् झटिति तस्याः ॥५०॥ मदनानलघनमानतप्ता सन्तोषिता प्रिया काऽपि । शतकोटिकठिनचित्ता दत्त्वा बकुलस्रजं भर्त्रा ॥५१॥
७३
Page #82
--------------------------------------------------------------------------
________________
प्राकृतस्याश्रयमहाकाव्यम्
कीइ वि किलन्त-कम-विप्पव-हरणा मल्लिआण मालाओ । महु-सुक्क-पक्ख-जुण्हा-पव व्व उप्पाविआ गयणे ॥५२॥ गुम्फन्ती जव-दामं भविअ-सिआवाइ-चेइअ-निमित्तं । का वि जुवई जुवाणय-मण-थेरिअ-चोरिअमकासि ॥५३॥ सिविणम्मि वि अइदुलहा सिणिद्ध-कुसुमा सणिद्ध-मयरन्दा । परिमल-णिद्धा कीइ वि रइआ वासन्तिआ-माला ॥५४॥ .. कण्ह-कसिणालि-कसणा लवली गन्धारिहा वि नोच्चिणिआ । केण वि कज्जल-कण्हं सुमरिअ कबर पिअयमाए ॥५५॥ अणरह अणरुह-दामं रे मुक्ख-मुरुक्ख करसि इअ भणिउं । पोम्मच्छीए हणिओ को वि पिओ पाय-पउमेण ॥५६।। छउमेण अछम्मेण य साम-दुवारेण दण्ड-वारेण । केण वि का वि अगेज्झा बउलेहि पसाइआ तणुवी ॥५७॥ गरुवीओ लवलीओ सुहुमे वत्थे सुरुग्घजे खित्ता । कीए वि हु मुद्धाए सुवे विहसिरा वि कलिआओ ॥५८।। कुसुमाकर-रिउ-स-जणा सुवे जणा पारिजाय-तरुणो व्व । सर-जीआभालि-कुला सर-ठग-वाणारसि-पएसा ॥५९॥ आणाल व्व कणेरूहि कुरवया दढयरं समालिद्धा । वर-विलयाहि अहरिआचलपुर-मरहट्ठ-जुवईहिं ॥६०॥ लवणिम-जल-द्रह निह-नाहि-मण्डले उच्चिणेसु लहुअमिमं । हलिआर-गोरि हरिआल-वनयं हलुअममिलायं ॥६१॥ वण-सिरि-णडाल-तिलयं तिलयं गेय्हं तए वर-णलाडे । गेज्झाथोव-परिमलं अथोक्क-जहणे अथेव-सिरि ॥६२॥ दाही अथोअ-कुसुमेहि सेहरं दिट्ठिएह बिम्बोट्ठि । धूआ-बहिणी-भइणी-दुहिअ व्व तुह प्पिआ लवली ॥६३॥ . छूढासव-गण्डूसे खित्त-पउत्ताडणे समुच्चिणसु । पुप्फाइँ बउल-वच्छे असोअ-रुक्खे अ विलय-वरे ॥६४|| सुर-वणिआ-नाग-त्थी-अकूर-कय-हरिसमीसि-उल्लसिअं। पिच्छेत्थी-धिइ-जणइं दिहि-मइ हिन्ताल-मंजरिअं ॥६५।।
७४
Page #83
--------------------------------------------------------------------------
________________
संस्कृतानु सर्जनम्
क्लान्तानां क्लान्तिहराः कुतुकेन कयाऽपि मल्लिकामालाः । मधुशुक्लपक्षकिरणापूराः क्षिप्ता इवाऽऽकाशे ॥५२॥ जपास्रजं गुम्फन्ती चैत्यनिमित्तं जिनस्य भव्यस्य । काऽपि च युवतिर्यूनां हृदयस्थैर्यं जहाराऽरम् ॥५३॥ स्निग्धकुसुमकरन्दा स्वप्नेऽप्यतिदुर्लभा हरा मनसाम् । प्रियपरिमला: कयाऽपि रचिता वासन्तिका मालाः ॥ ५४ ॥ कृष्णासितातिनीला गन्धार्हाऽपि च नोच्चिता लवली । केनाऽपि कज्जलाभां स्मृत्वा कबरीं स्वदयितायाः ॥५५॥ रे मूर्ख ! ममाऽयोग्यं माल्यं क्रियते त्वयेति कथयित्वा । कोऽपि हतः पद्माक्ष्या प्रियपाशः पादपद्मेन ॥५६॥ छद्माछद्माभ्यामपि सामद्वारेण दण्डयोगेन ।
केनाऽपि काऽप्यगृह्या केसरकुसुमैः प्रसादिता तन्वी ॥५७॥ गुर्वीतो लवलीतः क्षिप्ताः सूक्ष्मातिसूक्ष्मवस्त्रेऽपि । नववध्वा च कयाऽपि श्वो विहसित्र्योऽपि ताः कलिकाः ॥५८॥ ऋतुराजस्य स्वजनाः स्वीया अपि पारिजातस्य । कामज्याभालिकुलाः स्मरशठवाराणसीदेशाः ॥५९॥ आलानानि वशाभिः कुरबकवृक्षा दृढं समाश्लिष्टाः । वरवनिताभिरधरिताचलपुरमरहट्टयुवतीभिः ॥६०॥ लवणिमतटाकसुन्दरनाभीमण्डलके चिनुष्वेदम् । हरितालगौरिहरितालवर्णकं लघुकममिलातम् ॥ ६१॥ वश्रियोऽलिकतिलकं तिलकं ग्राह्यं त्वया वरालीके ! । ग्राह्यास्तोकसुगन्धं सुपृथुलजघनेऽतिशयितश्रि ! ॥६२॥ दास्यत्यशोककुसुमैरवतंसं सम्मदेन बिम्बोष्ठि ! | दुहिता भगिनी भगिनी दुहितेव तव प्रिया लवली ॥६३॥ क्षिप्तासवगण्डूषे प्रक्षिप्तपदोत्ताडने संचिनु ।
पुष्पाणि बकुलवृक्षे वञ्जुलवृक्षे च पद्माक्षि ! ॥ ६४॥ सुरवनिता-नागस्त्रीसमधिककृतहर्षमीषदुल्लसिता । पश्य स्त्रीधृतिजनिकां धृतिमति हिन्तालमञ्जरिकाम् ॥६५॥
७५
Page #84
--------------------------------------------------------------------------
________________
प्राकृतस्याश्रयमहाकाव्यम् सिसु-मंजर-जुव-वंजर-जर-मज्जारेहिँ पल-भमा दिटुं । वेरुलिअ-केसि वेडुज्ज-भूसणे किंसुअं लेसु ॥६६॥ एण्हि पिच्छेत्ताहे गिण्हसु रम्भं कुणेसु अ इमाए । पुरमाणं पि अपुव्वं आमेलं हित्थ-हरिणच्छि ॥६७।। तट्ठातत्थालि-कुलो भयस्सई अट्ठमो व्व पहिआण । तुह जुग्गो पुन्नागो रूवेण बहस्सइ-घरिल्ले ॥६८।। अमइल-तणु परिगुम्फिअ-पोप्फलि-मउरेण भसल-मलिणेण । अवह-कुचोवह-हत्थोभय-चलणे तुज्झ भूसेमि ॥६९॥ सिप्पि-पिह-नयण-छुत्तोत्तंसे आढत्त-संझ-रायमिमं । उच्चिणसु भमर-छिक्कं महु-पाइक्कं जवा-कुसुमं ॥७०।। आरद्ध-बहल-परिमल-केलि-पयाईकयन्न-तरु-कुसुमं । किडि-दाढ-सुत्ति-भंगोज्जलमुच्चिण फुल्ल-वेइल्लं ॥७१।। बाहिं अबाहिरे फुड-पेमेहि पेअसीओं तरु-हेटे । केहि पि इआलविआ रईइ माउच्छ-धूअ व्व ॥७२।। निअ-माउसिआ-पिउसिअ-पिउच्छ-तणया-घरे व्व उज्जाणे । मिहुणेहिं हित्थ-तिरिच्छि-पिच्छिरेहिं रमिअमेअं ॥७३।। आसण ठिआइ घरिणीइ गह-वई झम्पिऊण अच्छीइं । हसिरो मोत्तुं संकं चुम्बिअ अन्नं सढो मुइओ ॥७४॥ मा सोउआण अलिअं कुप्प मईआ सि तुम्हकेरो हं । इअ केण वि अणुणीआ णिअय-पिआ पाणिणीअजडा ॥५॥ किं हवसि पारकेरा न हु पारक्को तुहाहमिअ भणिआ । राइक्क-वार-विलया केणावि हु रायकेरेण ॥७६।। तुम्हेच्चया य अम्हेच्चया य एगव्व होउ तणु-लट्ठी । इअ जम्पिऊण दइआ केण वि सव्वंगिअं गहिआ ॥७७।। तुह पय-पह-पहिओ हं अप्पणयो पीणिम-प्पणइ-जहणे । पीणत्तण-सालि-थणे इअ केण वि तोसिआ रमणी ॥७८॥ पीणत्त-निहि-निअम्बे तिलेल्ल-अंकोल्लतेल्ल-कन्तिल्ले । मा तित्तिएण कुप्पेत्ति इत्तिअं को वि पियमाह ॥७९॥
७६
Page #85
--------------------------------------------------------------------------
________________
संस्कृतानु सर्जनम्
शिशु-युव-वृद्धबिडालैरत्युत्साहैः पलभ्रमाद् दृष्टम् । वैडूर्यकचाभरणे किंशुकमतिसौरभं लाहि ||६६|| पश्याऽधुना गृहाण कुरु रम्भां ततश्च पुनरनया । पूर्वासामपि नूतनमापीडं त्रस्तहरिणाक्षि ! ॥६७॥ त्रस्तात्रस्तालिकुलः पथिकानामष्टमः सुराचार्यः । पुन्नागस्तव योग्यो गुरुदयिते ! स्वरूपसम्पत्त्या ॥६८॥ मधुपमलिनपरिगुम्फितपूगीपुष्पेण रूपकमनीये ।
कुच - हस्त - चरणयुगलं सुन्दरि ! तव भूषयामि शुभम् ॥६९॥ शुक्तिपृथुनयनछुप्तोत्तंसे रागं सायन्तनं दधच्चेदम् । अवचिनु मधुकरलुप्तं मधुपादातिं जपाकुसुमम् ॥७०॥ आरब्धबहलपरिमलकेलिपदातीकृतान्यतरुकुसुमम् । किरिदन्तशुक्तिभङ्गोज्ज्वलमुच्चिनु मल्लिकाकुसुमम् ॥७१॥ बहिरबहिः स्फुटप्रणयैः वृक्षस्याऽधो नवीनप्रेयस्यः । कैरपि लपिताः काश्चिद् यथा च मातृष्वसुः कन्थाः ॥७२॥ निजमातापितृभगिनी-तत्कन्याजनगृहे यथोद्याने । मिथुनैस्त्रस्तं तिर्यक्प्रेक्षणशीलै रतं चैतत् ॥७३॥ स्थानस्थितभार्याया गृहपतिरक्ष्णी पिधाय हस्ताभ्याम् । हसिता मोक्तुं शङ्कां चुम्बित्वाऽन्यां शठो मुदितः ॥७४॥ श्रुत्वा न त्वमलीकं कुप्य मदीयाऽसि तव पुनश्चाऽहम् । इति केनाऽप्यनुनीता निजदयिता पाणिनीयज्ञा ॥७५॥ कुतो भवसि परकीया न हि परकीयस्तवाऽहमिति भणिता । ननु राजवारवनिता केनाऽपि हि राजकीयेन ॥७६॥ यौष्माकी चाऽऽस्माकी तनुयष्टिर्भवतु नित्यमेकैव । इति कथयित्वा दयिता सर्वाङ्गीणं धृता च केनाऽपि ॥७७॥ तव पदपथपथिकोऽहं चाऽऽत्मीयः पीनताप्रणयिजघने । पीनस्तन ! रक्षय मामिति काऽपि च तोषिता रमणी ॥७८॥ पीनत्वनिधिनितम्बे तिलतैलाङ्कोठतैलवत्कान्ते । मा कुप्य तावतेतीत्येवं कोऽपि प्रियामाह ॥७९॥
७७
Page #86
--------------------------------------------------------------------------
________________
प्राकृतधाश्रयमहाकाव्यम्
जित्तिअमत्तं रत्तो म्हि एत्तिअं रच्च एत्तिलं किमिमं । केण वि एद्दहमुत्ता तुण्हिक्का माणिणी जाआ ॥८०॥ सिहिओ सि जेत्तिअं जेत्तिलं च भणिओ सि जेद्दहं थविओ । न हु तेत्तिएण होसि त्ति पई कीइ वि उवालद्धो ॥८१॥ तं तेत्तिल-पेम्मं तुह न केत्तिअं तेदहा य अणुवित्ती । न हु केत्तिला वि केद्दहमित्थं कीइ वि सढो भणिओ ॥८२।। सयहुत्तं विणइल्लो दइओ जोण्हाल-चन्द-सिरिमन्तो । णेहालूए कीइ वि बाहुल्लच्छीइ अहिसित्तो ॥८३।। गव्विर न माणइत्ता सहन्ति गव्वं ति भणिअ कीए वि । दइओ हणिओ हणुमा-लंगूल-पलम्ब-लट्ठीए ॥८४॥ अन्नत्तो अन्नहि एसि तह वि अन्नत्थ अन्नदो जासि । एक्कसि न खु त्थिरो सि त्ति पिओ कीइ वि उवालद्धो ॥८५।। एक्कसिअं चिअ भणिओ एकइआ णेगया य गामिल्लिं । अप्पुल्ल-पियं वच्चेत्ति भच्छिओ को वि अन्नाए ॥८६॥ निच्च-नवल्लय-रच्चिर में एक्क-मणं नवाणुराइल्लं । एकलं चिअ मुंचसि कीइ वि रमणम्मि इअ रुन्नं ॥८७।। अवरिल्लंचल-गहिओ भालोवरि-निहिअ-भुमयमन्नाए । भमया-दासो व्व पिओ विहसन्तो सणिअमवगूढो ॥८८।। मणयं च मुच्छिरो वेविरो अ मणिअं पिओ मणा हसिरो । कीइ वि रइ-मीसाए वम्मह-मीसालिओ रमिओ ॥८९।। गिम्हो दीह-गन्ध-अन्धालिणि-दीहर-पत्त-चम्पओ। मण-मउअत्तयाइ कामन्धल-विज्जुलिआ-दुरिक्खओ । दिट्ठो विज्जु-पीअ-नव-किंसुअ-पत्तल-पीवलोवणो तत्ताऊ विओअ-विहुरीकय-पन्थिअ-गोण-खेअणो ॥९०॥
इति तृतीयः सर्गः ॥
Page #87
--------------------------------------------------------------------------
________________
संस्कृतानुसर्जनन्
यावदहमस्मि रक्तस्तावद् रज्यस्व किमिदमेतावत् । केनाऽप्येवं भणिता तूष्णीका मानिनी जाता ॥८०॥ यावत् त्वं स्पृहितोऽसि भणितो यावत् प्रशंसितश्चाऽसि । न हि भवसि तावतेति पतिः कयाचिदुपालब्धः ॥८१॥ स तावान् तव प्रणयो न कियांस्ते तावती समनुवृत्तिः । न हि कियतीति कयाचित् कियदपि भणितः शठः कोऽपि ॥८२॥ शतकृत्वः पदविनतो दयितो ज्योत्स्नावदिन्दुसत्कान्तिः । प्रणयिन्या च कयाचिदभिषिक्तः साश्रुजलनयनैः ॥८३॥ गर्विन् ! न मानवत्यो मदं सहन्ते कयाचिदिति भणितः । हनुमत्पुच्छप्रलम्बयष्ट्या दयितो हतः कोऽपि ॥८४|| इतस्ततः खलु तस्मादन्यत्राऽपि प्रयासि खलु नित्यम् । न स्थिर एकत्राऽऽसीरिति दयितः कयाऽप्युपालब्धः ॥८५।। भणितस्त्वमेकदैव ग्राम्यां खल्वेकदाऽथवा बहुधा । स्वीयां प्रियां व्रजेति परया सन्तर्जितः कोऽपि ॥८६।। नित्यं नवाभिलाषिन् ! मामेकमानसामचिररागाम् । असहायां ननु मुञ्चस्येवं रुदितं कयाऽपि निजरमणे ॥८७|| उच्चैरञ्जलविधृतो भालोपरिनिहितभ्र पुनः परया । दासो भुव इव दयितो विहसन्नालिङ्गितो मन्दम् ॥८८॥ मूर्छामितो मनाक् पुनरीषत्कम्पः प्रियो मनाक् सहासः । रतिमिश्रया कयाऽपि मन्मथमिश्रो रतः क्वाऽपि ॥८९॥ गन्धान्धीकृतमधुपो लघुपत्रचम्पको ननु ग्रीष्मः । मनसोऽकठिनत्वेन कामान्धैश्चञ्चला सदृशः ॥९०॥ विद्युत्पीतकनूतनकिंशुकदलपीतवर्णकारामः । तप्तापोऽप्यतिविधुरीकृतपान्थखेदनो दृष्टः ॥९१॥
इति तृतीयः सर्गः ॥
Page #88
--------------------------------------------------------------------------
________________
प्राकृतविभागः
पाइयविश्नाणकहा
- आ.विजयकस्तूरसूरीश्वराः
विओ ।
(१) सामाइयम्मि वुड्ढाए कहा सुवण्णलक्खदाणाओ, सामइयम्मि भावओ ।
फलं अईव नायव्वं, वुड्डा एत्थ नियंसणं ॥ एगम्मि नयरमम्मि एगो धणड्डो दाणी सेट्ठिवरो आसि । 'दाणेण भोगा लहिज्जंति' इअ गुरुवयणसवणेण सो सेट्ठी पइदिणं पत्तापत्तगवेसणं अकिच्चा पभायसमयम्मि लक्खसुवण्णस्स दाणं दाऊणं पच्छा गिहकम्माइं कुणेइ । अण्णं च, तस्स गिहसमीवम्मि एगा वुड्ढा नारी वसइ, सा वि सइ पच्चूसम्मि नमुक्कारमहामंतसुमरणपुव्वयं सामाइअं काऊणं पच्छा गेहकिच्चाई समायरेइ । एगया केणावि कारणेण सेट्ठिणो दाणम्मि, वुड्ढाए अ सामाइयम्मि अंतराओ जाओ । तेण दुण्हं पि विसाओ संजाओ । थेरीए विसायं नच्चा सो सेट्ठी गव्वेण साहेइ – 'हे वुड्ढे ! तुं किं झूरेसि ? जइ वत्थंचलेण हत्थाईणं पमज्जणं न जायं तत्तो तुव किं विगयं ? तत्थ किं पुण्णं सिया ? तुव सामाइयकम्मम्मि कोवि दव्वव्वयो न दिट्ठो, जइ एअप्पयारेण धम्मो सिया तइया सव्वे वि सइ तं चेव कुणेज्जा, न कोवि लक्खसुवण्णस्स दाणं कुज्जा' । एवं सोच्चा सा थेरी वएइ – 'मा एरिसं वयाहि' जइ सुवण्णमणिमइयसोवाणजुअं जिणपासायं करावेज्जा, तत्तो वि सामाइयम्मि अहियं फलं जिणिदेहिं वुत्तं' । जओ -
दिवसे दिवसे लक्खं, देह सुवण्णस्स खंडियं एगो ।
इयरो पुण सामाइयं, करइ न पहुप्पए तस्स ॥ सो सेट्ठी धम्मसरूवं अयाणंतो तहाविहं च दाणं दितो वि अंतयालम्मि अट्टज्झाणेण मच्छं पाविऊण रण्णम्मि हत्थी संजाओ । सा वि वुड्ढा साविगा सामाइयस्स पहावेण पज्जंते नमुक्कारमहामंतज्झाणपरा मरिऊण तस्स च्चिय नयरम्मि रण्णो कण्णा जाया । एगया सो गयंदो रायपुरिसेहिं गहिओ रण्णो य पट्टहत्थी संजाओ । कयाई सो पट्टहत्थी रायपहम्मि गच्छंतो नियं घरं
८०
Page #89
--------------------------------------------------------------------------
________________
परिवारं च पासेइ, पासिऊणं ईहावोहं कुणंतो जाईसरणं पाविऊणं मुच्छाइ पुढवीए उवरिं पडिओ । तस्स तारिसावत्थं विलोइउं अणेगे जणा तहिं संमिलिया, सा रायकण्णा वि तत्थ समागया । सा नियघरं दठूणं जाईसरणं पत्ता, जाइस्सरणेण नियं हत्थिणो य पुव्वभवं नच्चा गइंदं उट्ठावेइ । जया सो न उठेइ तया सा रायकण्णा वएइ -
__ उद्देसु सेट्ठि ! मा कुण, भंति अविवेगदाणओ हत्थी ।
तुं जाओ हं रणो, कण्णा सामाइयपहावा ॥ तओ गयवर ! 'दव्वदाणाओ सामाइयम्मि अहिंग फलं' ति जाणियव्वं । रायकण्णाए वयणं सोच्चा सो हत्थी उट्ठिओ । तइया नरिंदप्पमुहाणं महंतं अच्छेरं समुप्पण्णं । नरवइणा रायकण्णा पुट्ठा – 'पुत्ति ! किं एयं' ति । तीए दुण्हं पुव्वभवस्स वुत्तंतो कहिओ । एवं सुणिऊण सव्वेसिं सामाइयकिच्चम्मि सद्धा उप्पण्णा । सो गयंदो रायकण्णावयणेण पडिबुद्धो नमोक्कारमहामंतसुमरणतल्लिच्छो उभओ कालं रायकण्णाए पुरओ पुहवीए उवरि हिट्ठदि४ि ठविऊण मुत्तकालं जाव सइ समभावरूवं सामाइयं विहेइ ।
एवं सो गइंदो सामाइयेण समभावभावियप्पा धम्मसंपाइगं रायकण्णं गुरुणिं मण्णिऊणं पुव्वं पच्छा वा तं नमिऊण सामइयं कुणंतो जाईसरणेण पिज्जापिज्जं भक्खाभक्खं किच्चाकिच्चं जाणतो जहसत्तीए हेयदव्वाइं चयंतो सुहेण कालं गमेइ । पज्जंते समाहिणा कालं संपाविऊण अट्ठमे सहस्सारदेवलोगे देवो जाओ । रायकण्णा वि संपत्तसंबोही सम्मं देसविरइधम्मं आराहिऊण देवलोगे उप्पण्णा । कमेण ते दुण्णि वि सिद्धि पाविहिरे । उवएसो -
सामाइयम्मि वुड्ढाए, दाणम्मि सेट्ठिणो तह । फलं णच्चा सुहटुं हि, सामाइयं सया कुण ॥ सामाइयम्मि वुड्ढाए कहा समत्ता ॥
(२) तवपहावोवरि रायकण्णाविसल्लाए कहा
जहसत्तिं तवं कुज्जा, सव्वुवद्दववारणं ।
विसल्लारायकण्णेव, होइ सोहग्गभूसिओ ॥ पुव्वमहाविदेहम्मि पुंडरीयविजए चक्कधयं (चंदाविजयनाम) नयरं आसि । तत्थ अणंगसारचक्कवट्टी रज्जं पसासेइ । तस्स सोहग्गजयपडाया गुणसालिणी अणंगसारा नाम वरधूया अस्थि । जोव्वणपत्ता सा पुव्वभवनेहेण सुपइट्ठनयरनरवइणा पुणव्वसुणा अवहरिया । चक्कवट्टीसुहडेहि सो पराइओ समाणओ दुज्जेयं सत्तुसेण्णं जाणिऊणं पण्णत्तिं विज्जं संभरेइ । तीए तं बालं समप्पित्ता सो
१. भ्रान्तिम् । २. वरदुहिता।
८१
Page #90
--------------------------------------------------------------------------
________________
कहिं पि गओ । पण्णत्तीए सा बालिया वराह-रुरु-रोज्झजणियघोरारावरउद्दे अरण्णम्मि खित्ता । सुहडेहिं कंदर-कराल-गिरि-सिहर-सरिया-धरणीसुं निउणं निरिक्खमाणेहिं पि पुण्णलहुआ सा बाला कहिं पि नहि दिट्ठा । तओ ते आगंतूणं रायपुरओ कर्हिति – 'नाह ! जल-थल-नहयलमज्झे निरूविया कहवि सा न हु दिट्ठा' । तं निसुणिऊण सोयसल्लियसरीरो नरिंदो अक्कंदइ - 'हा वच्छे ! तुह विरहे नयरं नरयं विसेसई'।
अह सा अणंगसारा बालिगा सरणरहिआ रणम्मि कलुणसरेण पसुगणं पि रोयावंती रोयइ, अप्पणां अप्पं आसासंती खुहापिवासं सहती अरण्णभयउव्विग्गा नमोक्कारं परावत्तंती दसम-अट्ठमभत्तेण य तवसा अप्पाणं भाविती पारणम्मि फलेहिं एगासणं करती दिवसाइं गमेइ । एवं तिसहस्सवरिसपज्जंतं तवसा कालं गमेऊण संलेहणाए किसीभूयदेहा गंतुमवि असमत्था जाया । तइया चउव्विहाहारच्चागरूवभत्तपच्चक्खाणं करेइ । संकडे वि पडिया सत्तहत्थावग्गहाओ बाहिरं मरणंतेऽवि न गंतव्वं ति अणसणेण संठिआ । नियमस्स छठे दिवसे वोलीणे' एत्थंतरे तीए पिउमित्तो सोदासखेयरो मेरुसिहरजिणणाहे वंदित्ता तत्तो नियत्तो तत्थ अरण्णे समागओ समाणो तं पासेइ । पासित्ता गेहे आगमणाय कहेइ । कयभत्तपरिच्चाया सा निसेहेइ । तया सो खेयरो चक्कवट्टिपासम्मि समागंतूणं सव्वं कहेइ । सपरिवारो चक्कवट्टी तेण सह तत्थ आगच्छेइ । तम्मि समयम्मि सामल-कराल-जमरायबाहुदंडसरिसेण अयगरेण अद्धगसिज्जमाणं तारिसं तं दठूणं अयगरवहाइ चक्की जाव आदिसेइ ताव करुणारसमंथरगिराए बालाए 'तवसोसियस्स गयजीवियस्स अथिररूवासारदेहस्स मज्झ कए बहुदिवसछुहापरिपीडिएण इमिणा उरगेण मारिएण किं' ति चक्कवट्टी वारिओ । 'मए उ अणसणं संगहिअं' । जओ उत्तं -
खज्जंतीए वि तर्हि, बालाए सो हु अयगरो पावो ।
नो मारिओ किवाए, मंतं जाणंतियाए वि ॥ एवं तीए सव्वो उवसग्गो समयाए सोढो । एवं सरूवं पासित्ता वेरग्गवासिओ बावीससहस्सपुत्तेहिं सह चक्कवट्टी परिव्वइओ । सा दयाइ अयगररक्खणेण सुहज्झाणप्पहावेण य देवलोगं गया । पुणव्वसू तव्विरहेण दुमसेणमुणिपासे सणियाणसंजमं पालिऊण देवलोगे उप्पण्णो । तओ चइत्ता लक्खणो वासुदेवो जाओ । सा बाला देवलोगाओ चइऊण इह कोउगमंगलपुरे दोणमेहनरिंदपुत्ती विसल्ला जाया । गब्भे आगया समाणा तीए पहावेण माया वि रोगमुत्ता जाया । जायाए तीए सिणाणजलेण नयरं पि रोगरहियं जायं । जओ -
जेणं चिय अण्णभवे, तवच्चरणं अज्जियं सउवस्सग्गं । तेण इमा विसल्ला, बहुरोगपणासिणी जाया ॥
१. अतिक्रान्ते । २. लक्ष्मणः ।
Page #91
--------------------------------------------------------------------------
________________
उवएसो -
रायपुत्तिविसल्लाए, तवफलनिवेयगं । दिद्रुतं सोहणं णच्चा, तवम्मि उज्जमं कुण ॥ तवस्साए पहावम्मि विसल्लाए रायकण्णाए कहा समत्ता ॥
- सिरिपउमचरियाओ
'महापुरिसविसयाईवणेहो भवतारगो होई' इह देवाणंदामाहणीए कहा पवरपुरिसेसु नेहो, खणं पि जाओ भवियजणाणं जो ।
देवाणंदा विव जह, होइ भवुद्धारगो एत्थ ॥ इह भरहे माहणकुंडगामो आसि । तत्थाऽऽसि उसहदत्तो नाम माहणवुड्ढो । सो य पासनाहतित्थम्मि सड्ढो जिणमयसन्नाणरयणड्डो । तस्स य वरघरिणी गुणमणिरोहणधरणी देवाणंदा माहणी । अह सुरेहिं परियरिओ वीरजिणिंदो जिणवरधम्मे आसत्ताणं सुहियाणं ताणं दुण्हं पि पडिबोहणटुं कयाई बहिरुज्जाणे समोसरिओ । जिणागमणं नाऊणं भत्तिभरुब्भिन्नबहलपुलियंगो उसहदत्तो वंदणहेउं सव्विड्ढीए गच्छइ । देवाणंदा वि परियणसहिया सव्वालंकारभूसियसरीरा साणंदा गच्छइ । समवसरणं दठूणं ते दोवि रहवराओ ओयरिय तत्थ पंचविहाभिगमेणं पविसिऊणं जिणनाहं वंदित्ता दो वि अणिमिसच्छाई निसन्नाई।
सदेवमणुयासुररायपरिसाए देवाणंदा अइसिणेहा वीरजिणं पिच्छंती आगयपन्हा' जाया । तत्तो गोयमसामी वीरजिणं नमिऊणं पुच्छए – 'भयवं ! तुम्हाणमुवरिं समत्थभव्वाणं सिणेहो होइ, पुणो देवाणंदाए केण निमित्तेण अइनेहो दीसए ?' तो जिणों कहेइ – 'गोयम ! अहं पुप्फोत्तरविमाणाओ चविऊण एयाए कुच्छीए बासीइं दिवसाइं वसिओ, तेण देवाणंदा ममोवरि गुरुसिणेहपडिबद्धा आगयपन्हा जाया । गोयम ! मम जणणि त्ति तं जाणाहि' ।
एवं सिरिवीरजिणंदेण कहियं अंतरंगपडिबंधकारणं सोच्चा देवाणंदा महाणंदा भवभमणुव्विग्गा संविग्गा विणयपणयंगी एवं विनवेइ – 'देवाहिदेव ! मज्झ सिद्धिसही पव्वज्जा दिज्जउ' । तओ भयवया संसारतावहरणे दक्खा परिपक्करसदक्खा' समत्थजीवरक्खा दिक्खा तीए विइन्ना । तो सिक्खं दाऊणं अज्जाए चंदणाए समप्पिआ । सा देवाणंदा निरइयारा संजमभारं पालेइ । पंचसमिया तिगुत्ता
१. आगतप्रस्ना निर्गतस्तनधारा । २. परिपक्वरसद्राक्षा ।
Page #92
--------------------------------------------------------------------------
________________
पंचिदियनिग्गहम्मि आसत्ता अइदुक्करं बज्झब्भितरतवच्चरणं कुणंती तवचरणकरणजोगेण देवाण वि आणंद दिंती पयडियजहत्थनामा देवाणंदा समणी हवइ ।
कमेण सा परिवड्ढमाणसुक्कज्झाणानलदड्ढकम्मवणगहणा उप्पन्नविमलकेवलनाणा सुहसमिद्धा सिद्धा । एवं सिरिवीरजिणिदमुहाओ सुणिऊण जिणग्गहियदिक्खा जयंती साहूणी धम्मज्झाणिक्करया महासई निस्सेसकम्महरणं तवच्चरणं देवाणंदा जहा अकरिंसु तहा पइदियहं कुणइ । सा वि जयंती विसुद्धपरिणामा पयडियजीवाणुकंपा सुरगिरिचूलव्व निक्कंपा पसरंतघोरतवसत्ती झाणज्झयणपसत्ता अपमत्ता गीयत्था संविग्गा गुरुकुलवासेसु अणुव्विग्गा आरुहियखवगसेणी उप्पण्णविमलनाणा सिद्धा । उसो
देवाणंदाइ वुड्डत्ते, सच्चरियस्स संपयं 1 सोच्चा तहेव तुम्हे वि, भवेह मोक्खसाहगा ॥ महापुरिसविसयाईवसिणेहम्मि देवाणंदामाहणीए कहा समत्ता ॥
V
( ४ )
अरइचारित्तमोहुदयम्मि खुल्लगकुमारसमणस्स कहा
संजमसिहरारूढो, जीवो परिबुडइ जेण तेणेमं । अरइचरित्तमोहं, पावद्वाणं भांति विऊ' ॥१॥
अरई न हि कायव्वा, सिवफलहेउम्मि समणधम्मम्मि । खुल्लगसमणस्स इहं, सुणेह भविया ! कहं रम्मं ॥
-
भूमिरमणीविसेसए पवरे साकेयपुरे पुव्वि पुंडरिओ नाम राया आसि । तस्स य लहुभाया कंडरिओ नाम । तस्स जसभद्दा नामेण पणयिणी महासई होत्था । सा रूवाइरयणेहिं रोहणधरणीसरिसा तणुप्पहाभासियदिगंता ललियचरणचारेणं घरंगणे चंकमंती' पुंडरियनरिंदेण एगया दिट्ठा । तओ खलियचित्तस्स तस्स हियये मयणबाणा लग्गंति, तओ तीए मुच्छियमणो कुलमज्जायं लज्जं च मुंच । जओ वुत्तं
ते विरलच्चिय धीरा, जेसिं पररमणीरूवदिट्ठीए । हियएण समं दिट्ठी, पच्छाहुत्तं वलइ झत्ति ॥
१. विदुषः । २. भ्रमन्ती । ३. दृष्ट्या । ४. पश्चान्मुखम् ।
८४
जयंतीचरियाओ
Page #93
--------------------------------------------------------------------------
________________
तो एस पुंडरिओ तीए रूवम्मि मुच्छिओ संतो रई अलहंतो तीए समीवम्मि दूइं पेसइ । दूई वि तत्थ गंतूण कहेइ तं – ‘देवि ! तवोवरिं निवस्स चित्तं अइमत्तं, ता पसीय, अणुरत्तं तं परं पडिवज्जसु' । जसभद्दा विचितइ – 'फुरियकिरणोहं दिणमणिबिंबं पि दूरुज्झियगुरु - लहुवियारं अंधयारं उग्गिरइ' । दूइहुत्त' च भणइ – 'परिचत्तसकुलमज्जाओ राया जं एवं अणुरज्जइ, नियभाउणो वि कहं न लज्जइ ?' दूई एवं तीए वयणं गंतूण निवस्स साहइ । सो वि य गिद्धो लुद्धो लहुयं बंधवं मरावेइ । जसभद्दा वि रण्णो निग्घिणचरियं निरिक्खिऊण सिग्घं आभरणाई गहिऊण नियसीलरक्खणट्टं तओ नासेइ ।
कमेण सत्थेण सह मग्गे वच्चंती सा सावत्थि पुरिं पत्ता । तत्थ पडिवन्नजणयभावस् थेरवणियस्स गेहे दुहिया विव' दुहियावित्तीए चिट्ठइ । एगया सिरिजयसेणसूरिगुरूणो कित्तिम - महयरीसमीवम्मि पायपउमवंदणत्थं पत्ता सा नियचरियं साहेइ । सा महयरी धम्मुवएसं देइ । तं सोऊण पच्चागयसंवेगा अकहियपच्छन्नगभा सा सुद्धसद्धाए पवज्जं पडिवज्जइ । परिवÍते गब्भे महयरी पुच्छइ 'किमेयं' ति । भणइ य - तुम्हे दिक्खं न दासह त्ति मया पुवि गब्भो न कहिओ' । सा सज्जायरीघरंमि ठविया । कालक्कमेण तीए पुत्तो जाओ, वड्ढतो समए पडिवन्नवओ खुड्डगकुमारो त्ति जाओ ।
—
तणु सो जोव्वणारंभे मेरुगिरिगरुयं सीलभरं उव्वोढुं अचयंतो ओहावणाणुपेही ' जाओ । उन्निक्खमिउं इच्छंतो जणणि पुच्छइ । सा 'असुहस्स कालहरणं' त्ति वियारिऊण भणेइ - 'वच्छ ! मज्झ वयणेण बारसवरिसाइं जाव पुज्जंति ताव अच्छसु' । पुण्णेसुं तेसुं अरइं पत्तो पुणो वि पुच्छइ । माया कहे ‘आयरियाहीणा अहं, तओ सूरिं पुच्छसु' । तओ सो सूरिस्स समीवम्मि गओ । तत्थ वि सूरीणं वयणेण तत्तियमित्ताइं वरिसाई चिट्ठइ । तेसु वि पुज्जंतेसुं चारित्तमोहदोसेण अरओ उवज्झायवयणाओ वि
पुणो तित्तियं कालं अच्छइ । वयग्गहणाओ अडयालीसवरिसेहिं तस्स संजमे रई न संजाया, तेण इमं अरइनामं पावट्ठाणं । तओ सो जणणि पुच्छेइ, मायाए सो उवेहिओ' । गमणकाले तस्स पिउनामंकियमुद्दारयणं कंबलरयणं च अप्पिऊण माऊए सो भणिओ 'साके तुह महल्लओ पुंडरिओ जणओ नरिंदो अत्थि, तस्स पच्चयहेउं इमं मुद्दारयणं वच्छ ! दंससु । सो तुमं रज्जं दाहिइ' ।
कालक्कमेण सो साकेयं पत्तो, तम्मि य समयम्मि तत्थ पेक्खणारंभो अत्थि । सो रसिओ सयलंपि रयणिं तं पेक्खणं पेच्छइ । अइरंगे वट्टंते पभायसमयम्मि संता निद्दाघुम्मियनेत्ता नट्टिया, तओ सा सहयरियाए वृत्ता
सुट्टु वाइयं सुट्ठ गाइयं, सुट्टु नच्चियं सामसुन्दरि ! अणुपालिय दीहराईए, मा सुमिणंते पमायह 11
एयं गीइयं सोच्चा महुरक्खरवाणीए गीयगीइयाए संविग्गो सो खुड्डगकुमारो कंबलरयणं वियरइ । - तम्मि समए रायसुओ फुरंतकंतिल्लं कुंडलरयणं, सिरिकंतासत्थवाही वि तारं हारं जच्छई" । जयसंधिमंती
१. दूतीसन्मुखम् । २. दुहितेव । ३. अवधावनानुप्रेक्षी - संयमविमुखः । ४. पूर्यन्ते । ५. उपेक्षितः । ६. श्रान्ता । ७. यच्छति ।
८५
Page #94
--------------------------------------------------------------------------
________________
मणिरयणमंडियं कडगं देइ, मिठो य रयणसिणि अप्पेइ । सव्वाइं च ताई लक्खमुल्लाइं । पभायसमए जाए पुंडरिए नरवरम्मि पुच्छंते सो खुल्लगकुमारो सपच्चयं मुद्दारयणदंसणपुव्वं नियवुत्तंतं कहेइ - 'ताय ! माइवयणेण रज्जत्थी इत्थ अहं समागओ । संपयं अहं एवं गीइयं सुणिऊण संबुद्धो' ।। ___ रायकुमारेण वुत्तं – 'जणयं मारिऊणं रज्जं गिण्हामि त्ति वियारो मम संजाओ, किंतु एयाए गीइयाए अकज्जाओ अहं निवारिओ' ।
सत्थवाही विनवइ - 'नरिंद ! मम भत्तुणो सत्थवाहस्स अत्थोवज्जणहेउं दूरे देसंतरे गयस्स बारसवरिसाइं जायाई । तस्स आगमणे संसयदोलारूढम्म अरई वट्टए, परंतु एसा गीइया अन्नपियम्मि मे चित्तं विणिवारेइ' । ___ जयसंधी वि अमच्चो कहेइ – 'तुम्हुवघाए' अण्णराएहिं उवयरिओ हं देव ! इमं गीइयं सोच्चा पावाओ विणियत्तो' । .. मिठो वि साहइ – 'राय ! सत्तुवयणाओ सव्वलक्खणसंजुअं इमं गयरयणं हंतुं इच्छंतो एयाए गीइगाए अहं गयरयणवहपावकम्माओ वारिओ' । - सो खुड्डगकुमारो संविग्गे ते सव्वे पव्वाविऊण तेहिं सव्वेहिं परिवरिओ तओ सो गुरुपासम्मि जायइ । तत्थ नियपावकम्माइं सम्मं आलोइत्ता निम्मलयरसंजमाराहरणरओ सो कमेण सग्गसुहं पत्तो, तओ य मोक्खं पाविहिइ ।
उवएसो
खुल्लगसाहुदिटुंतं, काले संबोहिदायगं । सोच्चा कुणेह मा तुम्हे, संजमे अरई कया ॥ अरइचारित्तमोहोदयम्मि खुल्लगमुणिस्स कहा समत्ता ॥
- जयंतीचरियाओ
१. रत्नसृणिं - रत्नाङ्कुशम् । २. तव उपघातार्थम् ।
८६
Page #95
--------------------------------------------------------------------------
________________
तदरमअन्ति।
નહિ પાસે નહિ. દૂર.
तद् दूरे त अन्ति
प्रकाशितमस्ति नन्दनवनकल्पतरुपरिवारस्य नूतनं प्रकाशनम्
तद् दूरे तद् अन्तिके
अमेरिकीयलेखक-रिचार्ड बाक-इत्यनेन लिखितस्य
“There is no such place As Far Away” हत्यस्य आङ्ग्लभाषीयपुस्तकस्य संस्कृतानुवादः गूर्जरभाषानुवादश्च ।।
अनुवादकः
पं.कल्याणकीर्तिविजयः गणी
प्रकाशकः
भद्रङ्करोदयशिक्षणट्रस्ट, गोधरा
प्राप्तिस्थानम्
श्रीविजयनेमिसूरिज्ञानशाला शासनसम्राड्-भवन, शेठ हठीसिंह केसरीसिंह वाडी, दिल्ली दरवाजा बहार, अहमदाबाद-४
मूल्यम्
रू. २५०/
Page #96
--------------------------------------------------------------------------
________________ With Gratitude Fr Guarat University Ahmedabad india lesbielleele संस्कृत विभागः, भाषासाहित्यभवनम, गुजरात विश्वविद्यालयः, अमदावाद संस्कृतभाषायाः संस्कृतविधायाः च प्रचार-प्रसाररूपसेवाकर्मणि सततम् संलग्नम् नन्दनवनकल्पतरुः संस्कृतपत्रिका परिवारम् सविशेषम् सम्पादकम् प्रकाशकम् च अमवातावलः गुजरात विश्वविद्यातायः सागरम सम्मानयति अभिनन्यति च / / अहमदाबादस्थेन गुजरातविश्वविद्यालयेन (Gujarat University) आ एकोनविंशतेर्वर्षेभ्यो निःस्वार्थतया संस्कृतभाषा साहित्यादीनां सेवायां प्रसारे च संलग्नस्य नन्दनवनकल्पतरु-अयनपत्रस्य तत्परिवारस्य च सम्माननमस्मिन् वर्षे जुलाई-मासे २६तमे, दिनाङ्के कृतम् / एतदर्थं गुजरात-विश्वविद्यालयाय धन्यवादान् प्रत्यर्पयति नन्दनवनकल्पतरुपरिवारः स्वं च गौरवान्वितमनुभवति / Kirit Graphics 09898490091