________________
इयं हि रक्षा संसारे नहि निरुपयोगिनी, यतः सहस्रशः स्त्रीपुरुषैर्भोजनान्ते स्वोच्छिष्टपात्राणि रक्षयैव शुद्धीक्रियन्ते । प्रभुभक्तिलीना विरक्तयोगिनो स्वाङ्गेषु रक्षाधारणयैव महायोगिनो निगद्यन्ते । तेषां धूनिकासु रक्षैव पवित्रभूता मन्यते । संसारवासिनां जीवानां जीवनभूतधान्यादिसुरक्षणं रक्षैव विदधाति । मृत्पात्राणि च प्रायशो रक्षाया मेलनेनैव पौष्ट्यं दघते । अत एव नानागुणसंपन्नरक्षया सार्धं निर्गुणिनो नरस्य तुल्यत्वं सर्वथाऽयोग्यमिति। ततो धनपालः 'मनुष्यरूपेण हि धूलितुल्याः' इत्येव निरचैषीत् । प्रतिवादी धूलिमपि मण्डयन्नाऽऽह -
कारयन्ति शिशुक्रीडां, पङ्कनाशं च कुर्वते ।
रजस्तात्कालिके लेखे, क्षिप्तं क्षिप्रं फलप्रदम् ॥ इयं धूलिकापि संसारे न निर्रथिका, यतो बीजवपनोद्यानवापीकूपवप्रमठमन्दिरहर्म्यगृहादिकार्येषु विविधमृत्पात्रनिर्माणादिषु च धूलिकैव कार्यसाधिका । ये पुमांसोऽनाचारिणो दम्भिनः कुटिलाश्च भवन्ति, तेषामनादरकरणाय तदुपरि धूलिकैवोत्क्षिप्यते । अतो धूलिकाऽप्यनेकगुणसंपन्ना, किं च निर्गुणी पुमांस्तु सर्वतो न्यूनः, स च नहि धूलिकासमानोऽपीति ।
अथ धनपालो विद्वानगादीत् – यदेतावत्कालपर्यन्तं मया सर्वसाधारणजनतायै विशेषवस्तुनो गुणानां बोधायैवैतावान् विस्तृतो लम्बसंवादः । किं चाऽन्तेऽवश्यमिदं कथनीयं स्यात् - यन्नीतिकर्तृभिर्विद्वद्भिः संसारवासिनो जनाश्चतुर्धा विभक्ताः । तथाहि -
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये, सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निजन्ति ये,
ये निजन्ति निरर्थकं परहितं ते के ? न जानीमहे ॥ अर्थात् – स्वार्थमगणयित्वा ये परार्थं साधयन्ति, तेऽवश्यं सत्पुरुषा एव। ये स्वार्थेन सह परार्थं साधयन्ति ते मध्यमा बोध्याः । ये तु स्वार्थाय परार्थं विनाशयन्ति, तेऽधमा मनुष्यरूपा राक्षसा ज्ञेयाः । ये च वृथैव परार्थं विनाशयन्ति, 'ते के स्युः ?' इति वयं न जानीमहे ।
किञ्च वस्तुतो यैर्न विद्याऽधीता, न तपस्तप्तम्, न दानं दत्तम्, न सच्चारित्र्यमाप्तम्, न कोऽपि प्रशस्यो गुणोऽभ्यस्तः, न च धर्मोऽनुष्ठितस्ते निर्गुणिनो नराः संसारे स्वपरहानिकर्तार एव । अतो निर्गुणानां जनानां विषये नीतिज्ञाः 'ते के ? न जानीमहे' इत्येवमुक्त्वा विरेमुः । अतोऽयं संवादः सर्वान् सूचयति - यन्निर्गुणिने नराय संसृतौ न काप्युपमा, अतस्तेऽधमाधमा एव विज्ञेया इति । ___ अथ पुरुषैर्गुणोपार्जनाय सोत्साहकैर्भवितव्यमेव खलु । गुणाप्तिश्च सत्सङ्गमन्तरा नैव भवति । यतः सत्सङ्गत्यामनन्तगुणाः प्राप्यन्ते, दुर्जनसङ्गतौ च भूयसी हानिर्भवति । यथा -