SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ज्ञान बढ़े गुनवान की संगत, ध्यान बढ़े तपसी संग कीने, मोह बढ़े परिवार की संगत, लोभ बढ़े धन में चित्त दीने । क्रोध बढ़े नर - मूढ की संगत, काम बढ़े तिय के संग कीने, बुद्धि विवेक विचार बढ़े कवि दीन सुसज्जन-संगत कीने ॥ सत्सङ्गत्या च निर्गुणिनोऽपि राजवेश्यावत् सगुणा भवन्तीति । तथाहि - कदाचिदेको महात्मा तपस्वी क्लिन्नगात्रः पङ्कलितश्च कस्यचिद् हर्म्यतले गत्वा तस्थौ । तच्च भवनं राज्ञो वेश्याया आसीत् । अतिशैत्येन कम्पितगात्रं तं तपस्विनं प्रेक्ष्य काचन वेश्याचेटिका स्वस्वामिन्यै सर्वं वृत्तान्तमचकथत् । अथ वेश्याऽपि ‘गच्छ शीघ्रं तं तपस्विनं समानय ?' इत्युक्तवती । चेटिकापि शीघ्रमेव तं समानैषीत् । ततो वेश्या सादरं तं संस्नाप्य वासांसि च परिधाप्य सप्रेमाऽबूभुजत्, ततः स्वयमपि भुक्त्वा तदन्तिकमेत्य तं च पर्यङ्के शाययित्वा तत्पादावमीमृदत् । अवीवहच्चाऽथ महात्माऽप्येकदृष्ट्या तां विलोक्यैव तद्धृदये वैराग्यपीयूषधाराम् । स च सुष्वाप, सा तु रात्रौ तत्पादौ चम्पितवती । किञ्चाऽन्तिमनिशायां साऽशयिष्ट । स तपस्वी चोत्थाय चचाल । प्रत्यूषे चोत्थिता वेश्या निजदासीं 'महात्मा क्वाऽगमत् ?' इत्येवमप्राक्षीत् । तया चोत्तरितम् – ‘स तु गतः' इति । ततस्तदानीमेव सा वेश्या गृहान्निर्गत्य तपस्विनी भूत्वा नगराद्बहिः कस्यचिद् वृक्षस्याऽधो गत्वाऽस्थात् । नृपतिश्चेदं वृत्तान्तं शृण्वन्नेव तां समानेतुं कर्मकरान् प्रैषीत् । साऽवदत् - नाऽहमिदानीं 'भवद्गृहस्य गूथशोधिका' इति गदित्वा सा क्वाऽप्यन्यत्र विजहार । अतः सत्यं महात्मनां क्षणकालिक्यपि सङ्गतिर्महापापानि विनाशयति, कारयति च परमां समुन्नतिम् । I अथाऽऽत्मोन्नतिरपि केवलं पवित्रमहत्त्वाकाङ्क्षादिभिरेव जायते । स एव मनुजो, योऽनवरतमुच्चविचारेषु परिभ्राम्यति । येषां हृदात्ममनस्सु सदा शुद्धाः स्वार्थशून्याश्च विचारा बोभुवति, निश्चितं ते मध्याह्नकालीनभानुवज्जाज्वल्यमानाः, पूर्णचन्द्र इव माधुर्यपीयूषपूर्णाः, ज्ञानवन्तः सदाचारिणश्च । ते तत्स्थानं लभन्ते, यतोऽस्मिन् संसारे बहुप्रतापशालिनं प्रकाशं प्रकाशयन्ति, शान्ति-सुधां चाऽपि वर्षन्ति । स्वार्थत्यागं विना न कथंचिदप्युन्नतेः प्राप्तिर्न चाऽपि साफल्यप्राप्तिर्भवितुमर्हति । मनुष्यस्य सांसारिकविषयेष्वपि तदनुसारेणैव साफल्यं भविष्यति, यदनुसारेण स स्वविषयविकारादिविचारान् संहरिष्यति, स्वमनश्च निजप्रयत्नोपायेषु स्थिरीकरिष्यति, स्वप्रतिज्ञातस्य च दाढर्यं प्रददानः स्वावलम्बी भविष्यतीति । यो निजविचारान् यावदेवोच्चैः करोति, तावदेवाऽधिकं मनुष्यत्वदृढत्वधर्मपरायणत्वादि प्राप्नोति, तस्य `च साफल्यमपि तावदेव श्लाघनीयं भवति । एवंभूतस्य श्रेष्ठमनुजस्योन्नतिश्चिरकालं स्थिरायते, स पुमानपि धन्यो बोभूयतेतरामिति । स्त्रिय एव संसारे गृहश्रियः, अपूर्वप्रेम्णो मूर्त्तयः, पुरुषमात्रस्य प्राथमिकाध्ययनशालाश्च । स्वबालकबालिकानामादर्शरूपविधानं, स्वसहचारिणां सदाचारित्वकरणं, स्वगृहोन्नतिरचणं, तस्य च स्वर्गसादृश्यविधानाद्यखिलकार्यभारः स्त्रीष्वेव, अत एव स्त्रीणामपि गुणार्थं तावत्येवाऽऽवश्यकता, यावती पुरुषाणां सद्गुणार्थम् । तथा याः स्त्रियो निर्लज्जाः, कलहप्रियाः, कटुभाषिण्यः, क्रोधवत्यः, स्नेहशून्याः, अलसा, २९
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy