________________
पर्दूषणपर्वमहिमा
पर्दूषणे पर्वणि किंविधेयं
पर्दूषणस्याऽस्ति प्रयोजनं किम् । पर्दूषणात् किं फलमस्ति लोके
तदुच्यतां देव ! मनुष्यहेतोः ॥१॥ स्याद्वादसिद्धान्तजिनेशधर्मे
पर्दूषणं पर्व समाघनाशि । कायेन वाचा मनसेन्द्रियैश्च
- बुद्ध्याऽऽत्मना सञ्चितपापहन्तृ ॥२॥ वर्षान्तरे पापसमुच्चयः कृतः
पर्दूषणे तद्धि विनाशमाप्नुयात् । अतस्तु पर्युषणपर्व चोत्तम
प्रोक्तं जिनेन्द्रैजिनधर्मशासने ॥३॥ पर्दूषणात् पापसमूहनाश
स्तथा समत्वं सचराचरेषु । स्वधर्मवृत्त्या सकलेन्द्रियाणि
महापवित्राणि भवन्ति तूर्णम् ॥४॥ प्रतिक्रमो दर्शनचैत्यवन्दनं
जिनेश्वरे स्वात्मसमर्पणं च । मनोवचोध्यानमयं विभाव्य
जिनेन्द्ररूपे स्थिरचित्समन्तात् ।।५।।