SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ "दौर्भाग्यम् ? भोः ! मुखं नियन्त्र्य वदतु" - गेलिकः सावेशं कथितवान् । आम, दौर्भाग्यमेव । यतोऽत्र भवानस्माकं प्राघूर्णकोऽस्ति, किन्तु युद्धरङ्गे तु भवानस्माकं शत्रुरेव । अस्माकं द्वारि भवानागत इति भवत आतिथ्यं मम धर्मः । अतिथिसत्कारो नाऽस्माकं व्यवहारोऽपि तु धर्मोऽस्ति । अतोऽहं भवतो विशिष्टं सम्माननं कुर्वनस्मि चाटुकारितां वाऽऽचरन्नस्मीति नैव मन्तव्यम् । इदं त्वस्माकं गृहस्थधर्मस्य पालनमात्रम्" । गेलिको नाऽवदत् किञ्चित् ।। "कृपया किञ्चन मिष्टान्नमिदं खादतु" । "स्वादु भोजनं सम्पादयन्ति भवन्तः खलु ! । किञ्च, युष्माकमस्माकं च मध्ये युद्धं नाम केवलं नाटकमासीत्, तदप्येकपक्षीयम् । यूयं स्तोकमपि विरोधं नैव कृतवन्तः । यद्यपि भवन्तः पर्वतीया जना गुलिकास्त्रमतीव शोभनतया प्रयुञ्जन्ति इति तु मन्तव्यमेव । यदाऽहं पर्वतीयमार्गेणाऽऽगच्छनासं तदा क्रोशार्धात् केनचित् जनेन गुलिकाप्रहारेण मे मार्गदर्शको हतः" । गेलिको वदन्नेव सहसा तूष्णीको भूत्वा सकर्णतया किञ्चन श्रोतुं प्रायतत । काश्चन स्त्रियस्तारस्वरेण विलपन्त्य आसन् । "का एता रुदन्ति ?", गेलिको व्याकुलीभूय पृष्टवान् । तावता वृद्धकाऽऽगताऽवदच्च - "अस्माकं पुत्रा गृहमागच्छन्तः सन्ति" । गेलिकोऽपश्यद् यत् तस्या आननं कठोरं विवर्णं च जातमासीत् सा च मुखमनुद्घाटयैव हि शब्दानैतान् गदितवत्यासीत् । वृद्धस्तु सर्वथाऽनाकुलः स्थिरश्च स्थित आसीत् । द्वारमुद्घटितम् । द्वौ जनौ काष्ठफलकेन शवमेकं गृहीत्वाऽन्तरागतौ । __"मम ज्येष्ठः पुत्रोऽयम्" - वृद्धोऽवदत् । "कृपया क्षाम्यतु, भवतो विश्रामो बाधितोऽस्माभिः । ममाऽन्येषां चतुर्णां पुत्राणां शवान्यपीहाऽऽनीयमानानि सन्ति" । गेलिकोऽपश्यत् यद् वृद्धाया अक्षीणि हिमखण्डमिव गलन्त्यासन् । स्थूरस्थूरा अश्रुबिन्दवस्तकपोलयोनिपतन्त आसन् । तस्याः पीवरः सुग्रथितश्च देहः कम्पमान आसीत् । वृद्धस्तां तीक्ष्णेन गभीरेण च स्वरेणाऽवदत् - "तूष्णीं भवतु रूबि ! अस्माकं गृहे प्राघूर्णकोऽस्ति"। . तयोः कनिष्ठः पुत्रः कुट्टिमोपरि निर्जीव: पतित आसीत् । तस्याऽचेतनो हस्त एकतो लम्बमान आसीत् । वृद्धा किञ्चिदवनम्य तद्धस्तं च स्वहृदयेनाऽऽश्लेष्य नीरङ्ग्यामश्रूणि सचिन्वतीवाऽन्यस्मिन्नपवरके गतवती। "रूबी क्षाम्यतु महोदय !" - वृद्धोऽवदत् ।
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy