________________
"न काऽपि बाधा भोः ! मातृहृदयमाघातेन शोकग्रस्तं भवेदेव खलु !" - गेलिकः कथितवान् । "अहमपि युद्धे भागमग्रहीत् किन्तु मरणं मे भाग्ये नाऽऽसीत्" ।
गेलिकस्य मनः क्षुब्धं जातम् । तच्चित्ते सन्ताप इवाऽनुभूतः । सोऽवदत् - "भगवान् मैवं कार्षीत्... कदाचिन्मया भवतः कश्चन पुत्रो हतः स्यात्.... युद्धमासीत्, न जाने कस्को वा मे गुलिकया मृतः इति !" । ___"महोदय ! चिन्ता माऽस्तु, भवान् मे प्राघूर्णकः । मम गृहे न कोऽपि भवता सह दुर्व्यवहारं करिष्याति" - वृद्धः सादरमवनम्याऽवदत् ।
"नैव बन्धो ! नास्ति भयं मे भवतः सकाशात्, किन्तु सौजन्यस्याऽनुरोधः ......!" । "अवबुद्धं मया ! भवान् स्वीयां परिस्थिति स्पष्टीकुर्वन्नस्ति" - वृद्धो हस्तं प्रसारयन्नवदत् ।
"आतिथ्यस्य भवतां रीतिर्मे भृशं रुचिता । अहं भवते वचनं ददामि यद् भवतः सौजन्यस्याऽस्य कृतेऽस्माकं सर्वकारो भवते समुचितं पुरस्कारं दास्यति" ।
वृद्धः शान्त्या सरलभावेन चोक्तवान् - "भवान् पश्यन्नेवाऽस्ति यदेकस्मिन् तुङ्गपर्वतोपत्यकायां मम गृहमस्ति । इटलीयजनेभ्यो मे न किमपि भयमस्ति । अत्र यावदागमनस्यैक एव मार्गोऽस्ति यं केवलमहं मे भृत्या वा जानन्ति । ममेमं दुर्गं वशीकर्तुं भवतां राष्ट्रप्रमुखेण महत्येका सेनैव प्रेषणीया भवेत्" ।
"किञ्च, आतिथ्यविषयेऽपि भवान् मे कथनं शृणोतु किञ्चित् । अत्र प्रदेशे कश्चन जनः स्वप्रतिवेशिनः पत्नी हतवान् । पतिः स्वपत्नीघातकं हन्तुं प्रतिश्रुतवान् आसीत् । किन्तु, घातकेन किं कृतं स्यात् ? विचिन्त्य वदतु..."
"किं वा कुर्यात् सः ? देशं त्यक्त्वा पलायितवान् स्यात् !" ।
"नैव, स अतिथिर्भूत्वा तस्यैव प्रतिवेशिनो गृहं गतवान् विंशति वर्षाणि यावत् तत्रैवोषितवान् । न केनाऽपि तदभिमुखमङ्गुलिरप्युत्थापिता" ।
"वराकः स प्रतिवेशी !!" - गेलिकः सनिःश्वासमगदत् । "किं तमाखुपत्राणि समुचितानि वा ?"
"आम्, किञ्चिदिव ! किन्तु, अस्माद्विशेषज्ञा एतेभ्य उत्तमां धूमवर्तिकां निर्मातुं क्षमाः । तथा, कियदुत्तममभविष्यद् यद्यहं कूर्चमुण्डनं स्नानं च कर्तुं शक्तोऽभविष्यम् ? ततश्च स्वशिविरे प्रतिनिवर्तितुमपि चिन्तयन्नस्मि भोः !" ।
"यथा भवानिच्छति । भवान् यथेच्छमत्र गृहे स्थातुं गृहोपस्करं च सर्वमुपयोक्तुं स्वतन्त्रः । अहं मत्सेवकाश्च भवन्तं परिचरितुं तत्परा एव । यदि भवान् जिगमिषत्येव तदा तत्प्रबन्धमपि करोमि । भो इस्माइल !...." ।