SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ एको भृत्योऽन्तरागतः । वृद्धस्तमादिशत् - "अस्माकं पाशानामकमश्वं पर्याणेन सन्नह्य दिनद्वयकृते भोजनसामग्री प्रगुणीकुरु, अली च कथयित्वा स्नानार्थं जलमुष्णीकारय कूर्चमुण्डनार्थं च तमत्र प्रेषय" । स्नानान्तरं गेलिकशरीरं स्फूर्तियुतं प्रत्यग्रं चाऽभवदिव । सैनिकवेषे तस्याऽऽयतविस्तृतं हृष्टपुष्टं च शरीरं सप्रभावं दृश्यते स्म । गेलिकः कटिबन्धे गुलिकास्त्रं बध्नन्नवदत् - "यदाऽहं भवन्तं मिलितुमत्र पुनरागमिष्यामि तदा अलीनामानं भृत्यं मया सह नेष्यामि । अयं कूर्चमुण्डने निष्णातोऽस्ति" । "महोदय ! आगच्छतु, अयं मे श्रेष्ठोऽश्वः सुसन्नद्धो गन्तुं च सिद्धोऽस्ति" - वृद्धः सादरं सनमस्कारं चाऽवदत् । "भवतु, तर्हि साधयामिः खलु !" – गेलिको गन्तुमुत्सुकतयाऽकथयत् । "चलतु, अहं भवन्तं मुख्यमार्ग यावत् प्रापयामि" । द्वावप्यश्वारोहिणौ सहैव चलन्तावास्ताम् । विशालान् शिलासमूहान् पारयित्वा तौ पर्याप्ततया दूरमागतौ । सूर्योऽपि पश्चिमां प्रति प्रस्थित आसीत् । "मम भूमेः सीमाऽत्राऽस्ति" - वृद्धो गेलिकं कथयन् तदवधानमाकृषत् । "किमिदं करोति भवान् ?" - गेलिको भयवशात् सहसा चीत्कृतवान् । वृद्धः स्वीयं गुलिकास्त्रं तद्वक्षसि लक्ष्यीकृतवानासीत् । गेलिकश्च सर्वथाऽनपेक्षितमिदं दृष्ट्वा कम्पमान आसीत् । "यो घातको विंशति वर्षाणि यावत् स्वीयातिथ्यकारिणो गृहे उषितवान् स एकदोद्यानं गतवान्, तत्क्षणमेव च गृहस्वामिना स गुलिकया विद्धः । गृहाद् बहिर्निस्सरणानन्तरं स तस्याऽतिथिर्नाऽऽसीत् । भवानपि मेऽतिथिर्नास्ति इदानीम् । किं मरणात् पूर्वं भवान् भगवत्प्रार्थनं करिष्यति वा ?" गेलिकः शिरोऽधूनयत् । "मम पञ्चानामपि पुत्राणां शरीरेषु भवतो गुलिकास्त्रस्यैव गुलिकाः प्राप्ताः सन्ति । अर्थान्मे पञ्चाऽपि पुत्रा भवतैव हताः खलु !! प्रत्येकं पुत्रस्य मरणस्य प्रतिशोधार्थमहं पञ्च गुलिका भवति क्षेप्स्यामि" | "वृद्धः पञ्चकृत्वो गुलिकास्त्रमचालयत् । गेलिकोऽश्वाद् विलुठ्य भूमौ पतितः । वृद्धस्तिरस्कारेण पादप्रहारं कृत्वा शिलाभ्योऽधस्तात् तद्देहं प्रक्षिप्तवान् । ततो द्वितीयमश्वं चालयन् स गृहं प्रतिनिवृत्तः । गृहस्य सर्वा अपि स्त्रियो मस्तकं कुट्टयन्त्यो रुदन्त्य आसन् । समग्रमपि वातावरणं करुणरुदनेन विलपमानमासीदिव । वृद्धो गृहं प्रविष्टः कुट्टिमे स्थितं च शवं परिष्वज्य सार्त्तनादं रोदनमारब्धवान् । ___ (सौजन्यम् नवनीत-हिन्दी-डायजेस्ट मार्च, २०१२)
SR No.521039
Book TitleNandanvan Kalpataru 2017 11 SrNo 39
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages96
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy